भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 494, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 494

[ अधि - ७. सू - २२. ] दीपिकासहितम्. ४४७ (२) सू— ॐ ॥ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः॥ॐ॥२२॥ जीवकर्तृकपक्षे हिताकरणमहितकरणं च न स्यात् ॥ २२ ॥ राकरिष्यमाणत्वात्तेन गतार्थमेतदित्यत उक्तम्—श्रुतिप्राप्त इति । 'जी वाद्भवन्ति' इति श्रुत्याऽऽपाततः प्राप्त इत्यर्थः । तथा चात्र श्रुतिमूलयु क्तिसिद्धो जीवकर्तृत्वपक्षो निराक्रियते, उत्तरत्र तु समयप्राप्त इति भे द इति न गतार्थतेति भावः। श्रुतिप्राप्त इत्युपलक्षणं—साङ्ख्यानुभवप्राप्त श्चेत्यपि द्रष्टव्यम् । तथाऽपि 'एतेन शिष्टा' इत्यत्रास्य पक्षस्य निराकृत त्वात्तेन गतार्थतेत्यत आह—विस्तरादिति । तथा च पूर्वत्र संक्षेपतो निरस्तोऽपि अत्र विस्तरान्निराक्रियत इति न गतार्थतेति भावः ॥ (२) लोके घटादिकार्येषु जीवस्यैव कर्तृत्वेन अनुभवसिद्धत्वा ल्लाघवात्तस्यैव समस्तजगत्कर्तृत्वौचित्यात् 'जीवाद्भवन्ति' इति श्रु त्यानुकूल्याच्च जीवस्यैव स्वतन्त्रकर्तृत्वात्न विष्णोर्जगत्कर्तृत्वमिति प्रा प्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—इतरेति ॥ जीवेति । ईश्वर ए व नास्ति सर्वत्र जीवः स्वतन्त्रकर्तेति जीवस्य स्वतन्त्रकर्तृत्वपक्ष इ त्यर्थः । समस्तकार्येष्विति शेषः । अनेन 'इतरव्यपदेशात्' इत्यस्य तात्पर्यतो व्याख्यानं कृतं भवति । न चैवं न हि अत्राधिकरणे पूर्वप क्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम्, किन्तु घटादिक र्तृत्वं तावदनुभवसिद्धत्वात् कुलालादीनां वक्तुं शक्यम्, तत्रेश्वरस्या पि कर्तृत्वाङ्गीकारे कल्पनागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमि ति सुधाविरोधः । घटादिकार्येष्विव महदादिकार्येष्वप्यदृष्टद्वारा जी व एव कर्ता नेश्वरः, तस्याप्रामाणिकत्वात्तादृशस्य कल्पने च कल्पना गौरवप्रसङ्गादित्याशयेनात्र पूर्वपक्षप्रवृत्तेः । सुधायां तु अस्तु वा ईश्व रः प्रामाणिकः । तथाऽपि न तस्य सकलकार्यकर्तृत्वं, किं तु महदा दिकार्यकर्तृत्वमेव, न घटादिकर्तृत्वमपि, उभयत्रापि कर्तृत्वाङ्गीकारे कल्पनागौरवप्रसङ्गादित्यभ्युपगमवादेन पूर्वपक्षस्य प्रवृत्तत्वेन विरोधा भावात् । हिताकरणादीत्यनेन नञ्शिरस्केनावृत्तेन भिन्नपदेन ज्ञापि तं साक्षादापाद्यं दर्शयति—हितेति । आदिशब्दार्थमाह—अहितेति । चः समुच्चये । हिताकरणादयो दोषाः प्रसज्येरन्निति तत्त्वप्रदीपोक्ते र्दोषान्तरोपलक्षणमेतत् । यद्वा—चशब्देनैव दुःखप्राप्तिसुखाप्राप्त्या [L