पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 456, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ६. ] दीपिकासहितम्. ४०९ ब्रा. ६-१-३.) इत्यादिवचनात् युक्तिविरुद्धो वेद इति। ( २ ) अतोऽब्रवीत्— सू— ॐ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ॐ ॥ ६ ॥ मृदाद्यभिमानिदेवता तत्र व्यपदिश्यते । चास्ति । तथा च 'मृदब्रवीत्' इत्यादिर्वेदस्तदेकदेशोऽप्रमाणं, कु तः ? ' मृदब्रवीत् ' ' इत्यादि वचनात् ' इत्यादिरूपेण मृदादेर्वचनादि कर्तृत्वाभिधायकत्वात् । वेदस्य मृदादिकर्तृकवचनादिकर्तृताभिधाय कत्वं कुत इत्यतोऽप्युक्तं—मृदित्यादि । वचनादित्यनन्तरं मृदादीनां वचनादिकर्तृत्वाऽवगमादिति शेषः। मृदादेर्वचनदर्शनाभिधायकत्वेऽपि कुतो वेदस्याप्रामाण्यमित्यत उक्तं —युक्तिविरुद्ध इति । तथा च यतो 'मृदब्रवीत्' इत्यादिवेदो 'युक्तिविरुद्धो' मृन्न वक्ति जडत्वादित्याद्य नुमानविरुद्धमृदादिवक्तृत्वाभिधायकः अतः । युक्तिविरुद्धार्थस्य चासत्त्वनियमात् असदर्थाभिधायकत्वस्यैव अप्रामाण्यादिति भा वः । ननु वेदैकदेशस्याप्रामाण्येऽपि 'यतो वा ' इत्यादेस्तत्कुत इत्य तोऽप्युक्तम्—वेद इति । यतो मृदब्रवीदित्यादिवेदोऽप्रमाणमतस्तदन्य वेदोऽपि तथा । तथा च सर्वो वेदोऽप्रामाण्यं प्राप्नोति, तत्सामान्यादि ति न्यायात् । तथा च न तेन विष्णोः जगत्कर्तृता सिद्ध्यतीति योज ना । अत्र श्रुतौ मृदादिशब्दैः सर्गाद्यकालीनपृथिव्यादिकमुच्यते । त स्य च वचनाद्यभावो नास्मदादिप्रत्यक्षसिद्ध इति प्रत्यक्षविरुद्ध इत्य नुक्त्वा युक्तिविरुद्ध इत्युक्तम् । अनेन पादसङ्गतिरपि प्रदर्शिता भव ति । 'राज्ञा' सोमेन लतारूपेण सहौषधयः संवादं कुर्वन्ति । हे ग्रा वाणः 'वो' युष्मान् सविता देवो धर्मेण प्रसुवत्विति श्रुत्यर्थः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अब्रवीत् सूत्र कृदिति शेषः । मृदिति । मृदादेरभिमानिनी धरादिरूपा देवता 'तत्र' 'मृदब्रवीत्' इत्यादिश्रुतौ मृदादिशब्दैः 'व्यपदिश्यते' मुख्यवृत्त्या प्र तिपाद्यते इत्यर्थः। एवशब्देन जडव्यावर्तकेन योग्यतयाऽभिमानिपदेना न्वितः सौत्रस्तुशब्दोऽवधारणमुखेन विशेषार्थतया व्याख्यातः । जडा पेक्षया चेतने मृदादिशब्दो मुख्य इति विशेषार्थो वा तुशब्दः । देवतेत्येकवचनेन अभिमानिनो व्यपदेशोऽभिमानिव्यपदेश इत्येकवच नान्तो विग्रहः सूचितः । अस्य मूलं तु ' दृश्यते च ' इत्युत्तरसूत्रम् । एकवचनं च समुदायाभिप्रायम् । अत एव तासामित्यादिवचनम् । ५२