पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 492, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - २१० ] दीपिकासहितम्. ४४५ इत्यादेस्साधनान्तरेण सृष्टिर्युक्ता । 'अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ' (महाना.१-११.) इत्यादिशब्दान्त- राच्च ॥ १९ ॥ (२६) सू—ॐ ॥ पटवच्च ॥ ॐ ॥ २० ॥ साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ २० ॥ (२७) सू—ॐ ॥ यथा प्राणादिः ॐ ॥ २१ ॥ ति सुधायामुक्तिः । यद्वा—अन्यशब्दः शब्दान्तरं 'अद्भ्यः सम्भूतः पृथिव्यै' (तै.आ.३-१३.) इति प्रागुदाहृतश्रुत्यपेक्षया अस्या अन्यत्वात्। अत एव सूत्रे भाष्ये च प्राचीनश्रुतिसङ्ग्रहार्थे शब्दान्तरशब्दः । न केव- लं युक्तेर्युक्तत्वेनागमसिद्धत्वात्, किन्तु 'अद्भ्यस्सम्भूतो हिरण्यगर्भः' इत्यादिशब्दान्तरादपीति चशब्दार्थः । शब्दान्तरबोध्यश्रुत्योः समुच्चय एव चशब्दः । आदिशब्देनैवंजातीयकवाक्यं गृह्यते । नारायpatha? के श्रुतमिदं—हिरण्यगर्भः 'अद्भ्यः' अद्भिः अवाद्युपलक्षितपञ्चमहाभू- तैः 'सम्भूतः' उत्पन्नः 'इति' एवं 'अष्टौ' इन्द्रादिलोकपालाश्च सम्भू- ता इति तत्त्वप्रदीपदिशाश्रुत्यर्थः । तैत्तिरीये 'अष्टौ पुत्रासोऽदितेः' (तै.आ.१-१३.) इत्युक्त्वा 'मित्रश्च वरुणश्च धाता चार्यमा चांशुश्च भग श्चेन्द्रश्च विवस्वांश्च' (तै.आ.१-१३.) इति ये अष्टावन्ये गृहीतास्ते वाऽत्र ग्राह्याः । अनेन—न विष्णोर्महिमाधिक्यलाभाय प्रलये अवरसाधना- सत्त्वमुपेयम्, किन्तु तत्सत्त्वमेव । कुतः ? साधनाऽसत्त्वमन्तरा लीलया दण्डमवष्टभ्य गमनवत्साधनान्तरेण सृष्टेरपि युक्तेर्युक्तत्वाद्भगवन्महि- माविरोधित्वेनागमसिद्धत्वात् 'अद्भ्यः' इत्यादिशब्दात् शब्दान्तराच्च तत्सत्त्वपक्षाग्रह इति सूत्रार्थ उक्तो भवति ॥ (२६) न केवलं श्रुतिसिद्धत्वात्, किन्तु साधनसत्त्वस्य युक्तिसि- द्धत्वाच्च तत्राग्रह इत्याह सूत्रकृत्—पटवच्चेति ॥ अत्र पटपदं सम्प्रति- पन्नकार्यपरं सत्तत्सृष्टिलक्षकमित्याशयेन सूत्रं व्याचष्टे-साधनान्तरेणे- ति । कर्तृव्यतिरिक्तसाधनेनेत्यर्थः । दृष्टेत्यनेन दृष्टान्ते हेतुसाध्यसम्प- त्पत्तिरुक्ता । अनेन-न केवलं श्रुतेः, किन्तु विप्रतिपन्ना सृष्टिः कर्तृव्य- तिरिक्तसाधनसाध्या सृष्टित्वात्पटादिसृष्टिवदित्यनुमानाच्चावरस्य स- त्त्वं सिद्ध्यतीति सूत्रार्थ उक्तो भवति ॥ (२७) ननु तर्हि साध्ये स्वतन्त्रपदप्रवेशेन कर्तृव्यतिरिक्तस्वतन्त्र- साधनसिद्धिरपि स्यादित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे—य-