भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

४१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] दृष्टान्ताभावादेव ॥ ११ ॥ ( ९ ) सू—ॐ ॥ तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदे- वमप्यनिर्मोक्षप्रसङ्गः ॥ ॐ ॥ १२ ॥ एतावानेव तर्क इति प्रतिष्ठापकप्रमाणाभावात् उक्ता- दन्यथाऽप्यनुमेयमिति चेत्— ( १० ) न, एवं सति प्रमाणसिद्धेऽपि मोक्षेऽन्यथानुमेयत्वा दित्यत आह—दृष्टान्तेति । दृष्टं प्रत्यक्षं अन्तो निर्णयस्तज्जनक आगम- स्तयोरभावादित्यर्थः । अनेन सूत्रे दोषपदमनेकार्थं प्रत्यक्षागमयोरभा- वमनुमानस्य दुष्टत्वं तत्प्रयोजकं दृष्टान्ताभावं च वक्तीति सूचितम् । एवशब्देन न दुष्टत्वनिमित्तान्तरं वक्तव्यमिति सूचयति । तथा च प्र- लये सर्वासत्त्वपक्षस्याप्रामाणिकत्वात्तदभ्युपगमोऽनिष्ट इति भावः। य- द्यपि टीकारीत्या न केवलं भावे दृष्टान्तभावात, किन्तु स्वपक्षे प्रलये सर्वाभावपक्षे दृष्टान्ताभावात्प्रमाणसामान्याभावादिति समुच्चयार्थत- या सौत्रश्चशब्दो भाति । तथाऽपि भाष्येऽर्थान्तरं चोक्तमिति न वि- रोधः ॥ ( ९ ) तर्केण सदसतोः कारणत्वसाधनबाधने आक्षिप्य समादध- त्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे—तर्केति ॥ एवशब्दोऽनेवंभाव- व्यावर्तकः । अन्यथा वैपरीत्येनापीत्यनेनावृत्तोपि भिन्नक्रमः समुच्च- यार्थ इत्युक्तं भवति ॥ अनुमेयमित्यनन्तरं यत इति शेषः । तथा च ‘ तर्कः ’ प्रत्यनुमानं ‘ एतावानेव ’ एतादृशस्थापनानुमानं प्रति विरो- धितया वर्तते, नैतादृशं प्रतीत्येवंभावोपेत एवेत्यत्र ‘ प्रतिष्ठापकप्रमा- णाभावात् ’ नियामकप्रमाणाभावात् सर्वानुमानेष्वप्युक्तादन्यथाऽप्य- नुमेयमनुमातुं शक्यं यतोऽतः तर्कः सूत्रद्वयोक्तं स्थापनानुमानमपि ‘ अन्यथा ’ अप्रमाणम् । कुतः ? यतोऽत्रापि ‘ न तु दृष्टान्तभावात् ’ स्वपक्षदोषाच्च, इत्युक्तात्सत्कारणत्वासत्कारणत्वाभावादन्यथाऽभाव- कारणत्वभावाकारणत्वरूपमप्यनुमेयमत इति योजना ॥ ( १० ) नञध्याहारेण परिहारांशं व्याचष्टे—नेति ॥ एवं सतीत्यने- न एवमित्यस्य प्रमाणसिद्धेऽपीत्यनेन अपीत्यस्यार्थे उक्तो भवति । मो- क्षपदं तत्त्वप्रदीपरीत्या प्रामाणिकमात्रोपलक्षकम् । यद्यपितथापीत्यर्थे न केवलं अप्रामाणिक इति समुच्चये कैमुत्ये वाऽपिशब्दः । उक्तादित्य- स्ति । अन्यथानुमेयत्वादित्यनेन अत्राप्येवमपीत्यनन्तरं यतश्शब्दशिर-

[ अधि - ४. सू - १२. ] दीपिकासहितम्. ४१९ दनिर्मोक्षप्रसङ्गः । (११) अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यं नातोऽ न्यदुच्छङ्क्यम् । स्कमन्यथानुमेयमिति पदद्वयं च संयोज्यमिति सूचितम् । तथा च प्रतितर्कपराहतत्वेन सर्वतर्कस्याप्यप्रमाणत्वात् न तेन साधनं बाधनं वा युक्तमिति यत्पूर्वपक्षिणोक्तं, तन्न, कुतः ? एवं सत्यागमाप्रामाण्यवा- दिनं प्रत्यवश्यमुपन्यसनीयेन अनुमानप्रमाणेन सत्त्वेन नित्यत्वेन च सिद्धे 'मोक्षे' तद्विषये प्रामाणिकातीन्द्रियार्थमात्रेऽपि चार्वाकादिभि- रास्तिकोक्तान्मोक्षास्तित्वनित्यत्वादिरूपार्थान् 'अन्यथानुमेयत्वात्' अनुमातुं शक्यत्वात्, अतएव मोक्षाद्यलौकिकार्थविषयानुमानस्य अ- न्यथाऽप्रमाणत्वेन अनुमेयत्वात् 'अनिर्मोक्षप्रसङ्गो' निरयमतिशयार्थो

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (line-by-line transcription) है:

४२० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] (१२) यावदेव प्रमाणेन सिद्धं तावदहापयन् । स्वीकुर्यान्नैव चान्यत्र शक्यं मानमृते क्वचित् ॥ इति वामने ॥ १२ ॥ (१३) सू-ॐ ॥ एतेन शिष्टा अपरिग्रहा अपि व्याख्याताः ॥ ॐ ॥ १३॥ च यः प्रमाणसाहाय्ययुक्तः प्रतितर्कः स एवाप्रामाणिकतर्क बाधते, न त्वप्रामाणिकः प्रामाणिकम् । सत्कारणत्वासत्कारणत्वसाधकौ कौ त्वप्रामाणिकौ । सत्कारणत्वमोक्षादिसाधकः प्रकृततर्कश्च प्रामा- णिकः । अतो न ताभ्यां निषेद्धुं शक्यत इति भावः ॥ (१२) अत्रार्थेऽपिशब्दसूचितां स्मृतिं सम्मतित्वेनाह—यावदिति॥ अत्रापि यावत्तावच्छब्दौ यत्तदित्यर्थो । अतएव पूर्वं तथैवोक्तम् । व- स्त्विति तर्केणेति च शेषः । चस्त्वर्थः । तथा च यत्प्रमाणेण सिद्धं व- स्तु तद्देहाहापयन् तर्केण 'स्वीकुर्यात्' तर्केण साधयेत, न तु प्रामा- णिकादन्यत्रान्यदप्रामाणिकम् । कुतः ? यतो 'मानं' अनुग्राह्यप्रमा- णं 'ऋते' विना तर्केण तर्कमात्रेण 'क्वचित्' किञ्चिद्वस्तु साधयितुं निषेद्धुं वा न शक्यमत इत्यर्थः । शङ्क्यमिति पाठे शङ्कार्हमपि नेत्य- र्थः । इति वामने इत्यस्योक्तत्वात् 'यावत्' इत्यादिश्लोकं युक्तमित्युप- स्कृतेनान्वयः ॥ (१३) ननु मास्त्वसच्छब्दिताभावतत्त्वं जगतः कारणं, तथाऽपि न विष्णोर्जगत्कारणत्वं सम्भवति, विप्रतिपन्नं जगन्निष्कारणं, अचेतन- कारणकं, जीवकारणं वा, कार्यत्वात्कूलपतनवत् दध्यादिवदिति निष्कारणत्वादिसधकयुक्तिविरोधात् । न च निर्मूलयुक्तेरसाधकत्व- मिति वाच्यम् । 'अकस्मात्' इत्यादिश्रुतिमूलत्वादित्याशङ्कां परिहर- त्सूत्रमुपन्यस्य व्याचष्टे—एतेनेति । एतेनेति पदमनूद्य तेनातिदिष्टो हेतुः विवृतो—दृष्टान्तभावेनाभावेन चेति । तत्रासत्कारणवादौ नि- ष्कारणत्वादdist इति पदद्वयमादावुपस्कार्ये यथाक्रममस्यान्वयः । चः समुच्चये । दृष्टान्तभावेनेत्यनेन तन्मूलकानुमानद्भावः, तदभावेनेत्यने- न तन्निमित्तानुमानाभावश्चोक्तः । कूलपतनादीनामपि ईश्वरकारणक- त्वेन निष्कारणत्वादि न सम्मतमिति न दृष्टान्तत्वमिति भावः । शि- ष्टा इत्यस्य व्याख्यानमवशिष्टा इति । प्राङ्गिराकृतादवशिष्टास्तथा प्र- तीता इत्यर्थः । इदं च प्राङ्गिरस्तासत्कर्तृत्वसिद्धान्तव्युदासायोक्तम् ।

