भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 486, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 486

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४३९ ( १४ ) अनाद्यनन्तं जगदेतदीदृक्प्रवर्तते नात्र विचार्यमस्ति । न चान्यथा क्वापि च कस्य चेदमभूतपुरा नापि तथा भविष्यत्॥ ( १५ ) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । ( गी.१६-८.) ( १४ ) एवं परोक्तं चेतनस्य ब्रह्मानन्यत्वे विरोधिप्रमाणमभिधाय इदानीमचेतनप्रपञ्चस्यापि पराभिसंहिते बाध्यत्वरूपब्रह्मानन्यत्वे तदा ह—अनादीति ॥ स्मृतिवाक्यमेतत् । 'अनाद्यनन्तं' प्रवाहत उत्पत्ति नाशशून्यं 'ईदृक्' नानाविधं व्रीह्यादिवत् प्रवाहरूपेण वर्तमानं जग त्प्रवर्तते प्रतिकल्पमिति शेषः । 'अत्र' अनादित्वानन्तत्वेदृक्त्वरूपार्थे षु विचार्यं निर्णेतव्यम् न किमप्यस्ति । सर्वं निर्णीतमेवेति भावः । वि चार्यं संशेतव्यमिति वा । ननु रज्जौ सर्पवद्विश्वस्यापि क्वचित्कस्य चि द्बाधोऽस्ति किमित्यतो नेत्याह—न चेति । 'इदं' विश्वं 'क्वापि' देशे काले च 'कस्यापि' पुरुषस्य 'अन्यथा' बाधितं 'पुरा' पूर्वं नाभू त्, उत्तरत्रापि 'तथा' बाध्यं नाभविष्यदित्यर्थः । भविष्यच्च नेति सु बन्तपदं वा ॥ ( १५ ) विश्वमिथ्यात्वमतमासुरत्वाद युक्तमिति गीतास्मृत्या दर्श यति—असत्यमिति ॥ अपरस्परसम्भूतं किमन्यत्कामहेतुकम् । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥ प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ इति वाक्यशेषः प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ॥ इति पूर्ववाक्ये प्रकृता आसुराः जगत् असत्यत्वादप्रतिष्ठं ज्ञानबाध्यं त त एवानीश्वरमित्याहुः । ननु यतो यतो जातमसावसावीश्वरोऽस्तु इ त्यत उक्तं—अपरस्परसंभूतमिति। परमेश्वराधिष्ठितायाः प्रकृतेः महा न्, महतोऽहंकार इत्यादिक्रमेण परस्परसम्भूतं न भवतीत्यर्थः । ननु सत्यं न चेत् किमसत् ? एवं परस्परसंभूतं न चेत् किं नित्यं ? स्वतो वा जातं ? आद्यस्योत्तरं—अन्यदिति । सदसद्भ्यामिति शेषः । द्विती यस्योत्तरं—कामहेतुकमिति । काम इति तत्कारणमविद्या मिथ्याज्ञा नं चोपलक्ष्यते । तथा चाविद्यादि कल्पितमित्यर्थः । 'एतां दृष्टिं' बु द्धिमवष्टभ्य 'नष्टात्मानो' दुष्टचित्ताः, अतएव 'अल्पबुद्धयः' अल्प ज्ञानाः 'जगतोऽहिताः' विरोधिनोऽहितकरा वा । जगतः 'क्षयाय'