पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 484, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४१७
(१०) न, अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते । (११) 'तम आसीत्' (ऋ. १० - १२९ - ३.) इति वाक्य शेषात् ।
र्मोपेतमिति यावत् । 'नास' न बभूव । अपि तु तदैवोद्रिक्तमास । ह प्रसिद्धमिति । तत्त्वोद्योतटीकायां तु—'स्वधया' सुखेनैव । न तु सु खप्राप्त्यर्थमिति व्याख्यातम् ॥ (१०) परिहारांशं व्याचष्टे—नेति ॥ नात्र स्वरूपासत्त्वाभिप्रायेण साधनानामसत्त्वोक्तिरित्यर्थः । कुत इत्यतस्तत्र धर्मान्तरेणेत्यंशमावृ त्त्या असद्व्यपदेशादित्यनेनान्वितं हेतुत्वेन योजयति-अव्यक्तत्वेति । अ वरत्वावृतत्वकार्यानभिमुखत्वादिकमादिपदार्थः । अन्यो धर्मो धर्मान्त रम् । तथा च स्वरूपासत्त्वादन्येन धर्मजातेन तदपेक्षयेत्यर्थः । य