[ अधि - ४. सू - १३. ] दीपिकासहितम्. ४२९ एतेन दृष्टान्तभावेनाभावेन चावशिष्टा अप्यपरिग्रहा विरुद्धसिद्धान्ता अकर्तृकत्वाचेतनकर्तृकत्वजीवक- र्तृकत्वादयोऽपि । ( १४ ) अकस्माद्धीदमाविरासीदकस्मात्तिष्ठत्यकस्माल्लयम भ्युपैति । अपरिग्रहा इत्येतदनूद्य नञो विरुद्धार्थकत्वं परिग्रहशब्दस्याभिधानार्थ त्वं परिगृह्यते इति परिग्रहः इति कर्मव्युत्पत्तिं चाश्रित्य व्याचष्टे-विरु- द्धेति । वेदोक्तपक्षविरुद्धपक्षा इत्यर्थः । यद्वा-'वेदापरिगृहीताः' इति सु- धोक्तेः पर्युदासार्थो नञ्, तस्य फलितार्थकथनं विरुद्धेति । इदं च विशे- षणं ब्रह्मकर्तृत्वसिद्धान्तव्युदासायोक्तम् । अकर्तृकत्वमकारणकत्व- म् । अतएव सुधायां 'अत्र कर्तृशब्दः कारणमात्रपरो द्रष्टव्यः' इत्युक्तम्। अत्रापि टीकायां 'विप्रतिपन्नं निष्कारणम्' इत्युक्तम् । अन्यथा निष्कार- णत्वपक्षानुवादत्वानुपपत्तेरिति द्रष्टव्यम् । अचेतनकर्तृकत्वमित्येतत् अ- चेतनमात्रकारणकत्वमिति व्याख्येयम्, अन्यथा सिद्धान्ते प्रधानकार- णकत्वस्य संमतत्वेन तन्निराकरणानुपपत्तेः । एवं जीवकर्तृत्वमित्येत- दपि तन्मात्रपरतया व्याख्येयम् । आदिशब्देन तत्त्वप्रदीपरीत्या 'य- तो वा' इत्यादिश्रुतिप्रापितं मायिब्रह्मकर्तृकत्वं गृह्यते । यद्वा-'का- लस्वभावादिवादाः' इति सुधोक्तेः कालस्वभावकारणत्वादि गृह्यते । तस्यापि 'कालाद्भवन्ति भूतानि' इत्यादिभाष्यस्थद्वितीयादिशब्दगृ- हीतश्रुतिप्रापितत्वात् । 'अवशिष्टा अपि आदयोऽपि' इत्यपेरुभयत्र सं- योगः सूत्रे परेषामिव शिष्टापरिग्रहा इत्येकं पदमिति भ्रमं वारयितुम्। अयं चापिः सर्वेऽप्यपरिग्रहा इत्यभिव्याप्त्यर्थकः । यद्वा-बहुकोशे- षु समासपाठदर्शनादेकपद्यमेव । तथापि न परेषामिव तत्पुरुषः, कि- न्तु कर्मधारयसमासः प्राबल्यादिति । समासस्य स्पष्टप्रतीत्यर्थः भि- न्नक्रमेणापिशब्दसंयोगः । अस्मिन् पक्षे शिष्टाश्च तेऽपरिग्रहाश्चेति वि- ग्रहः । अत्र बुद्ध्या विवेकेनाभिव्याप्त्यर्थकापेः सम्बन्धः आवृत्त्यभिप्रा- येणापेः द्विः प्रयोगः । द्वितीयस्यापेः यद्यपि तथापीत्यर्थकस्य श्रुतिप्रा- प्ता अपीत्यध्याहृतेनान्वयः ॥ ( १४ ) श्रुतिप्राप्ता इत्युक्ते कास्ताश्श्रुतय इत्याकांक्षायां तत्र प्रथमं निष्कारणत्वप्रापिकां श्रुतिमाह- अकस्मादिति ॥ 'इदं' जगत् 'अक- स्मात्' अकारणकमेव 'आविरासीत्' उत्पन्नमभूत् अकस्मादेव स्थिति

