पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 481, कुल 1267 में से
संदर्भ में पढ़ें४३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] इति स्कान्दे ॥ १६ ॥ ( ७ ) 'अद्भ्यः सम्भूतः पृथिव्यै रसाच्च' ( तै. आ-३-१३. ) इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत आह— सू—ॐ ॥ सत्त्वाच्चावरस्य ॥ ॐ ॥ १७ ॥ त्यर्थाश्रयणात् सामान्यतस्तेषामपि वेदोक्तत्वेन तदनुक्तत्वाभावात् । अत एव न 'सन्त्यश्रुताः' (सौपर्णश्रुतिः) इति श्रुतिविरोधः । विशे- षतोऽश्रुता इत्यर्थाश्रयणात् । स्कान्द इत्यनन्तरं उक्तत्वात्सूत्रकृदुक्तं युक्तमिति वाक्यशेषः । सूत्रयोजना तु—तस्य स्वतन्त्रसाधनान्तरस्य भावे वेदादिप्रमाणैरुपलब्धेः प्रसङ्गाच्च तदनन्यत्वमिति । न केवलमा- रम्भणशब्दादिभ्य इति चार्थः ॥ ( ७ ) ननु अद्भ्यः सम्भूत इति श्रुतौ प्रकृतिं स्वामवष्टभ्य विसृजा- मि युगेयुगे इति गीतास्मृतौ च भगवदितरप्रकृत्यादिस्वतन्त्रसाधन- सत्त्वप्रतीतेर्न तदनुपलब्धिरित्याशङ्क्य तत्परिहारत्वेन सूत्रमवतार्यव्या- चष्टे—अद्भ्य इति ॥ आदिशब्देन 'अद्भ्यः सम्भूतो हिरण्यगर्भः' (महाना.१-११.) इति श्रुतिः । 'प्रकृतिं स्वाम्' इति स्मृतिश्च गृह्यते । वाक्येनेति शेषः । साधनान्तरेति । भगवदितरस्वतन्त्रसाधनसत्त्वप्र- तीतेरित्यर्थः । पारतन्त्र्यानुक्त्यैवात्रोक्तसाधनस्यापि स्वातन्त्र्यं सिद्ध्यतीति भावः । कथमित्याक्षेपे । 'अनुपलब्धिः' उपलब्ध्द्यभावः । अवरस्येत्यनुवादेन तदधीनस्येति तात्पर्यार्थोक्तिः । आरम्भणस्थेत्य- नुवृत्तपदस्यार्थमाह—साधनस्येति । 'सत्त्वात्' सत्त्वाभ्युपगमात् । अनेन सूत्रे वरस्य चासत्त्वात् अवरस्य च सत्त्वादिति च नञोभय- त्रान्वयः । चोऽवधारणे । नञाकर्षकश्च । तथा च 'वरस्य' स्वतन्त्रस्यै- व साधनस्यासत्त्वाभ्युपगमात् 'अवरस्य' अस्वतन्त्रस्य तु सत्त्वाभ्युप- गमात् 'अद्भ्यः' इति वाक्यं तद्विषयं इति नोक्तस्य तद्विरोध इति सूत्रार्थ उक्तो भवति । 'अद्भ्यस्सम्भूतः पृथिव्यै रसाच्च । विश्वकर्म- णस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमा- जानमग्रे' ( तै. आ. ३-१३. ) इति तैत्तिरीयश्रुतौ तृतीयार्थे पञ्चमीचतु- र्थ्यौ । आङेवार्थे । तथा च यस्तत्पुरुषाख्यो हिरण्यगर्भो 'विश्वकर्म- णो' विश्वकर्तुः हरेस्सकाशात् 'अद्भ्यः पृथिव्यै' अबाद्युपलक्षितप- ञ्चमहाभूतैः 'रसात्' तदुपलक्षिततन्मात्राभिश्च 'सम्भूतः' उत्पन्नः