पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 458, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ७. ] दीपिकासहितम्. ४११ ( ५) भविष्यत्पुराणे च— पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजसः । अचिन्त्याश्शक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः । ता । महद्भिरिति सूत्रे शेषोक्तिः । यद्वा—सामर्थ्यमित्यनन्तरं अन्वितः सौत्रश्चशब्दो न केवलं देवतातत्सामर्थ्यसमुच्चयार्थः, किन्तु त्वर्थस्सन् महद्भिरित्यर्थद्योतकश्च । यथोक्तं पूर्वाधिकरणटीकायां तुशब्दः कर्तृ विशेषद्योतक इति । महद्भिरित्यनन्तरं यत इति शेषः । अस्यातो ना भिमानिदेवतानां तत्सामर्थ्यस्य चाप्रामाणिकत्वमित्यध्याहृतसाध्ये नान्त्रयः ॥ ( ५ ) ननु महद्भिः दृश्यमानत्वादिति हेतुरसिद्धः । परबुद्धेरप्रत्य क्षत्वादित्यतश्चशब्दसूचितं वाक्यं पठति—भविष्यदिति ॥ न केवलं महद्भिर्दृश्यते, किन्तु पुराणेऽप्युक्तमिति समुच्चये वा, न केवलं देवता तच्छक्तयोः प्रत्यक्षसिद्धत्वं सूत्रकृदुक्तमेव, किन्तु पुराणेऽप्युक्तमिति समुच्चये वा, चशब्दः । अतो न हेत्वसिद्धिरिति भावः । पुराण इत्य नन्तरं उक्तमिति शेषः । किमुक्तमित्यतः तद्वाक्यं पठति—पृथिवीति । आदिपदेन अबादिग्रहणम् । 'प्रथितौजसः ' प्रसिद्धसामर्थ्याः । न के वलं प्रथितौजसः, किन्तु तासां शक्तयोऽचिन्त्याश्च । अचिन्त्याः शक्त यश्च । न केवलमेतावत्, किन्तु 'सर्वगताः ' स्वांशैर्यावदभिमन्यमान व्यापिन्यश्चेत्येकस्य चशब्दस्यार्थः । न केवलं ताः देवताः दृश्यन्ते, किन्तु तासामचिन्त्याः शक्तयश्च मुनिभिर्दृश्यन्त इत्यन्यचशब्दस्या र्थः । यद्वा—एकेनैव प्रथमान्ततच्छब्देन देवतातच्छक्तयोः परामर्श सम्भवादन्यः प्रथमान्ततच्छब्दो देवतामात्रपरामर्शकः, तत्प्रयोजनं तु देवतामात्रे सर्वगतत्वविधानम् । एवमेकेनैव अनेकविशेषणसमुच्चयस म्भवात् अन्यश्चशब्दो न विशेषणसमुच्चयार्थः, किन्तु तुशब्दार्थो वि शेषद्योतकः । तासां शक्तयोऽचिन्त्या इत्यनेन देवतानामचिन्त्यशक्ति त्वमुक्तं, तत्कथमित्यत आह—वासुदेवेति । वासुदेव एव एको मुख्यः संश्रयोऽस्माकं शरणमिति ज्ञानं येषां ते तथोक्ताः । अनेनोत्तमाधिका रित्वोक्त्या परमात्मप्रसादादेव तेषाममुख्यमचिन्त्यशक्तित्वमित्युक्तं भवति । इति भविष्यत्पुराणे इत्यन्वयः । अथवा—विग्रहवतीनां सर्वगता नां तासां दर्शनप्रसङ्ग इत्युक्ते प्रष्टव्यं, किमज्ञानां दृश्येरन् महतां वा । आद्यस्योत्तरं विशेषपदं सूत्रे, तासां विशिष्टं सामर्थ्यमिति भाष्यं च