४२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( १५ ) प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति । प्रधाने लयमभ्येति न ह्यन्यत्कारणं मतम् ॥ ( १६ ) जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः । जीवे तु लयमृच्छन्ति न जीवात्कारणं परम् । इत्यादिश्रुतिप्राप्ता निराकृताः । ( १७ ) यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । मद्भवति लयं च प्राप्नोतीत्यर्थः ॥ ( १५ ) अचेतनकारणत्वे श्रुतिमाह-प्रधानेति ॥ 'इदं' जगत् 'प्र- धानात्' अचेतनप्रकृतेरुत्पन्नम् प्रधानमधितिष्ठति, तत्र प्रधाने लयं च प्राप्नोतीत्यर्थः। पुनः पुनः प्रधानशब्दप्रयोगस्तात्पर्यार्थः। एवं पूर्वोत्तरत्र च द्रष्टव्यम् । ननु कार्यस्य कारण एव लयौचित्या प्रधानादन्यस्यैव कारणत्वात्कथं जगतः प्रधाने लयः । न चोत्पत्त्यादिकर्तृत्वात्कारणत्व- मिति वाच्यम् । उत्पत्त्यादिकर्तुरन्यस्यैव कारणत्वोपपत्तेरित्यत आ- ह-न हीति । 'हि' यस्मात्प्रधानादन्यत्कारणं न प्रमाणप्रमितमेवं य- स्मादुत्पत्त्यादिकर्तुरन्यत्कारणं न मतं, तस्मात्तस्यैवोत्पत्त्यादि कर्तृत्वा- त्कारणत्वं लयाधिकरणत्वं च युक्तमित्यर्थः । प्रसिद्धयर्थे हिशब्दः ॥ ( १६ ) जीवकारणत्वे श्रुतिमाह-जीवादिति ॥ 'भूतानि' पृथिव्याद्युप- लक्षितकार्याणि भवन्ति जायन्ते 'अचञ्चलाः' अचञ्चलानि 'तिष्ठन्ति' जीवेन धार्यन्ते इति यावत् । 'ऋच्छन्ति' प्राप्नुवन्ति । न जीवादित्येत- त् पूर्ववदवतार्य व्याख्येयम् । 'परं' अन्यत् । अवधारणार्थस्य तुशब्द- स्य न त्विति सम्बन्धः । नन्वत्रैव पादे निष्कारणत्वादिनिरासे समय- पादे वक्ष्यमाणचार्वाकसाङ्ख्यपक्षनिषेधस्य पौनरुक्त्यं प्रसज्यत इत्यत उक्तं—इत्यादिश्रुतिप्राप्ता इति । श्रुतिमुख्यार्थ परिज्ञानमूलक कार्यत्वा- दियुक्ति प्रापिता इत्यर्थः । तथा च तत्र समयप्राप्तस्यैव निराकरणान्न पौनरुक्त्यमिति भावः । न चैवमस्य तृतीयपादनिवेशापत्तिरिति शङ्का तु 'अर्थायुक्तिविरोधो निराक्रियते' इत्युक्तरीत्या परिहरणीया । निरा- कृता इत्यनेन व्याख्याता इत्यस्य प्रत्याख्याता इत्यर्थ इति सूचितम् ॥ ( १७ ) नन्वस्तु सत्कारणत्वादौ घटादिदृष्टान्तभावः, निष्कारणत्वा- दौ दृष्टान्ताभावश्च । तथाऽपि जीवकर्तृत्वपक्षनिरासाय कथमजीवक- र्तृत्वे एतेनेत्यतिदिष्टो दृष्टान्तभावाख्यो हेतुस्सिद्धः, दृष्टान्तस्यादर्शना-

[ अधि - ४. सू - १३. ] दीपिकासहितम्. ४२३ ( १८ ) श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता । ( १९ ) यत्रान्यवाचकत्वेऽप्यविरोधस्तत्र अस्मद्दृष्ट्यैव मुख्यतया त् । नापि जीवकर्तृत्वे दृष्टान्ताभावाख्यो हेतुस्सिद्धः, घटादीनां कुला- लादिकर्तृत्वदर्शनेन तेषामेव तत्र दृष्टान्तत्वसम्भवादित्यत आह— यथेति । कार्येषु साध्यमिति च शेषः । इतिशब्दो हेतौ । दृष्टान्त इत्यु- पलक्षणं, तदभावश्चेत्यपि द्रष्टव्यम् । तथा च यथा दुःखादिषु कार्येषु जीवस्य ‘अस्वातन्त्र्यं’ कर्तृत्वाभावः किं त्वीश्वरस्यैव एवं दुःखादि- भ्य आन्तरेभ्योऽन्येषु घटादिबाह्यकार्येष्वप्यकर्तृत्वं जीवस्याकर्तृत्वं जी- वस्य साध्यमनुमेयमिति हेतोरसिद्धिरतो जगतोऽजीवकर्तृकत्वे दुःखा- दिरूपो दृष्टान्तः । एवं जीवकर्तृकत्वे दृष्टान्ताभाव

४२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]

उच्यते। यत्र विरोधस्तत्र ब्रह्मैवोच्यते इति निय मः ॥ १३ ॥ —::— ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ ॐ ॥१४॥ अ' ब्रह्मणोऽन्यत् 'अमुख्यतया' परममुख्यान्यमुख्यवृत्त्योच्यत इत्यर्थः। न केवलं ब्रह्मैत्यपेरर्थः। यथाऽत्रैव 'प्रधानादिदमुत्पन्नम्' इत्यादौ सि द्धान्ते ब्रह्मवाचकेनापि प्रधानशब्देनोपादानत्वेन प्रकृतिरुच्यते, यथा 'वायुर्भूतानामधिपतिः' ( ) इत्यादौ वायुः, 'वसन्ते व सन्ते ज्योतिषा' ( ) इत्यादौ कालकर्मादि, 'सोरोदीत्' (तै.सं-१-५-१०) इत्यादौ रुद्रादि। अत्र 'सः' रुद्रोऽरोदीदिति यत् त देव रुद्रशब्दस्य प्रवृत्तिनिमित्तमित्यर्थाश्रयेण रुद्रमात्रस्य वाच्यत्वप्र तीतावपि ण्यर्थाश्रयेणे ब्रह्मणोऽप्येतद्वाच्यत्वात् । 'ब्रह्मैव' विष्णुरेवे त्येवकारोऽन्यव्यवच्छेदार्थः। यथा 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २- १ - १०) 'विश्वस्मादिन्द्र उत्तरः' ( ) 'न किरिन्द्र त्व दुत्तरः' (ऋ.४-३०-१.) 'निषुसीद गणपते' (ऋ.१०-११२-९.) इत्या दौ। 'विश्वस्मात्' सर्वस्मात्। हे इन्द्र त्वदुत्तरः त्वत्तः परो 'न किः' न कोपीति तत्त्वप्रदीपविश्वेश्वरतीर्थीयचन्द्रिकादिश्रुत्यर्थः। यद्यपि 'न किर्माकिस्मसीत्यादिप्रोक्ताधिक्य विवक्षया' इति ऋग्भाष्येऽभि हितम् । तथापि व्याख्यानान्तरमेतत् । यथा अहंशब्दस्यानेकविधव्यु त्पत्तिमाश्रित्य अनेकधा व्याख्यानमित्यविरोधः। निषुसीद, इत्येतद्व्या ख्यास्यते। नियम इत्यनन्तरं 'अस्तियततः' इति शेषः। अस्यतां विरो ध इति पूर्वेणान्वयः। तथा चात्रापि जगत्कारणतापरे 'असदेव' 'प्रधा नादिदम्' 'जीवाद्भवन्ति भूतानि' ( ) इत्यादावन्यस्यापि वाच्यत्वे बहुमानविरोधाद्विष्णुरेवोच्यते, न प्रागभावादिकमिति न वि ष्णुजगत्कारणत्वश्रुतेस्तद्विरोध इति भावः ॥ ४ ॥ इति असदधिकरणम् ॥ —::— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे बहुश्रुतिसिद्धत्वेन प्रबलया दृढयुक्त्या विरो

