भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 483, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 483

४३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] क्यशेषात् ॥ ॐ ॥ १८ ॥ ‘नासदासीत्’ (ऋ. १०-१२९-१.) इति सर्वस्यास- त्त्वव्यपदेशान्नेति चेत्— असादिति ॥ इतीत्यनन्तरं श्रुताविति शेषः । ‘सर्वस्य’ साधनान्तरस्ये- ति सूत्रे शेषोक्तिः । ‘असत्त्वव्यपदेशात्’ असत्त्वस्योक्तत्वादिति । अनेन सूत्रेऽसदिति भावनिर्देश इति सूचितम् । नेति । ‘सत्त्वाच्चावर- स्य’ इत्यनेनोक्तं साधनान्तरस्य सत्त्वं तस्येश्वराधीनत्वं च नेत्यर्थः । ‘नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् । किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्च

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 483, कुल 1267 में से · BharatKosha