पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 472, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - १४. ] दीपिकासहितम्. ४२५ ' कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभ- वन्ति ' ( मु. ३-२-७. ) इति मुक्तजीवस्य परापत्तिरु- च्यते । अतस्तयोरविभागः । अतः पूर्वमपि स एव । धः परिह्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तदुपन्यस्य पूर्वपक्षांशं तावद्व्याचष्टे—भोक्त्रापत्तेरिति ॥ भोक्त्रापत्तेरिति हेतोरसिद्धिपरिहा- राय तत्र श्रुतिमाह—कर्माणीति । इतीति एवं रूपाथर्वणश्रुतावित्यर्थः । भोक्त्रापत्तेरित्यस्य सुखदुःखभोक्तुः जीवस्य आपत्तेःपरमात्मत्वप्राप्तेः श्रु- तत्वाहित्यर्थमभिप्रेत्याह—मुक्तजीवस्येति । यद्यपि जीवस्येत्येव वक्तु- मुचितम् । तथाऽपि सूत्रे मुक्तावित्यध्याहर्तव्यपदलब्धार्थकथनमेतदि- त्यदोषः । 'उच्यते' श्रूयते । किञ्चात इत्यत आह—अत इति । मुक्त- जीवस्य परमात्मत्वप्राप्तिश्रवणादित्यर्थः । 'तयोः' मुक्तजीवेश्वरयोः 'अविभागः' अभेदः सिद्ध इति शेषः । यो यथा श्रूयते स तथेति व्या- प्तेरिति भावः । नन्वस्तु ब्रह्मणो मुक्तजीवाभेदः, तथाऽपि नास्माकं निष्टं संसारिण इव मुक्तस्य सर्वकर्तृत्वे प्रत्यक्षविरोधाभावेन पूर्वमस- तोऽपि जीवे कर्तृत्वस्य ज्ञानान्मुक्तेरिव मुक्तावुदयसम्भवेन मुक्ताभिन्न- स्यापि ब्रह्मणः कारणत्वसम्भवादित्यतः तदुत्तरत्वेनापि अविभाग इ- त्यंशं योजयति—अत इति । यतो मुक्तावीशाभिन्नो जीवः अतः 'पूर्वे' संसारेऽपि 'स एव' ईश्वराभिन्न एव, न तु भिन्न इत्यर्थः । न केवलं मुक्तौ, किन्तु पूर्वमपीति समुच्चयेऽपिशब्दः । ननु मुक्तावभेदेऽपि संसा- रे भेद एवास्तु च्विप्रत्ययस्वारस्यात् । तथा च मुक्तावभिन्नत्वादिति हेतुरप्रयोजक इत्यत आह—न हीति । पूर्वमिति वर्तते । तथा च 'हि' यतः 'पूर्वे' संसारे ब्रह्माभिन्नस्य मुक्तौ 'अन्यत्वं' तद्भेदो न युज्य- ते । अन्यथा पूर्वमन्यत्वादिति युक्तिविरोधस्यादिति भावः । अतः पूर्वमपि स एवेत्यनेनास्यान्वयः । एवं 'अन्यस्य' घटादिभिन्नस्य प- टादेः 'अन्यत्वं' अन्यभावो घटादित्वं 'न युज्यते' न दृश्यते हि ख- लु इति व्याप्तिप्रदर्शनपरत्वेनापि इदं भाष्यं व्याख्येयम् । पूर्वमप्यभेदे च्विप्रत्ययानुपपत्तिशङ्का तु मुक्तावेव भेदभ्रमनिवर्तकाभेदप्रतीत्यपेक्ष- या तदुपपत्तेरिति सुधायामेव परिहृता । न च कदाचिदन्यत्वस्य पू- र्वपक्षयुक्तित्वाभिधाने 'नान्यदन्यत्वमापन्नम्' इत्यनुव्याख्यानविरो- धः, तत्रास्य सिद्धान्तयुक्तित्वाभिधानादिति वाच्यम् । मुक्तौ संसारे च अभेदो, न मुक्तिमात्रे । कुतो ? न हीत्युक्तयुक्तेरित्युभयत्राभेदपूर्वप- ५४