[ अधि - ५. सू - १४. ] दीपिकासहितम्. ४२५ ' कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभ- वन्ति ' ( मु. ३-२-७. ) इति मुक्तजीवस्य परापत्तिरु- च्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव । धः परिह्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे—भोक्त्रापत्तेरिति ॥ भोक्त्रापत्तेरिति हेतोरसिद्धिपरिहा- राय तत्र श्रुतिमाह—कर्माणीति । इतीति एवं रूपाथर्वणश्रुतावित्यर्थः । भोक्त्रापत्तेरित्यस्य सुखदुःखभोक्तुः जीवस्य आपत्तेःपरमात्मत्वप्राप्तेः श्रु- तत्वाहित्यर्थमभिप्रेत्याह—मुक्तजीवस्येति । यद्यपि जीवस्येत्येव वक्तु- मुचितम् । तथाऽपि सूत्रे मुक्तावित्यध्याहर्तव्यपदलब्धार्थकथनमेतदि- त्यदोषः । 'उच्यते' श्रूयते । किञ्चात इत्यत आह—अत इति । मुक्त- जीवस्य परमात्मत्वप्राप्तिश्रवणादित्यर्थः । 'तयोः' मुक्तजीवेश्वरयोः 'अविभागः' अभेदः सिद्ध इति शेषः । यो यथा श्रूयते स तथेति व्या- प्तेरिति भावः । नन्वस्तु ब्रह्मणो मुक्तजीवाभेदः, तथाऽपि नास्माकं निष्टं संसारिण इव मुक्तस्य सर्वकर्तृत्वे प्रत्यक्षविरोधाभावेन पूर्वमस- तोऽपि जीवे कर्तृत्वस्य ज्ञानान्मुक्तेरिव मुक्तावुदयसम्भवेन मुक्ताभिन्न- स्यापि ब्रह्मणः कारणत्वसम्भवादित्यतः तदुत्तरत्वेनापि अविभाग इ- त्यंशं योजयति—अत इति । यतो मुक्तावीशाभिन्नो जीवः अतः 'पूर्वे' संसारेऽपि 'स एव' ईश्वराभिन्न एव, न तु भिन्न इत्यर्थः । न केवलं मुक्तौ, किन्तु पूर्वमपीति समुच्चयेऽपिशब्दः । ननु मुक्तावभेदेऽपि संसा- रे भेद एवास्तु च्विप्रत्ययस्वारस्यात् । तथा च मुक्तावभिन्नत्वादिति हेतुरप्रयोजक इत्यत आह—न हीति । पूर्वमिति वर्तते । तथा च 'हि' यतः 'पूर्वे' संसारे ब्रह्माभिन्नस्य मुक्तौ 'अन्यत्वं' तद्भेदो न युज्य- ते । अन्यथा पूर्वमन्यत्वादिति युक्तिविरोधस्यादिति भावः । अतः पूर्वमपि स एवेत्यनेनास्यान्वयः । एवं 'अन्यस्य' घटादिभिन्नस्य प- टादेः 'अन्यत्वं' अन्यभावो घटादित्वं 'न युज्यते' न दृश्यते हि ख- लु इति व्याप्तिप्रदर्शनपरत्वेनापि इदं भाष्यं व्याख्येयम् । पूर्वमप्यभेदे च्विप्रत्ययानुपपत्तिशङ्का तु मुक्तावेव भेदभ्रमनिवर्तकाभेदप्रतीत्यपेक्ष- या तदुपपत्तेरिति सुधायामेव परिहृता । न च कदाचिदन्यत्वस्य पू- र्वपक्षयुक्तित्वाभिधाने 'नान्यदन्यत्वमापन्नम्' इत्यनुव्याख्यानविरो- धः, तत्रास्य सिद्धान्तयुक्तित्वाभिधानादिति वाच्यम् । मुक्तौ संसारे च अभेदो, न मुक्तिमात्रे । कुतो ? न हीत्युक्तयुक्तेरित्युभयत्राभेदपूर्वप- ५४

४२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] न ह्यान्यस्यान्यत्वं युज्यत इति चेत्— ( २ ) न, स्याल्लोकवत् यथा लोके उदके उदकान्तरस्यैकी क्षविवक्षया भाष्यस्य प्रवृत्तत्वात्, अत एवात्र पूर्वमपीत्युक्तम् । च्वि प्रत्ययस्वारस्यात्पूर्वं भेदो मुक्तौ त्वभेद इति पूर्वपक्षविवक्षया अनु व्याख्यानस्य प्रवृत्तत्वेन विरोधाभावात् । इतीति सूत्रे पूर्वपक्षांशे शेषो क्तिः । श्रुतिस्तु 'गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु' ( मुं. ३-२-७. ) इति पूर्ववाक्येन सह व्याख्येया । तत्प्रकारस्तु-'गताः' मुक्ताः 'कलाः' प्राणादिपञ्चदशकलारूपाः देवताः अन्ये च 'प्रतिदेव तासु' देवताप्रतिबिम्बभूतासु प्रजासु 'प्रतिष्ठाः' स्थितिहेतवः सर्वे दे वाः मुक्ताः । 'कर्माणि' पुष्कराख्या कर्माभिमानिनी देवता मुक्ता । त था मुक्तो 'विज्ञानमय आत्मा' जीवश्चेत्येते सर्वे 'अव्यये' देहतोऽपि नाशशून्ये 'परे' परमात्मनि एकीभवन्ति । लक्षितलक्षणेऽप्यमुपचारो वा । तथा च परमात्मानं प्राप्य तस्मिन्नेव स्थिताः 'एकीभवन्ति' प्रा गिभिन्नमतयोऽधुनेश्वरेणैकमत्यं भवन्ति प्राप्नुवन्ति । एकविषयमति न्तो भवन्तीति यावत् । अथ वा—'प्रागीश्वरव्यक्तिस्थानापेक्षयाऽन्य त्रेतस्ततः स्थितास्तत्र श्वेतद्वीपादौ मिलिता भवन्ति' इति तत्त्वनिर्णय टीकायामुक्तः । तत्त्वप्रदीपे तु-'न हास्य कर्म क्षीयते' ( बृ. ३-४-१५. ) इति ज्ञानोत्तरकालीनकर्मणां फलतोऽक्षयत्वोक्तेर्ज्ञानोत्तरकृतकर्मभिः सह मुक्तजीवस्य परब्रह्मणि स्थितिस्तद्बुद्धिसारूप्यं चेह विवक्षित मित्युकम् । पूर्वपक्षी ह्येकीभवन्तीत्यस्य परब्रह्मीभवन्तीत्यैक्यमुच्यत इति मन्यते ॥ ( २ ) अथ सिद्धान्तांशं नञध्याहारेणाविभाग इति पदानुषङ्गाभि प्रायेण च व्याचष्टे—नेति ॥ नेश्वरस्य जगत्कारणत्वादिविरुद्धमित्य र्थः । कुत इत्यतो यतो 'नाविभागः' अभेदाभावः इति नञावृत्त्यवि भागपदानुषङ्गाभ्यां लब्धो हेतुर्योज्य इत्याशयेन परेण अभेदसाधकत योक्तस्य भोक्त्रापत्तेरिति हेतोः व्यभिचारान्यथासिद्धयुक्तिपरतया स्या ल्लोकवदित्यंशमनूद्य व्याचष्टे—स्यादिति । आद्योऽपिर्यद्यपि तथाऽपीत्य र्थः । द्वितीयोऽपिशब्दो दृष्टान्तदार्ष्टान्तिकसमुच्चये । लोक इत्युदक इ ति चाधिकरणसप्तम्यौ, लोकशब्दोकस्य जनस्य वचनाधिकरणत्वा त्, उदकस्य चैक्याधिकरणत्वात् । लोकपदोक्तस्य जनस्य व्यवहार

