पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 460, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. - सू - ८. ] दीपिकासहितम्. ४१३ रणत्वोक्तेर्विरोध इति । ( २ ) अतो वक्ति— सू— ॐ ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ ॐ ॥ ८ ॥ न 'सतो' ब्रह्मणः कारणत्वोक्तेः 'यतो वा' इत्यादिश्रुतेः 'असद्वा' इत्यादिना विरोध इति योजना । अथ वा—तत्त्वप्रदीपरीत्या 'असदे व' इत्यनेन असतः कारणत्वोक्तेरादिशब्दगृहीतेन 'यतो वा' इत्या दिना सतः कारणत्वोक्तेः परस्परविरोध इत्यन्वयः । न च अनेन श्रु तिविगानेन सन्देह एव भवति, नान्यतरपक्षावधारणमिति वाच्यम् । पूर्वपक्षीयश्रुतेः प्रागुत्पत्तेर्विनाशादूर्ध्वं चासदात्मकत्वात्कार्यस्य त त्कारणमपि प्रलयेऽसद्भवितुमर्हति वस्तुत्वात्कार्यवदित्यादियुक्तियुक्त त्वेन प्रबलत्वात्तया सैद्धान्तिकश्रुतेर्बाधोपपत्तेः । तथा चायं विरोधश ब्दो युक्तिविरोधस्याप्युपलक्षको बाधार्थश्च द्रष्टव्यः । विरोध इत्यन न्तरं यत इति शेषः । अस्यातो न वेदो विष्णुजगतकर्तृत्वे प्रमाणं, अ तः प्रमाणाभावान्न तद्युक्तमित्युपस्कृतवाक्येनान्वयः । अनेन—सूत्रे अ सदित्युक्तिर्न केवलं प्रागभावरूपधर्म्युपस्थापिका, किन्तु श्रुतिप्रतीक ग्रहणरूपाऽपि । जगत्कर्त्रीति शेषः । तथा च 'असत्' विश्वप्रागभाव ए व जगत्कर्तृ, न ब्रह्म । कुतः ? 'असत्' इति श्रुतेरिति सूत्रखण्डार्थ उ क्तो भवति । सिद्धान्तरीत्या श्रुत्यर्थस्तु—'इदमग्रे' अस्याग्रे जगत्सृ ष्टेः पूर्वे प्रलये न विद्यते सदुत्तमं यस्मात्तत् 'असत्' सर्वोत्तमं ब्रह्मै वासीत् तत्तस्मात्सन्नामको मुख्यवायुः 'अजायत' अभूत् । 'पूर्वे युगे' आदिसृष्टिकाले 'असतो' ब्रह्मणो देवानां प्रथमः सन्नामको वा युरजायतेति । तैत्तिरीयभाष्ये तु—असन्नामा नारायणो मूलरूपी आ सीत् । तस्मात्सन्नामा वासुदेवः प्रादुरभूदित्यर्थ उक्तः । प्रमेयदीपे तु 'असतः' इति श्रुतेरनेकार्थत्वादित्यादिनाऽसच्छब्दः प्रकृतिपरतया व्याख्यातः । पूर्वपक्षी तु शतुः छान्दसं भावसाधनत्वमाश्रित्य असद् भाव इति व्युत्पत्त्या वा असदसत्त्वमिति भावप्रधानत्वेन वाऽसच्छ ब्दो विश्वप्रागभावपरः, सच्छब्दस्तु भावकार्यवाचीति मन्यते ॥ (२) सिद्धान्तयत्सूत्रमवतार्य आक्षेपांशस्य पूर्वमेव विवृतत्वात् परिहारांशं व्याचष्टे—अत इति ॥ प्रतिषेधेति । अभावरूपधर्मद्वारम न्तरेण धर्मिस्वरूपेणैव प्रतिषेधबुद्धिविषयत्वादित्यर्थः । घटप्रागभावा दिवदिति दृष्टान्तवाक्यस्याप्युपलक्षकमेतत् । भावेषु कुलालादिषु अ