पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 469, कुल 1267 में से
संदर्भ में पढ़ें४२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( १५ ) प्रधानादिदमुत्पन्नं प्रधानमधितिष्ठति । प्रधाने लयमभ्येति न ह्यन्यत्कारणं मतम् ॥ ( १६ ) जीवाद्भवन्ति भूतानि जीवे तिष्ठन्त्यचञ्चलाः । जीवे तु लयमृच्छन्ति न जीवात्कारणं परम् । इत्यादिश्रुतिप्राप्ता निराकृताः । ( १७ ) यथा दुःखादिषु जीवस्यास्वातन्त्र्यमेवमन्येष्वपीति दृष्टान्तः । मद्भवति लयं च प्राप्नोतीत्यर्थः ॥ ( १५ ) अचेतनकारणत्वे श्रुतिमाह-प्रधानेति ॥ 'इदं' जगत् 'प्र- धानात्' अचेतनप्रकृतेरुत्पन्नम् प्रधानमधितिष्ठति, तत्र प्रधाने लयं च प्राप्नोतीत्यर्थः। पुनः पुनः प्रधानशब्दप्रयोगस्तात्पर्यार्थः। एवं पूर्वोत्तरत्र च द्रष्टव्यम् । ननु कार्यस्य कारण एव लयौचित्या प्रधानादन्यस्यैव कारणत्वात्कथं जगतः प्रधाने लयः । न चोत्पत्त्यादिकर्तृत्वात्कारणत्व- मिति वाच्यम् । उत्पत्त्यादिकर्तुरन्यस्यैव कारणत्वोपपत्तेरित्यत आ- ह-न हीति । 'हि' यस्मात्प्रधानादन्यत्कारणं न प्रमाणप्रमितमेवं य- स्मादुत्पत्त्यादिकर्तुरन्यत्कारणं न मतं, तस्मात्तस्यैवोत्पत्त्यादि कर्तृत्वा- त्कारणत्वं लयाधिकरणत्वं च युक्तमित्यर्थः । प्रसिद्धयर्थे हिशब्दः ॥ ( १६ ) जीवकारणत्वे श्रुतिमाह-जीवादिति ॥ 'भूतानि' पृथिव्याद्युप- लक्षितकार्याणि भवन्ति जायन्ते 'अचञ्चलाः' अचञ्चलानि 'तिष्ठन्ति' जीवेन धार्यन्ते इति यावत् । 'ऋच्छन्ति' प्राप्नुवन्ति । न जीवादित्येत- त् पूर्ववदवतार्य व्याख्येयम् । 'परं' अन्यत् । अवधारणार्थस्य तुशब्द- स्य न त्विति सम्बन्धः । नन्वत्रैव पादे निष्कारणत्वादिनिरासे समय- पादे वक्ष्यमाणचार्वाकसाङ्ख्यपक्षनिषेधस्य पौनरुक्त्यं प्रसज्यत इत्यत उक्तं—इत्यादिश्रुतिप्राप्ता इति । श्रुतिमुख्यार्थ परिज्ञानमूलक कार्यत्वा- दियुक्ति प्रापिता इत्यर्थः । तथा च तत्र समयप्राप्तस्यैव निराकरणान्न पौनरुक्त्यमिति भावः । न चैवमस्य तृतीयपादनिवेशापत्तिरिति शङ्का तु 'अर्थायुक्तिविरोधो निराक्रियते' इत्युक्तरीत्या परिहरणीया । निरा- कृता इत्यनेन व्याख्याता इत्यस्य प्रत्याख्याता इत्यर्थ इति सूचितम् ॥ ( १७ ) नन्वस्तु सत्कारणत्वादौ घटादिदृष्टान्तभावः, निष्कारणत्वा- दौ दृष्टान्ताभावश्च । तथाऽपि जीवकर्तृत्वपक्षनिरासाय कथमजीवक- र्तृत्वे एतेनेत्यतिदिष्टो दृष्टान्तभावाख्यो हेतुस्सिद्धः, दृष्टान्तस्यादर्शना-