[अधि - ५. सू - १४. ] दीपिका सहितम्. ४२७

भावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि । ( ३ ) तथा च श्रुतिः- 'यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति' (कठ. ४-१५०) इति ॥ विषयत्वादुदक इति विषयसप्तमी वा । तथा च 'उदके' एकपात्र स्थितोदके 'उदकान्तरस्य' पात्रान्तरस्थितोदकस्य 'एकीभावव्यव हारेऽपि' तेनेदमैक्यमापन्नमिति लोककर्तृकाभेदोक्तिसत्त्वेऽपि यथा जलयोः 'अन्तर्भेदः' अन्योन्यं भेदोऽस्त्येव 'एवं' तथाऽत्रापि जीव स्येश्वरैक्योक्तावप्यन्तः परस्परं भेदः स्यात् । न चैक्योक्तिविरोधः । यतश्चोदके उदकान्तरस्यैकीभावोक्तिवदुपचरिता स्यादिति योजना । अनेन सूत्रे लोकवदिति लोकसिद्धजनैकीभावोक्तिवदिति प्रथमान्तात त्प्रातिपदिकात् लोके जलादाविति सप्तम्यन्ताद्वा वतिरित्युक्तं भव ति । एवं भोक्त्रापत्तिरिति विपरिणामेन पूर्वपदानुवृत्तिश्च सूचिता ॥ तथा चायं सूत्रार्थः--भोक्तुः जीवस्य आपत्तेः मुक्तौ परब्रह्मत्वप्राप्तेरु क्तत्वात्तयोः 'अविभागः' अभेदस्सिद्धः । यतो भोक्तुर्मुक्ता परमात्मा भेदोऽतो संसारेऽपि तस्य तदभेदः प्राप्नोति, अतः असर्वकर्तृसंसारि जीवाभिन्नत्वाद्ब्रह्मणो न जगत्कर्तृत्वं युक्तमिति चेत्-न, ईश्वरस्य जग त्कारणत्वादि विरुद्धम्। कुतः? यतो 'नाविभागो' जीवेशयोरभेदाभा वः। न च भोक्त्रापत्तिश्रुतिविरोधः, यतः 'स्याल्लोकवत्' स्याज्जले जला न्तरस्यैकीभावोक्तिवद्भेदेऽपि स्याद्युज्यते। न च भेदेऽप्यैक्योक्तौ निमि त्ताभावः। यतः 'स्याल्लोकवत्' लोके जले जलान्तरस्यैकीभावोक्ति वत्स्थानैक्याद्यालम्बनत्वेनोपचरिता स्यादत इति ॥ (३) न श्रुतेः सूत्रान्तरेणेोपचरितार्थत्वकल्पनं क्रियते, किन्तुश्रुत्याऽ पि तदुक्तमित्याह-तथाचेति ॥ यथा सूत्रकृदाह, तथा श्रुतिश्चाहेत्यर्थः। 'निरञ्जनः परमं साम्यम्' (मुं. ३-१-३.) इत्याद्यैक्यविरोधश्रुतिरपि चशब्देन गृहीता । 'एवं मुनेर्विजानत आत्मा भवति गौतम' (कठ.४- १५.) इति श्रुतिवाक्यशेषः । कठवल्ल्यां नचिकेतसं प्रति यमवचनमे तत्र- 'हे गौतम तद्गोत्रोद्भव नचिकेत' यथा 'शुद्धे' एकपात्रस्थितोदके यथेष्टं प्रक्षिप्तशुद्धोदकं तादृगेव भवति, न तु तदेव, एवं ब्रह्म विजानतो 'मुनेः' मुनिवर्गस्य 'आत्मा' स्वामी मुख्यवायुरपि मुक्तः सन् 'तादृगेव भवति' परमात्मसदृश एव भवति, न तु स एव, किन्तु अन्ये जीवा

7: वशब्दव्यावर्त्यं दर्शयति—न चेति । चस्त्वर्थः । 'एतत्' एतत्स्वरूप-

Line 18: म् । कुत इत्यतो युक्तिमाह—यत इति । अवृद्धिरित्यपि छेदः । त-

Line 19: थाच मिश्रणात्पूर्वं अवृद्धिस्तदनन्तरं वृद्धिश्च यतः प्रदृश्यते अत इत्य- Wait, look at मिश्रणात्पूर्वं: is it मिश्रणात्पूर्वं or मिश्रणात्पूर्वम्? It has an anusvara: मिश्रणात्पूर्वं.

Line 20: र्थः । दार्ष्टान्तिकमाह—एवमिति । हिशब्दः प्रसिद्धौ 'जीवो' ज्ञानिजी- Wait, check line numbering! Let's trace from top: Line 1: header Line 2: (४) स्कान्दे च... Line 3: न चैतदेव... Line 4: एवमेव हि... Line 5: प्राप्तोऽपि... Line 6: इति काठकभाष्य... Line 7: जानतो मुनेः... Line 8: मुक्तः परमात्मानं... Line 9: वृतः । छान्दोग्य... Line 10: 'विजानतः'... Line 11:

[ अधि - ५. सू - १४. ] दीपिकासहितम्. ४२९

( ५ ) ब्रह्मेशानादिभिर्देवैर्याप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति च । ( ६ ) ‘ न ते महित्वमन्वश्नुवन्ति ’ (ऋ. ७-९९-१.) ‘ न ते विष्णोजायमानो न जातः’ (ऋ. ७-९९-२.) इति च । ( ७ ) फलत्वेऽपि युक्तिविरोधे र्धश्लोके विपक्षे सयुक्तिकं साध्याभावोपपादनेन व्यभिचारो दृढीकृ- तः । उत्तरश्लोके तु पूर्वपक्ष्युक्तहेतोरन्यथासिद्ध्युपपादनायैक्यविरो- धिविरुद्धधर्मोपन्यास इति विवेकः । इति स्कान्द इत्यन्वयः ॥ ( ५ ) ननु ‘नासौ भवति’ इति वचनमल्पान्सायुज्यभाजोऽपे- क्ष्यैव प्रवृत्तम्, न तु ब्रह्मादीन् सायुज्यभाजोऽतो न तद्विरोधीत्यत आ- ह—ब्रह्मेति ॥ मुक्तामुक्तैरित्य

