भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 478, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 478

[ अधि - ६. सू - १५. ] दीपिकासहितम्. ४३१ स्वरूपसामर्थ्यादेव तस्य सृष्टिः । ( २ ) किं स्विद्वासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसी तस्य सृष्टिरित्यतस्तदुत्तरत्वेन प्रवृत्तस्य तदनन्यत्वमित्यस्याभिप्रायमा- ह-स्वरूपेति । किंस्वित्याद्युपस्कार्यम् । सामर्थ्यं प्रयत्नादि सामर्थ्योप- पर्यायप्रयत्नादिरूपमिति सुधोक्तेः । तथा च किन्तु ‘तस्य’ ब्रह्मणः ज- गतस्सृष्टिः ‘स्वरूपसामर्थ्यात्’ अनन्यप्रयत्नादेरेव भवतीत्यर्थः, न तु साधनान्तरसामर्थ्यसहकृतादित्येवकारार्थः । यद्वा—यद्यपि लोके घ- टादिसृष्टिः स्वतन्त्रबहुसाधना दृष्टा । तथाऽपि ‘नैवं ब्रह्मणः’ न तद्दृ- ष्टान्तेन ब्रह्मणो जगत्सृष्टिस्तथा कल्प्या । किन्तु स्वतन्त्रसाधनस्य त- दनन्यत्वं, कोऽर्थः ? स्वरूपसामर्थ