पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 461, कुल 1267 में से
संदर्भ में पढ़ें४१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] प्रतिषेधमात्रत्वान्नासतः कारणत्वं युक्तम् । ( ३ ) असतः कारणत्वाद्युक्तिविरुद्धं वेदवाक्यमित्येतदत्र नि- षिध्यते । न्योन्याभावरूपधर्मस्वरूपेण प्रतिषेधरूपत्वमस्तीति व्यभिचारवारणा- य मात्रपदं सूत्रे भाष्ये च । अभावधर्मात्मतामन्तरेण स्वरूपत एवे- ति तदर्थः । अभावस्याप्यभिधेयत्वादिधर्मात्मनाऽप्रतिषेधरूपत्वाद् सिद्धिपरिहाराय—स्वरूपत एवेति । प्राधान्येनेत्यर्थः । तथा च ध- र्मिधर्मभेदपक्षे सर्वस्य वस्तुनो धर्मधर्मिरूपेण द्विरूपत्वेऽपि धर्माद्ध- र्मी प्रधान इति तेनाकारेण निषेधरूपत्वस्य विवक्षितत्वान्नोक्तदोष इ- ति भावः । सूत्रे हेत्वंशस्य स्पष्टत्वात्तदन्यत्र व्याकृतत्वाच्च तद्व्याख्या मकृत्वा नेति साध्यान्वयाय तदनुकृत्य प्रतिषेध्यप्रदर्शनेन साध्यांशं व्याचष्टे—प्रतिषेधमात्रत्वादिति । 'असतः' अभावस्य 'कारणत्वं' जगत्कर्तृत्वं न युक्तमित्यर्थः ॥ ( ३ ) नन्वत्राधिकरणेऽसतो जगत्कारणत्वं वदतां शून्यवादिनां समयो निराक्रियते, न तु श्रुतिप्राप्ताभावकर्तृत्वम्, अतः 'एतेन सर्वे' इत्यत्रासदादिशब्दानां ब्रह्मपरत्वस्योक्तत्वेन अत्र श्रुत्याऽसतः प्राप्त्य- भावादपव्याख्यानमेतदित्यत आह—असत इति । आदिशब्देन प्रलय- स्थितत्वमनःपूर्वकत्वादेर्ग्रहणम् । कारणत्वादेरुक्तिः कारणत्वाद्युक्तिस्त- या विरुद्धमिति विग्रहः । तथा च विष्णुकर्तृत्वपरं 'यतो वा' इत्यादि- द्वाक्यं 'असतो' विश्वप्रागभावस्य या कारणत्वाद्युक्तिः 'असदेवे' त्यादिरूपा, तद्विरुद्धमित्येवं श्रुतिप्राप्तं 'एतत्' असन्मतं 'अत्र' ए- तस्मिनधिकरणे 'निषिध्यते' निराक्रियते इत्यर्थः । तत्त्वप्रदीपे तु अ- सतः कारणत्वाद्युक्तिरूपाद्धेतोर्विरुद्धं 'असदेवेदम' इत्यादिवाक्यमुक्त- समन्वयविरुद्धमप्रामाण्यमेतीत्येतदत्र निषिध्यते । अथ वा—क्वचिद- सतः कारणत्वोक्तेरादिशब्दगृहीतायाः क्वचित्सतः कारणत्वोक्तेश्च परस्परविरुद्धं वेदवाक्यमित्येतदत्र निषिध्यते । अथ वा—वस्तुत्वादि- युक्त्या च असतः कारणत्वावगमाद्युक्तिविरुद्धं ब्रह्मकारणतावाक्य- मित्येतदत्र निषिध्यते, न शून्यसमय इति 'असतः कारणत्वात्' इति वाक्यं बहुधा व्याख्यातम् । अत्राद्यपक्षेऽसतः कारणत्वाद्युक्तेः हेतोर्वि- रुद्धमिति पञ्चमीगर्भो विग्रहः । द्वितीयेऽप्ययमेव विग्रहः, आदिशब्दा- र्थो भिन्नः । तृतीये कारणत्वादिति भिन्नं पञ्चम्यन्तं पदमिति विवेको