४३० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ऽन्तर्भावादत्रोक्तम् ॥ १४ ॥ —::— ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ ॐ ॥ १५ ॥ स्वतन्त्रबहुसाधना सृष्टिलोंके दृष्टा । नैवं ब्रह्मणः । स्याधिकरणस्य फलाध्यायसङ्गतत्वेऽपि 'युक्तिविरोधे' न ह्यन्यस्येत्यु क्तयुक्तिविरोधपरिहारात्मके ' अत्रापि ' पादेऽन्तर्भूतत्वादत्रेदमधि करणं ' उक्तं ' विशेषितमित्यर्थः । अन्यथोभयान्तर्गतस्य एकत्रोप्यनु क्तिप्रसङ्गः । तस्मादुक्तरीत्या सङ्गतिसद्भावादस्मदीयव्याख्यानमेव युक्तमिति भावः ॥ ५ ॥ ॥ इति भोक्त्राधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोर्जगत्कर्तृत्वे बहुयुक्तिविरोधः परिह्रिय ते । पूर्वपक्षसिद्धान्तादिप्रदर्शनाय सूत्रमेव आदौ पठति—तदिति ॥ स्वतन्त्रबहुसाधनेति । कर्तृव्यतिरिक्तस्वतन्त्रसत्ताशक्तिप्रवृत्तिमद धिष्ठानकरणादिरूपबहुसाधनसापेक्षेत्यर्थः । स्वातन्त्र्यं च कर्त्रनधी नत्वं 'सृष्टिः' घटादेः । स्थित्यादेरप्युपलक्षकमेतत् । एवमित्युक्तेऽर्थे ति लभ्यते । नेत्यावर्तते । तथा च यतो लोके यथा घटादेः सृष्टिः स्व तन्त्रबहुसाधना दृष्टा, एवं ब्रह्मणः सकाशाज्जगत्सृष्टिरपि स्वव्यतिरि क्तबहुसाधना स्यात्। तथाऽनुमेया स्यात् । अत एव तद्युक्तिविरोधान्न ब्रह्मणो जगत्कर्तृत्वं युक्तमिति योजना। अनेन ब्रह्मणः न जगत्कर्तृत्वं यु ज्यते । कुतः? महदादिसृष्ट्यादिकं प्रत्येकं कर्तृव्यतिरिक्तबहुसाधनसा पेक्षं, सृष्टित्वात्, स्थितित्वात्, संहृतित्वाद्धटादिसृष्ट्यादिवदिति बहु युक्तिविरोधादिति सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति । ईश्वरसृष्टेः साधनसापेक्षत्वमात्रसाधने कर्तारं कर्तृत्वान्तर्गतं ज्ञानेच्छादिकं परत न्त्रसाधनमेकं साधनं चादाय सिद्धसाधनता स्यादिति कर्तृभिन्नेत्या द्युक्तम्। एवं यथा घटादिसृष्टिः केवलकुलालादैरशक्या तद्व्यतिरिक्तस्व तन्त्रमृत्पिण्डदण्डादिसाधनसापेक्षा, एवं ब्रह्मणो जगत्सृष्टिरपीति न क ल्प्यमिति योजनायां सिद्धान्तप्रतिज्ञा च दर्शिता भवति । तर्हि कीदृशी

[ अधि - ६. सू - १५. ] दीपिकासहितम्. ४३१ स्वरूपसामर्थ्यादेव तस्य सृष्टिः । ( २ ) किं स्विद्वासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसी तस्य सृष्टिरित्यतस्तदुत्तरत्वेन प्रवृत्तस्य तदनन्यत्वमित्यस्याभिप्रायमा- ह-स्वरूपेति । किंस्वित्याद्युपस्कार्यम् । सामर्थ्यं प्रयत्नादि सामर्थ्योप- पर्यायप्रयत्नादिरूपमिति सुधोक्तेः । तथा च किन्तु ‘तस्य’ ब्रह्मणः ज- गतस्सृष्टिः ‘स्वरूपसामर्थ्यात्’ अनन्यप्रयत्नादेरेव भवतीत्यर्थः, न तु साधनान्तरसामर्थ्यसहकृतादित्येवकारार्थः । यद्वा—यद्यपि लोके घ- टादिसृष्टिः स्वतन्त्रबहुसाधना दृष्टा । तथाऽपि ‘नैवं ब्रह्मणः’ न तद्दृ- ष्टान्तेन ब्रह्मणो जगत्सृष्टिस्तथा कल्प्या । किन्तु स्वतन्त्रसाधनस्य त- दनन्यत्वं, कोऽर्थः ? स्वरूपसामर्थ

४३२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - १. ] त, इति (ऋ. १०-८१-२.) ह्याक्षेपः । (३) अधिष्ठानाद्यनुक्तेः, आदिशब्दाद्युक्तिभिश्च । (४) परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते । म.। श्रुतौ किंशब्दावाक्षेपे । स्विच्छब्दावाक्षेपाणां भिन्नविषयत्वद्योत कौ । 'यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः' (ऋ१०-८१-२.) इति वाक्यशेषः । अत्र बभूवेत्यध्याहारः । तथा च 'वि श्वकर्मा' जगत्कर्ता हरिः सृष्टिकाले 'यतो' येनाधिष्ठानादिना भूमिं द्यां च जनयन् विशेषेण बभूव । येन चाधिष्ठानादिना 'महिना' स्वमहिम्ना विश्वचक्षाः सर्वावयवैः सर्वेन्द्रियैर्वा दर्शनशक्तिमान् हरिः भूमिं द्यां च 'और्णोत्' प्रलये आवृणोत् । 'तदधिष्ठानं' अधिकरणं 'किं स्विदासौ त्' किमासीत् न किमपि । आरभ्यते अनेनेत्यारम्भणं करणं वा 'कतमत्स्वित्' कतमदासीत् । 'कथा' कथंरूपमासीत्, न किञ्चि न्न कथमपीत्यर्थः । सत्तर्कदीपावल्यां तु—येन करणादिना भूमिं जन यन् विश्वकर्मा 'विश्वचक्षाः' विश्वद्रष्टा 'महिना' माहात्म्येन द्यां 'और्णोत्' निर्मितवान् तदधिष्ठानादिकं प्रलये 'किमासीत्' न किम पि, पार्थिवाप्यतैजसवायवीयानां वस्तूनां प्रलयेऽभावादिति श्रुत्यर्थ उक्तः ॥ (३) किं शब्दस्य प्रश्नाक्षेपयोः समत्वात्प्रश्नोऽयं किं न स्यादित्यत आह—अधिष्ठानाद्यनुक्तेरिति॥ परिहारायेति नायं प्रश्न इति च शेषः। आदिपदेनारम्भणादिकं गृह्यते । तथा च परिहारायाधिष्ठानाद्यनुक्ते र्नायं प्रश्नः, किं त्वाक्षेप इति योजना । प्रश्नस्य तैत्तिरीये 'किं स्विद्धि मस्य भेषजम्' (तै.सं.७-४-१८.) इति प्रश्नस्य 'अग्निर्हिमस्य भेषजम्' (तै.सं.७-४-१८.) इति परिहारवदत्रापि परिहारो वक्तव्यः स्यादिति भा वः । न केवलं पूर्ववाद्युक्तमनुमानमागमविरुद्धं, अपि तु युक्तिभिश्चेति प्रतिपादयितुं प्रवृत्तस्यादिशब्दस्य तात्पर्यमाह—आदिशब्दादिति । गृ हीताभिरिति शेषः । युक्तिभिरिति । अपरतन्त्रत्वात्स्वतन्त्रत्वात्साध नसत्ताप्रदत्वादिति व्यतिरेकहेतुभिरित्यर्थः । युक्तिभिश्चेत्यस्य स्वरू पसामर्थ्यादेव तस्य सृष्टिरिति ज्ञायत इत्यनेनान्वयः ॥ (४) युक्तीनामाभासत्वशङ्कानिरासाय तासां स्मृतिसिद्धतामा ह—परतन्त्र इति ॥ हिशब्दः प्रसिद्धौ । अपेक्षेत साधनादिकमिति शे

