पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 464, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - १-१०. ] दीपिकासहितम्. ४१७ ( ७ ) सू—ॐ ॥ न तु दृष्टान्तभावात् ॥ ॐ ॥ १० ॥ प्रलये सर्वासत्त्वं भावे दृष्टान्तभावादेव न युज्यते । स त उत्पत्तिः सशेषविनाशश्च हि लोके दृष्टः ॥ १० ॥ ( ८ ) सू—ॐ ॥ स्वपक्षदोषाच्च ॥ ॐ ॥ ११ ॥ भवति ॥ ( ७ ) नन्वस्माभिरपि प्रलयेऽसन्मात्रावशेषस्याभिलषितत्वान्नानि ष्टापादनमेतदित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे—न त्विति ॥ प्रलय इत्यनेन पूर्वसूत्रादनुवृत्तस्यापीतादित्यस्य सर्वासत्त्वमित्यनेन त त एवानुवृत्तस्य तद्वत्त्वमित्यस्य भाव एव, न त्वभाव इति । अनेन तु शब्दस्यार्थ उक्तो भवति । दृष्टान्तसत्त्वं कुत्रेत्याकांक्षायां तद्योग्यविष यं दर्शयति—भाव इति । पदार्थसत्त्वे इत्यर्थः । तथा च प्रलये भावे पदार्थस