भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 493, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 493

४४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] तच्च साधनजातं तेनानुप्रविष्टमेव यथा शरीरेन्द्रियादि । ( २८ ) प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः। क्षोभयामास भगवान् सृष्ट्यर्थं जगतः प्रभुः ॥ इति कौर्मे ॥ २१ ॥ —: ✤ ✤ :— ७. अधिकरणम् ॥ ( १ ) जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तराद्विराक्रियते— थेति ॥ तच्चेति। प्रलये सदपीत्यर्थः। यत इत्यर्थे वा चशब्दः। ‘साधन जातं’ साधनसमूहः ‘तेन’ भगवता। न त्वननुप्रविष्टम् ‘यः प्राणे तिष्ठ न्’ (बृ. ५-७-१६.) इत्यादिश्रुतेरित्येवकारार्थः। अतो न स्वतन्त्रमिति वा क्यशेषः। अन्यथाऽनुप्रवेशवैयर्थ्यादिति भावः। प्राणपदस्य वाय्वर्थ तया प्रसिद्धत्वादादिपदार्थमाह—शरीरेति। आदिशब्देन प्राणो गृ ह्यते। सूत्रे प्राणस्य स्वशब्देन ग्रहणेऽपि तस्य ज्ञानादिकार्यसाधनत्वे नासिद्धत्वात्, सम्प्रतिपन्नसाधनस्यैवेह दृष्टान्तत्वेन ग्राह्यत्वात्, शरीरे न्द्रिययोश्च तथात्वेन सिद्धत्वात् इन्द्रियाणां करणत्वेन तद्विवक्षया भाष्ये शरीरेन्द्रिययोः स्वशब्देन ग्रहणं कृतमिति ध्येयम्। अनेन— विप्रतिपन्नं साधनजातं न स्वतन्त्रं, प्रेरणार्थमीश्वरेणानुप्रविष्टत्वात्, यथा शरीरेन्द्रियप्राणादिरिति सूत्रार्थ उक्तो भवति। पूर्ववादुपन्यस्ता नुमानं तु प्रबळैतदनुमानविरुद्धत्वान्न साधकमिति भावः ॥ ( २७ ) साधनानां भगवदनुप्रविष्टत्वमेव कुत इत्यत आह—प्रकृति मिति ॥ चः समुच्चये। ‘प्रभुः’ समर्थः। ‘पुरुषोत्तमः’ भगवान् ‘प्र कृतिं’ प्रकृत्यवन्तराभिमानिनीं सरस्वतीं ‘पुरुषं’ चतुर्मुखं, यद्वा— ‘प्रकृतिं’ जडात्मिकां ‘पुरुषं’ जीवम्। अथ वा—स्त्रीपुरुषाख्यमिथु नं प्रविश्यैव जगतः सृष्ट्यर्थं तौ ‘क्षोभयामास’ सृष्टावुन्मुखीचकारे त्यर्थः। इति कौर्मे उक्तत्वादिति शेषः। अस्य साधनजातमिति पूर्वे वाक्येनान्वयः ॥ ६ ॥ इति आरम्भणाधिकरणम् ॥ —: ✤ :— ७. अधिकरणम् ॥ ( १ ) एतदधिकरणार्थमाह—जीवेति ॥ ननु समयपादे ‘अन्य थाऽनुमितौ च’ इत्यत्र जीवानामेव जगत्कर्तृत्वमिति सिद्धान्तस्य नि