[ अधि - ६. सू - १६. ] दीपिकासहितम्. ४३३ साधनानां साधनत्वं यतः किं तस्य साधनैः ॥ इत्यादिभिः ॥ १५ ॥ ( ५) सू—ॐ ॥ भावे चोपलब्धेः ॥ ॐ ॥ १६ ॥ स्वतन्त्रसाधनभावे प्रमाणैरुपलभ्येत । ( ६) अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन । अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः ॥ षः । अनेनापरतन्त्रत्वयुक्तिः सूचिता । ' अपेक्षते किं ' नापेक्षत इत्य- र्थः । अनेन स्वतन्त्रत्वयुक्तिः सूचिता । कुतो नापेक्षत इत्यत आह- साधनानामिति । ' साधनत्वं ' साधनशक्तिः यतो भवतीति शेषः ' तस्य ' विष्णोः ' साधनैः ' अधिष्ठानादिभिः ' किं ' कृत्यमित्यर्थः ॥ अनेन तृतीययुक्तिरुक्ता । इत्यादिभिरिति । आदीयन्ते उपादीयन्ते इत्यादयः । तथा च इतिश्रुतिज्ञापिताभिरित्यर्थः । यद्वा — युक्त्यन्तरसू- चकस्मृत्यन्तरसङ्ग्राहक आदिशब्दः । इत्यादिभिरित्यस्य युक्तिभिरित्य- नेनान्वयः ॥ ( ५) युक्त्यन्तरेण स्वतन्त्रसाधनं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याच- ष्टे—भावे चेति ॥ स्वतन्त्रेति । स्वतन्त्रसाधनान्तरसत्त्व इत्यर्थः । त- दङ्गीकारोपलक्षकमेतत् । उपलब्धेः कारणसापेक्षत्वात्तदाह—प्रमाणै- रिति । वेदादिप्रमाणैरित्यर्थः । उपलभ्येत प्रतीयेत इति लिङ्प्रयोगेन सूत्रे प्रसङ्गादिति शेषः । उपलब्धेरिति षष्ठी, न परमत इव पञ्चमी । चशब्दः प्रसङ्गाच्चेत्यन्वितो बाधकतर्करूपयुक्त्यन्तरसमुच्चायक इति सूचितं । तथा चास्य तर्कत्वात् न चोपलभ्यते तस्मान्नास्तीति विपर्य- यपर्यवसाने सूत्रे स्वतन्त्रसाधनान्तराभावः सिद्ध्यतीति भावः ॥ ( ६) ननु प्रमाणानुपलब्धमपि वस्तु किं न स्यादित्यत आह—अ- नुक्तमिति ॥ इतिहासपुराणयोः पञ्चमवेदत्वं प्रसिद्धमिति पञ्चभिरि- त्युक्तम् । ' च न ' अपि । तथा च पञ्चभिरपि वेदैरुक्तमपि वस्तु नास्ति, कुतः प्रमाणमात्रासिद्धमस्तीति कैमुत्यपरतयेदं योज्यम् । अ- न्यथा प्रमाणानुपलब्धमपीति टीका प्रमाणैरिति भाष्यं च अनुपपन्नं स्यात् । ' कुतश्चन ' किञ्चिदपीति वा । ' एतेषां ' पञ्चानाम् । अत इ- त्युक्तं विवृणोति—यत इति । ' ते ' पञ्च वेदाः ' सर्ववेदकाः ' सर्वव- स्तुप्रतिपादकाः । न च वेदानुक्तानां भगवद्गुणानां सत्त्वात् कथं तद- नुक्तवस्तुमात्रनिषेध इति वाच्यम् । कुतश्चनेत्यस्य केनापि प्रकारेणे 」 ५५

४३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] इति स्कान्दे ॥ १६ ॥ ( ७ ) 'अद्भ्यः सम्भूतः पृथिव्यै रसाच्च' ( तै. आ-३-१३. ) इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह— सू—ॐ ॥ सत्त्वाच्चावरस्य ॥ ॐ ॥ १७ ॥ त्यर्थाश्रयणात् सामान्यतस्तेषामपि वेदोक्तत्वेन तदनुक्तत्वाभावात् । अत एव न 'सन्त्यश्रुताः' (सौपर्णश्रुतिः) इति श्रुतिविरोधः । विशे- षतोऽश्रुता इत्यर्थाश्रयणात् । स्कान्द इत्यनन्तरं उक्तत्वात्सूत्रकृदुक्तं युक्तमिति वाक्यशेषः । सूत्रयोजना तु—तस्य स्वतन्त्रसाधनान्तरस्य भावे वेदादिप्रमाणैरुपलब्धेः प्रसङ्गाच्च तदनन्यत्वमिति । न केवलमा- रम्भणशब्दादिभ्य इति चार्थः ॥ ( ७ ) ननु अद्भ्यः सम्भूत इति श्रुतौ प्रकृतिं स्वामवष्टभ्य विसृजा- मि युगेयुगे इति गीतास्मृतौ च भगवदितरप्रकृत्यादिस्वतन्त्रसाधन- सत्त्वप्रतीतेर्न तदनुपलब्धिरित्याशङ्क्य तत्परिहारत्वेन सूत्रमवतार्यव्या- चष्टे—अद्भ्य इति ॥ आदिशब्देन 'अद्भ्यः सम्भूतो हिरण्यगर्भः' (महाना.१-११.) इति श्रुतिः । 'प्रकृतिं स्वाम्' इति स्मृतिश्च गृह्यते । वाक्येनेति शेषः । साधनान्तरेति । भगवदितरस्वतन्त्रसाधनसत्त्वप्र- तीतेरित्यर्थः । पारतन्त्र्यानुक्त्यैवात्रोक्तसाधनस्यापि स्वातन्त्र्यं सिद्ध्यतीति भावः । कथमित्याक्षेपे । 'अनुपलब्धिः' उपलब्ध्द्यभावः । अवरस्येत्यनुवादेन तदधीनस्येति तात्पर्यार्थोक्तिः । आरम्भणस्थेत्य- नुवृत्तपदस्यार्थमाह—साधनस्येति । 'सत्त्वात्' सत्त्वाभ्युपगमात् । अनेन सूत्रे वरस्य चासत्त्वात् अवरस्य च सत्त्वादिति च नञोभय- त्रान्वयः । चोऽवधारणे । नञाकर्षकश्च । तथा च 'वरस्य' स्वतन्त्रस्यै- व साधनस्यासत्त्वाभ्युपगमात् 'अवरस्य' अस्वतन्त्रस्य तु सत्त्वाभ्युप- गमात् 'अद्भ्यः' इति वाक्यं तद्विषयं इति नोक्तस्य तद्विरोध इति सूत्रार्थ उक्तो भवति । 'अद्भ्यस्सम्भूतः पृथिव्यै रसाच्च । विश्वकर्म- णस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमा- जानमग्रे' ( तै. आ. ३-१३. ) इति तैत्तिरीयश्रुतौ तृतीयार्थे पञ्चमीचतु- र्थ्यौ । आङेवार्थे । तथा च यस्तत्पुरुषाख्यो हिरण्यगर्भो 'विश्वकर्म- णो' विश्वकर्तुः हरेस्सकाशात् 'अद्भ्यः पृथिव्यै' अबाद्युपलक्षितप- ञ्चमहाभूतैः 'रसात्' तदुपलक्षिततन्मात्राभिश्च 'सम्भूतः' उत्पन्नः

