भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 485, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 485

४३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( १२) न चान्यत्र प्रमाणमस्ति । ( १३) अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगा मजोऽन्यः । (महाना. १०-५.) अविज्ञातं सलिलं भूत्वा आसीत् । तेन ‘तमसा’ सलिलेन ‘इदं’ जगत् गूळ्हं ‘गूढं’ गूहितमासीदिति श्रुत्यर्थः । भावबोधे तु—टीकायामपरि मितमित्येतत् आङोऽर्थकथनं, अप्रकेतं प्रभावरहितमिति व्याख्यात म् । तन्मूलं चिन्त्यम् । प्रलये जडचेतनप्रकृतिभावमभिधाय अगाध त्वेनाप्रकेतेऽविज्ञाते सलिले इति व्यासतीर्थीयविरोधश्च ॥ ( १२) अथ परकृतापव्याख्यां निराचष्टे—न चेति ॥ अस्मिन्नधिक रणे चेतनाचेतनप्रपञ्चस्य परमार्थतो ब्रह्मानन्यत्वमुच्यते । कुतो? वाचा रम्भणमित्यादिश्रुतेरिति यत् परेषां व्याख्यानं तन्न युक्तम्। कुतः? यतः ‘अन्यत्र’ चेतनाचेतन प्रपञ्चस्य ब्रह्मानन्यत्वे प्रमाणं नास्त्यत इति न आवृत्त्या योजना । न केवलं प्रमाणाभावोऽन्यत्र, किन्तु प्रमाणविरोधः चेत्याशयेन चशब्दः प्रायोजि ॥ ( १३) तदुपपादनाय विरोधप्रमाणान्याह—अजो हीति ॥ श्रुति स्मृतिभ्य इत्यनन्तरं ब्रह्मान्यत्वाद्यवगमादिति वाक्यशेषः । ‘अजो हि’ इति नारायणानुवाके श्रुतम् । ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्र जां जनयन्तीं सरूपाम’ (महाना. १०-५.) इति पूर्वार्धे श्रुतां ‘लोहितशु क्लकृष्णां’ रजःसत्त्वतमोगुणात्मिकां ‘बह्वीः प्रजाः सृजमानां सरूपां’ इति सुधागृहीतवाक्यान्तरे बहुवचनश्रवणात् सरूपां स्वसदृ शानि बह्वीं प्रजां महदादिबहुकार्याणि जनयन्तीमेकां न जायत इत्य जां प्रकृतिं एको न जायत इति ‘अजः’ संसारिजीवो ‘जुषमाणः’ से वमानः ‘अनुशेते’ अनुवर्तते । ‘अन्यः’ कश्चिन्मुच्यमानोऽस्यां प्रकृ तौ भोगान् भुक्त्वा अथ भुक्तो भोगो यस्यां सा तां ‘भुक्तभोगां’ ए नां प्रकृतिं ‘जहाति’ प्रलये परित्यजतीत्यर्थः । अत्र मुक्तामुक्तयोर्भेदो क्त्या परमात्मनोऽपि संसारिभ्यो भेदोऽभिहितः, अद्वैतिमते मुक्तपरमा त्मनोरभेदात् अस्मन्मतेऽपि ‘एनां जहाति’ इत्यनेन परमात्मनोऽप्यु क्तत्वात् । न च तस्य प्रकृतिभोगत्यागयोरयोग इति वाच्यम् । ‘ऋतं पिबन्तौ’ (कठ. १-३-१०) ‘श्रोत्रं चक्षुः स्पर्शनं च’ इत्याद्युक्तरीत्या प्र कृतिभोगस्य क्रियाप्रबन्धे लटं स्वीकृत्य सर्वदा प्रकृत्यबद्धत्वरूपप्रकृ तित्यागस्य च वक्तुं शक्यत्वात् ॥

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 485, कुल 1267 में से · BharatKosha