पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 463, कुल 1267 में से
संदर्भ में पढ़ें४१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( ६ ) सू— ॐ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ ॐ ॥ ९ ॥ असत उत्पत्तौ प्रलये सर्वासत्त्वमेव स्यात् ॥ ९ ॥ लत इत्यर्थः । अत्रापिशब्दस्यादावेवान्वयः । तथा च पूर्वपक्षिणां नि- र्मूलयुक्तेरसाधकत्वेन युक्तिप्राबल्याय श्रुत्युपन्यासात्तदनुसारेण मुख्य- तः श्रुतिविरोधपरिहारेऽपि फलतः प्राधान्येन युक्तिविरोधस्यैव परिहा- रात्स्वातन्त्र्येण युक्तिविरोधमात्रपरिहारात्मकेऽस्मिन् पादे उभयवि- धपरिहारो नासङ्गत इति भावः ॥ ( ६ ) यदुक्तं प्रतिषेधमात्रत्वादिति युक्तिविरोधान्नासतः कारण- त्वमिति, न तद्युक्तम् । युक्तिविरुद्धस्यापि श्रुतिबलात्कस्य चिदभाव- स्य कर्तृत्वाभ्युपगमे बाधकाभावात् । न चैवं घटप्रागभावादीनामपि क- र्तृत्वप्रसङ्ग इति वाच्यम् । भावेषु कस्य चित्कर्तृत्वं कस्य चिदकर्तृ- त्वमिति वैलक्षण्यवदभावेष्वपि घटप्रागभावादेरकर्तृत्वं विश्वप्रागभाव- स्य च 'असदेव' इत्यादिश्रुतिबलात्कर्तृत्वमिति वैलक्षण्योपपत्तेरित्या- शङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—अपीताविति ॥ सूत्रेऽनिष्टप्रस- ङ्गोक्त्या लब्धमापादकं दर्शयति—असत इति । पञ्चमीयं, विश्वप्राग- भावात्सर्वकार्योत्पत्तौ अभ्युपेतायामित्यर्थः । प्रलये भावमात्रस्य अस- त्त्वे कालोऽपि न स्यादिति प्रसङ्गसूचनायापीतावित्युक्तम् । तस्यार्थमा- ह—प्रलय इति । यद्यपि 'अप्ययोऽयं समुद्दिष्टस्तदन्येषामदर्शनम्' इ- ति वचनान्न प्रलयोऽपीतिशब्दार्थः । तथाऽपि तस्य पर्यवसितार्थोक्ति- रियमित्यदोषः । तद्वदित्यत्र तच्छब्दः प्रकृतासत्परोऽवधारणमात्रशब्द- शिरस्कश्च । वदिति मतुप्प्रत्ययः, न तु पररीत्या वतिः । तद्वदिति च भावप्रधानमित्यभिप्रेत्य तद्वत्प्रसङ्गादित्यस्य तात्पर्यार्थमाह—सर्वेति । न तु कस्य चिदसत्त्वमित्येवशब्दार्थः । तथा च प्रलये सर्वस्य भावमात्र- स्यासत्त्वे असन्मात्रावशेषः स्यात्, कार्यनाशे कारणमात्रावशेषनिय- मादिति भावः । यद्वा—तद्वदिति वतिरेव । तथा च कार्यवत्सर्वस्या- पि भावस्यासत्त्वं स्यादित्यर्थः । तत्राद्यः टीकारीत्या, द्वितीयोऽर्थः त- त्त्वप्रदीपरीत्या उक्त इति ज्ञातव्यम् । स्यादित्यनन्तरं यत इति शेषः । अस्यातः 'असमञ्जसं' अयुक्तमसन्मतमिति साध्यभागेनान्वयः । स्प- ष्टत्वादस्यार्थो नोक्तः । अनेन—असत: सकाशाज्जगदुत्पत्तावभ्युपेता- यां 'अपीतौ' प्रलये 'तद्वत्प्रसङ्गात्' असन्मात्रवत्त्वप्रसङ्गात्तन्मात्राव- शेषप्रसङ्गात् 'असमञ्जसं' अयुक्तमसत्कर्तृत्वमतमिति सूत्रार्थ उक्तो