भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 470, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 470

[ अधि - ४. सू - १३. ] दीपिकासहितम्. ४२३ ( १८ ) श्रुतिगतिस्तु ब्रह्मवाचकत्वेन प्रदर्शिता । ( १९ ) यत्रान्यवाचकत्वेऽप्यविरोधस्तत्र अस्मद्दृष्ट्यैव मुख्यतया त् । नापि जीवकर्तृत्वे दृष्टान्ताभावाख्यो हेतुस्सिद्धः, घटादीनां कुला- लादिकर्तृत्वदर्शनेन तेषामेव तत्र दृष्टान्तत्वसम्भवादित्यत आह— यथेति । कार्येषु साध्यमिति च शेषः । इतिशब्दो हेतौ । दृष्टान्त इत्यु- पलक्षणं, तदभावश्चेत्यपि द्रष्टव्यम् । तथा च यथा दुःखादिषु कार्येषु जीवस्य ‘अस्वातन्त्र्यं’ कर्तृत्वाभावः किं त्वीश्वरस्यैव एवं दुःखादि- भ्य आन्तरेभ्योऽन्येषु घटादिबाह्यकार्येष्वप्यकर्तृत्वं जीवस्याकर्तृत्वं जी- वस्य साध्यमनुमेयमिति हेतोरसिद्धिरतो जगतोऽजीवकर्तृकत्वे दुःखा- दिरूपो दृष्टान्तः । एवं जीवकर्तृकत्वे दृष्टान्ताभाव