भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 480, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 480

[ अधि - ६. सू - १६. ] दीपिकासहितम्. ४३३ साधनानां साधनत्वं यतः किं तस्य साधनैः ॥ इत्यादिभिः ॥ १५ ॥ ( ५) सू—ॐ ॥ भावे चोपलब्धेः ॥ ॐ ॥ १६ ॥ स्वतन्त्रसाधनभावे प्रमाणैरुपलभ्येत । ( ६) अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन । अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः ॥ षः । अनेनापरतन्त्रत्वयुक्तिः सूचिता । ' अपेक्षते किं ' नापेक्षत इत्य- र्थः । अनेन स्वतन्त्रत्वयुक्तिः सूचिता । कुतो नापेक्षत इत्यत आह- साधनानामिति । ' साधनत्वं ' साधनशक्तिः यतो भवतीति शेषः ' तस्य ' विष्णोः ' साधनैः ' अधिष्ठानादिभिः ' किं ' कृत्यमित्यर्थः ॥ अनेन तृतीययुक्तिरुक्ता । इत्यादिभिरिति । आदीयन्ते उपादीयन्ते इत्यादयः । तथा च इतिश्रुतिज्ञापिताभिरित्यर्थः । यद्वा — युक्त्यन्तरसू- चकस्मृत्यन्तरसङ्ग्राहक आदिशब्दः । इत्यादिभिरित्यस्य युक्तिभिरित्य- नेनान्वयः ॥ ( ५) युक्त्यन्तरेण स्वतन्त्रसाधनं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याच- ष्टे—भावे चेति ॥ स्वतन्त्रेति । स्वतन्त्रसाधनान्तरसत्त्व इत्यर्थः । त- दङ्गीकारोपलक्षकमेतत् । उपलब्धेः कारणसापेक्षत्वात्तदाह—प्रमाणै- रिति । वेदादिप्रमाणैरित्यर्थः । उपलभ्येत प्रतीयेत इति लिङ्प्रयोगेन सूत्रे प्रसङ्गादिति शेषः । उपलब्धेरिति षष्ठी, न परमत इव पञ्चमी । चशब्दः प्रसङ्गाच्चेत्यन्वितो बाधकतर्करूपयुक्त्यन्तरसमुच्चायक इति सूचितं । तथा चास्य तर्कत्वात् न चोपलभ्यते तस्मान्नास्तीति विपर्य- यपर्यवसाने सूत्रे स्वतन्त्रसाधनान्तराभावः सिद्ध्यतीति भावः ॥ ( ६) ननु प्रमाणानुपलब्धमपि वस्तु किं न स्यादित्यत आह—अ- नुक्तमिति ॥ इतिहासपुराणयोः पञ्चमवेदत्वं प्रसिद्धमिति पञ्चभिरि- त्युक्तम् । ' च न ' अपि । तथा च पञ्चभिरपि वेदैरुक्तमपि वस्तु नास्ति, कुतः प्रमाणमात्रासिद्धमस्तीति कैमुत्यपरतयेदं योज्यम् । अ- न्यथा प्रमाणानुपलब्धमपीति टीका प्रमाणैरिति भाष्यं च अनुपपन्नं स्यात् । ' कुतश्चन ' किञ्चिदपीति वा । ' एतेषां ' पञ्चानाम् । अत इ- त्युक्तं विवृणोति—यत इति । ' ते ' पञ्च वेदाः ' सर्ववेदकाः ' सर्वव- स्तुप्रतिपादकाः । न च वेदानुक्तानां भगवद्गुणानां सत्त्वात् कथं तद- नुक्तवस्तुमात्रनिषेध इति वाच्यम् । कुतश्चनेत्यस्य केनापि प्रकारेणे 」 ५५