पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 466, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - १२. ] दीपिकासहितम्. ४१९ दनिर्मोक्षप्रसङ्गः । (११) अतो यावत्प्रमाणसिद्धं तावदेवाङ्गीकर्तव्यं नातोऽ न्यदुच्छङ्क्यम् । स्कमन्यथानुमेयमिति पदद्वयं च संयोज्यमिति सूचितम् । तथा च प्रतितर्कपराहतत्वेन सर्वतर्कस्याप्यप्रमाणत्वात् न तेन साधनं बाधनं वा युक्तमिति यत्पूर्वपक्षिणोक्तं, तन्न, कुतः ? एवं सत्यागमाप्रामाण्यवा- दिनं प्रत्यवश्यमुपन्यसनीयेन अनुमानप्रमाणेन सत्त्वेन नित्यत्वेन च सिद्धे 'मोक्षे' तद्विषये प्रामाणिकातीन्द्रियार्थमात्रेऽपि चार्वाकादिभि- रास्तिकोक्तान्मोक्षास्तित्वनित्यत्वादिरूपार्थान् 'अन्यथानुमेयत्वात्' अनुमातुं शक्यत्वात्, अतएव मोक्षाद्यलौकिकार्थविषयानुमानस्य अ- न्यथाऽप्रमाणत्वेन अनुमेयत्वात् 'अनिर्मोक्षप्रसङ्गो' निरयमतिशयार्थो