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४३५ अपरस्य तदधीनस्य साधनस्य सत्त्वात् ॥ ( ८ ) 'काल आसीत्पुरुष आसीत्परमं आसीत्तद्यदासीत्तदावृतमा- सीत्तदधीनमासीद्यह्येक एव परम आसीद्यस्यैतदासी- न्न ह्येतदासीत्' इति हि काषायणश्रुतिः ॥ १७ ॥ ( ९ ) सू—ॐ ॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वा सन् ‘अधि’ सर्वस्मादधिकत्वेन समवर्तत । ‘तस्य’ तत्पुरुषस्य ‘अ- ग्रे’ तदुत्पत्तेः पूर्वमेव ‘जातं’ जातं ‘विश्वं’ ब्रह्माण्डाख्यं ‘रूपं’ च तुर्मुखविग्रहं ‘त्वष्टा’ महादीप्तिर्भगवान् ‘विदधत्’ धारयन् ‘एति’ वर्तत इत्यर्थः । तत्त्वप्रदीपे तु—आपीयन्ते अनुभूयन्ते इत्यापः कर्मा- णि, पृथुत्वात्पृथिवी प्रकृतिः, रसो रक्किरिति पदत्रयमन्यथा व्याख्या- तम् । ‘स्वां’ स्वाधीनां प्रकृतिमवष्टभ्य ‘अवलम्ब्य’ उपादानीकृत्य वि- विधं जगत्सृजामीति गीतायां भगवद्वचनस्यार्थः ॥ ( ८ ) नन्वस्यां श्रुतौ साधनमात्रं प्रतीयते, न तु तस्य भगवदधी- नत्वम् । तच्च लोकानुसारात् स्वतन्त्रमेव किं न स्यादित्यतश्चशब्दसू- चितां श्रुतिमुदाहरति—काल इति ॥ यत्तदोरावृत्तिः । तदिति व्यस्तं समस्तं च । तथा चास्य जगतोऽग्रे प्रलये कालः ‘पुरुषो’ जीवः ‘प- रमः’ परमात्माऽप्यासीत् । यद्यप्येवं तथाऽपि ‘यत्’ यस्मात् ‘तत्’ तदा प्रलये यद्वस्त्वात्सीत् ‘तत्’ तेन भगवता ‘आवृतं’ तदधीन- मासीत् । अथ तस्मादेक एव परमः आसीदित्युच्यते । अस्वतन्त्रेऽभा- वशब्दः । प्रसिद्ध इति हिशब्दार्थः । कीदृशोऽसौ परमः इत्यतो जग- त्कर्तेत्याह—यस्येति । ‘यस्य’ एतस्य परमस्य सकाशात् ‘एतत्’ जगदासीदित्यर्थः । परमस्य सकाशाज्जगदुत्पत्तिः कुत इत्यत आह— न हीति । ‘हि’ यस्मात् जगत् सृष्टेः पूर्वं नासीत्तस्मादित्यर्थः । प्राग- भावेनोत्पत्तौ सिद्धायां सत्यां तदुत्पादकस्थान्यस्य अभावाद्धरिरेव ज- गत्कर्तेति सिद्धयतीति भावः । तत्त्वप्रदीपे तु—‘स एकः परम एवा- सीत्’ यदधीनमेतदासीन्न स्वतन्त्रं न ह्येतदासीदिति वक्तुं शक्यते । परतन्त्रत्वादेव । अथ वा—अथेति विशेषद्योतकः । एको भगवान्नेव ‘परमः’ प्रधान आसीन्न ह्यन्यत्परम आसीत, किन्तु तदधीनमेवेत्यर्थ उक्तः । श्रुतिरित्यनन्तरं यत इति शेषः । अस्यातोऽवरस्येत्युक्तंयुक्तमि- त्युपस्कृतेनान्वयः ॥ ( ९ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे-

४३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] क्यशेषात् ॥ ॐ ॥ १८ ॥ ‘नासदासीत्’ (ऋ. १०-१२९-१.) इति सर्वस्यास- त्त्वव्यपदेशान्नेति चेत्— असादिति ॥ इतीत्यनन्तरं श्रुताविति शेषः । ‘सर्वस्य’ साधनान्तरस्ये- ति सूत्रे शेषोक्तिः । ‘असत्त्वव्यपदेशात्’ असत्त्वस्योक्तत्वादिति । अनेन सूत्रेऽसदिति भावनिर्देश इति सूचितम् । नेति । ‘सत्त्वाच्चावर- स्य’ इत्यनेनोक्तं साधनान्तरस्य सत्त्वं तस्येश्वराधीनत्वं च नेत्यर्थः । ‘नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्च

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४१७


(१०) न, अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते । (११) 'तम आसीत्' (ऋ. १० - १२९ - ३.) इति वाक्य शेषात् ।


र्मोपेतमिति यावत् । 'नास' न बभूव । अपि तु तदैवोद्रिक्तमास । ह प्रसिद्धमिति । तत्त्वोद्योतटीकायां तु—'स्वधया' सुखेनैव । न तु सु खप्राप्त्यर्थमिति व्याख्यातम् ॥ (१०) परिहारांशं व्याचष्टे—नेति ॥ नात्र स्वरूपासत्त्वाभिप्रायेण साधनानामसत्त्वोक्तिरित्यर्थः । कुत इत्यतस्तत्र धर्मान्तरेणेत्यंशमावृ त्त्या असद्व्यपदेशादित्यनेनान्वितं हेतुत्वेन योजयति-अव्यक्तत्वेति । अ वरत्वावृतत्वकार्यानभिमुखत्वादिकमादिपदार्थः । अन्यो धर्मो धर्मान्त रम् । तथा च स्वरूपासत्त्वादन्येन धर्मजातेन तदपेक्षयेत्यर्थः । य