भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 465, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 465

४१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] दृष्टान्ताभावादेव ॥ ११ ॥ ( ९ ) सू—ॐ ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदे- वमप्यनिर्मोक्षप्रसङ्गः ॥ ॐ ॥ १२ ॥ एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावात् उक्ता- दन्यथाऽप्यनुमेयमिति चेत्— ( १० ) न, एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथानुमेयत्वा दित्यत आह—दृष्टान्तेति । दृष्टं प्रत्यक्षं अन्तो निर्णयस्तज्जनक आगम- स्तयोरभावादित्यर्थः । अनेन सूत्रे दोषपदमनेकार्थं प्रत्यक्षागमयोरभा- वमनुमानस्य दुष्टत्वं तत्प्रयोजकं दृष्टान्ताभावं च वक्तीति सूचितम् । एवशब्देन न दुष्टत्वनिमित्तान्तरं वक्तव्यमिति सूचयति । तथा च प्र- लये सर्वासत्त्वपक्षस्याप्रामाणिकत्वात्तदभ्युपगमोऽनिष्ट इति भावः। य- द्यपि टीकारीत्या न केवलं भावे दृष्टान्तभावात, किन्तु स्वपक्षे प्रलये सर्वाभावपक्षे दृष्टान्ताभावात्प्रमाणसामान्याभावादिति समुच्चयार्थत- या सौत्रश्चशब्दो भाति । तथाऽपि भाष्येऽर्थान्तरं चोक्तमिति न वि- रोधः ॥ ( ९ ) तर्केण सदसतोः कारणत्वसाधनबाधने आक्षिप्य समादध- त्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे—तर्केति ॥ एवशब्दोऽनेवंभाव- व्यावर्तकः । अन्यथा वैपरीत्येनापीत्यनेनावृत्तोपि भिन्नक्रमः समुच्च- यार्थ इत्युक्तं भवति ॥ अनुमेयमित्यनन्तरं यत इति शेषः । तथा च ‘ तर्कः ’ प्रत्यनुमानं ‘ एतावानेव ’ एतादृशस्थापनानुमानं प्रति विरो- धितया वर्तते, नैतादृशं प्रतीत्येवंभावोपेत एवेत्यत्र ‘ प्रतिष्ठापकप्रमा- णाभावात् ’ नियामकप्रमाणाभावात् सर्वानुमानेष्वप्युक्तादन्यथाऽप्य- नुमेयमनुमातुं शक्यं यतोऽतः तर्कः सूत्रद्वयोक्तं स्थापनानुमानमपि ‘ अन्यथा ’ अप्रमाणम् । कुतः ? यतोऽत्रापि ‘ न तु दृष्टान्तभावात् ’ स्वपक्षदोषाच्च, इत्युक्तात्सत्कारणत्वासत्कारणत्वाभावादन्यथाऽभाव- कारणत्वभावाकारणत्वरूपमप्यनुमेयमत इति योजना ॥ ( १० ) नञध्याहारेण परिहारांशं व्याचष्टे—नेति ॥ एवं सतीत्यने- न एवमित्यस्य प्रमाणसिद्धेऽपीत्यनेन अपीत्यस्यार्थे उक्तो भवति । मो- क्षपदं तत्त्वप्रदीपरीत्या प्रामाणिकमात्रोपलक्षकम् । यद्यपितथापीत्यर्थे न केवलं अप्रामाणिक इति समुच्चये कैमुत्ये वाऽपिशब्दः । उक्तादित्य- स्ति । अन्यथानुमेयत्वादित्यनेन अत्राप्येवमपीत्यनन्तरं यतश्शब्दशिर-