पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 448, कुल 1267 में से
संदर्भ में पढ़ें[अधि - १. सू - २. ] दीपिकासहितम्. ४०१ (४) सू—ॐ ॥ इतरेषां चानुपलब्धेः ॥ ॐ ॥ २ ॥ इतरेषां तासु स्मृतिषूक्तानां फलादीनां प्रत्यक्षतोऽनुप- बलविरोधस्यैव अप्रामाण्यहेतुत्वादिति वाच्यम् । यतोऽन्यस्मृतीनां पाशुपतादिभ्योऽन्यासां व्याख्यानरूपाणां पञ्चरात्रादिस्मृतीनों सहा- यीकृतत्वात् श्रुतेराधिक्यं सिध्यति । न च वाच्यं पञ्चरात्रादिस्मृत्या- नुकूल्येऽपि कथं श्रुतेराधिक्यं सिद्ध्यतीति । पञ्चरात्रादिरूपान्यस्मृती- नां रुद्राद्यपेक्षया ' नितरां ' निरतिशयं निस्संशयं वा ' सर्वज्ञैरेव ' वि- ष्णादिभिः विष्णुमनुप्रभृतिभिः ' कृतत्वात् ' प्रणीतत्वादिति योज- ना । अनेन पाशुपतादिस्मृतेः श्रुतिबाधः पञ्चरात्रादिस्मृतिसहितश्रु- त्यादिबाधश्चोक्तो भवति । सर्वज्ञैरेव कृतत्वादित्यनेन निरवकाशत्वं चोक्तम् । तेनानवकाशपदं स्मृतिविशेषणं विवृतम् । अत्रापि परनि- पातः । श्रुतेरित्यनेन सूत्रे स्मृतिपदं तत्सहितश्रुतिपरम् । तथा च त- द्विरोधो लक्ष्यते, श्रुतिसमन्वयस्य स्मृतिविरोधे शङ्किते श्रुतिं त्यक्त्वा केवलस्मृतिविरोधोक्तेरयुक्तत्वात् । स्मृत्युपन्यासस्तु श्रुतेः प्राबल्यार्थ इति सूचितं भवति । आधिक्यमिति प्रोपसर्गतात्पर्यकथनम् । अनेन- यतोऽनवकाशान्यस्मृतिविरोधनिमित्तात् श्रुतेरप्रामाण्याख्यदोषप्रस- ङ्गो भवति । अतो न तस्याः विष्णुजगत्कर्तृतापरत्वं युक्तं, अतो न त- या तत्सिद्धिरिति मानाभावान्न युक्तं विष्णोर्जगत्कर्तृत्वमिति चेत्— न, कुतः ? ' अन्यस्मृत्यनवकाशदोषप्रसङ्गात् ' अन्यासां पाशुपतादि- स्मृतीनां निरवकाशपञ्चरात्रादिस्मृतिसहितश्रुतिविरोधेन नितरामप्रा- माण्यदोषेण प्रकृष्टसम्बन्धाभ्युपगमात्, तथा च तद्विरोधोऽकिञ्चित्क- र इति न तन्निमित्तं श्रुतेरर्थान्तरपरत्वं कल्प्यमिति सूत्रार्थ उक्तो भवति ॥ (४) यदुक्तं वैष्णवस्मृतीनां परमाप्तप्रणीतत्त्वेन तत्साहाय्ययुक्त- श्रुत्या प्रबलया विष्णोर्जगत्कारणत्वसिद्धिरिति, न तद्युक्तम् । तथा स- ति पाशुपतादिस्मृतीनामप्रामाण्यप्रसङ्गात्, न ह्याप्तोक्तानां तासां अ- प्रामाण्यं युज्यत इत्याशङ्क्य परिहरत्सूत्रं पठित्वा व्याचष्टे—इतरेषां चेति ॥ अनुपलब्धेरित्येतत्काकाक्षिन्यायेनोभयत्रान्वेति । भाष्येऽप्या- वृत्त्योभयत्रान्वयः । न विद्यते उपलब्धिर्यस्यासावनुपलब्धिः प्रत्यक्षाद्यो- ग्यः पदार्थः तस्मादितरेषां फलादीनां प्रत्यक्षतोऽनुपलब्धेरित्यर्थः । यद्वा- अनुपलब्धेरित्यस्य नोभयत्रान्वयः, किं तु पूर्वसूत्रे यस्मिन् जगत्कारण- ५१