पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 473, कुल 1267 में से
संदर्भ में पढ़ें४२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] न ह्यान्यस्यान्यत्वं युज्यत इति चेत्— ( २ ) न, स्याल्लोकवत् यथा लोके उदके उदकान्तरस्यैकी क्षविवक्षया भाष्यस्य प्रवृत्तत्वात्, अत एवात्र पूर्वमपीत्युक्तम् । च्वि प्रत्ययस्वारस्यात्पूर्वं भेदो मुक्तौ त्वभेद इति पूर्वपक्षविवक्षया अनु व्याख्यानस्य प्रवृत्तत्वेन विरोधाभावात् । इतीति सूत्रे पूर्वपक्षांशे शेषो क्तिः । श्रुतिस्तु 'गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु' ( मुं. ३-२-७. ) इति पूर्ववाक्येन सह व्याख्येया । तत्प्रकारस्तु-'गताः' मुक्ताः 'कलाः' प्राणादिपञ्चदशकलारूपाः देवताः अन्ये च 'प्रतिदेव तासु' देवताप्रतिबिम्बभूतासु प्रजासु 'प्रतिष्ठाः' स्थितिहेतवः सर्वे दे वाः मुक्ताः । 'कर्माणि' पुष्कराख्या कर्माभिमानिनी देवता मुक्ता । त था मुक्तो 'विज्ञानमय आत्मा' जीवश्चेत्येते सर्वे 'अव्यये' देहतोऽपि नाशशून्ये 'परे' परमात्मनि एकीभवन्ति । लक्षितलक्षणेऽप्यमुपचारो वा । तथा च परमात्मानं प्राप्य तस्मिन्नेव स्थिताः 'एकीभवन्ति' प्रा गिभिन्नमतयोऽधुनेश्वरेणैकमत्यं भवन्ति प्राप्नुवन्ति । एकविषयमति न्तो भवन्तीति यावत् । अथ वा—'प्रागीश्वरव्यक्तिस्थानापेक्षयाऽन्य त्रेतस्ततः स्थितास्तत्र श्वेतद्वीपादौ मिलिता भवन्ति' इति तत्त्वनिर्णय टीकायामुक्तः । तत्त्वप्रदीपे तु-'न हास्य कर्म क्षीयते' ( बृ. ३-४-१५. ) इति ज्ञानोत्तरकालीनकर्मणां फलतोऽक्षयत्वोक्तेर्ज्ञानोत्तरकृतकर्मभिः सह मुक्तजीवस्य परब्रह्मणि स्थितिस्तद्बुद्धिसारूप्यं चेह विवक्षित मित्युकम् । पूर्वपक्षी ह्येकीभवन्तीत्यस्य परब्रह्मीभवन्तीत्यैक्यमुच्यत इति मन्यते ॥ ( २ ) अथ सिद्धान्तांशं नञध्याहारेणाविभाग इति पदानुषङ्गाभि प्रायेण च व्याचष्टे—नेति ॥ नेश्वरस्य जगत्कारणत्वादिविरुद्धमित्य र्थः । कुत इत्यतो यतो 'नाविभागः' अभेदाभावः इति नञावृत्त्यवि भागपदानुषङ्गाभ्यां लब्धो हेतुर्योज्य इत्याशयेन परेण अभेदसाधकत योक्तस्य भोक्त्रापत्तेरिति हेतोः व्यभिचारान्यथासिद्धयुक्तिपरतया स्या ल्लोकवदित्यंशमनूद्य व्याचष्टे—स्यादिति । आद्योऽपिर्यद्यपि तथाऽपीत्य र्थः । द्वितीयोऽपिशब्दो दृष्टान्तदार्ष्टान्तिकसमुच्चये । लोक इत्युदक इ ति चाधिकरणसप्तम्यौ, लोकशब्दोकस्य जनस्य वचनाधिकरणत्वा त्, उदकस्य चैक्याधिकरणत्वात् । लोकपदोक्तस्य जनस्य व्यवहार