पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 477, कुल 1267 में से
संदर्भ में पढ़ें४३० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ऽन्तर्भावादत्रोक्तम् ॥ १४ ॥ —::— ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ ॐ ॥ १५ ॥ स्वतन्त्रबहुसाधना सृष्टिलोंके दृष्टा । नैवं ब्रह्मणः । स्याधिकरणस्य फलाध्यायसङ्गतत्वेऽपि 'युक्तिविरोधे' न ह्यन्यस्येत्यु क्तयुक्तिविरोधपरिहारात्मके ' अत्रापि ' पादेऽन्तर्भूतत्वादत्रेदमधि करणं ' उक्तं ' विशेषितमित्यर्थः । अन्यथोभयान्तर्गतस्य एकत्रोप्यनु क्तिप्रसङ्गः । तस्मादुक्तरीत्या सङ्गतिसद्भावादस्मदीयव्याख्यानमेव युक्तमिति भावः ॥ ५ ॥ ॥ इति भोक्त्राधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोर्जगत्कर्तृत्वे बहुयुक्तिविरोधः परिह्रिय ते । पूर्वपक्षसिद्धान्तादिप्रदर्शनाय सूत्रमेव आदौ पठति—तदिति ॥ स्वतन्त्रबहुसाधनेति । कर्तृव्यतिरिक्तस्वतन्त्रसत्ताशक्तिप्रवृत्तिमद धिष्ठानकरणादिरूपबहुसाधनसापेक्षेत्यर्थः । स्वातन्त्र्यं च कर्त्रनधी नत्वं 'सृष्टिः' घटादेः । स्थित्यादेरप्युपलक्षकमेतत् । एवमित्युक्तेऽर्थे ति लभ्यते । नेत्यावर्तते । तथा च यतो लोके यथा घटादेः सृष्टिः स्व तन्त्रबहुसाधना दृष्टा, एवं ब्रह्मणः सकाशाज्जगत्सृष्टिरपि स्वव्यतिरि क्तबहुसाधना स्यात्। तथाऽनुमेया स्यात् । अत एव तद्युक्तिविरोधान्न ब्रह्मणो जगत्कर्तृत्वं युक्तमिति योजना। अनेन ब्रह्मणः न जगत्कर्तृत्वं यु ज्यते । कुतः? महदादिसृष्ट्यादिकं प्रत्येकं कर्तृव्यतिरिक्तबहुसाधनसा पेक्षं, सृष्टित्वात्, स्थितित्वात्, संहृतित्वाद्धटादिसृष्ट्यादिवदिति बहु युक्तिविरोधादिति सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति । ईश्वरसृष्टेः साधनसापेक्षत्वमात्रसाधने कर्तारं कर्तृत्वान्तर्गतं ज्ञानेच्छादिकं परत न्त्रसाधनमेकं साधनं चादाय सिद्धसाधनता स्यादिति कर्तृभिन्नेत्या द्युक्तम्। एवं यथा घटादिसृष्टिः केवलकुलालादैरशक्या तद्व्यतिरिक्तस्व तन्त्रमृत्पिण्डदण्डादिसाधनसापेक्षा, एवं ब्रह्मणो जगत्सृष्टिरपीति न क ल्प्यमिति योजनायां सिद्धान्तप्रतिज्ञा च दर्शिता भवति । तर्हि कीदृशी