भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 500, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 500

[ अधि - ७. सू - २७. ] दीपिकासहितम्. ४५३ अयं च दोषो जीवकर्तृत्वपक्षे । एकेनाङ्गुलिमात्रेण प्रवर्तमानोऽपि पूर्णप्रवृत्तिस्स्यात् । न च तद्युज्यते, सा- मर्थ्यैकदेशदर्शनात् । ( १२ ) न चैकदेशेन, निरवयवत्वात् । 'अथ यस्स जीवः स नित्यो निरवयवो ज्ञाताऽज्ञाता सुखी दुःखी शरीरेन्द्रिय- स्थः' इति भाल्लवेयश्रुतिः । शब्दः । अनेन सूत्रे इतरव्यपदेशादिति चेत्तर्हि न केवलं हिताकरणा- दिदोषप्रसक्तिः, किन्तु कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वेति दोष- स्य च प्रसक्तिरिति प्रधानसूत्रगतापादकानुवृत्त्या चशब्दानुषङ्गेण च सूत्रयोजना कार्येति सूचितम् । यद्यपि जीवकर्तृत्वपक्षे इति प्रागुक्त- त्वादत्र न वाच्यम् । तथाऽपि बहुव्यवहितत्वात्तत्स्मारणाय पुनरुक्तिः। सूत्रे वाशब्देन किं जीवः सर्वकार्येषु सर्वसामर्थ्येन प्रवर्तते, उतांशेने- ति विकल्पमुखेन दोषापादनस्य सूचितत्वात्तदनुसारेणाद्यपक्षे कृत्स्न- प्रसक्तिरित्यनेनोक्तं दोषं विवृणोति—एकेनेति । सजातीयाङ्गुल्यन्तर- व्यावृत्त्यर्थमेतत् । विजातीयहस्तादिव्यावर्तनाय मात्रपदम् । प्रवर्तमा- नस्तृणादानादाविति शेषः । तेनापेरन्वयः । अल्पकार्येऽपीति वा न के- वलं सर्वाकारेण प्रवर्तमान इति वा अपेरर्थः । जीव इति बुद्ध्या विवे- केनात्र सम्बध्यते । 'पूर्णप्रवृत्तिः' पूर्णशक्त्या प्रवृत्तिमान् स्यादित्यर्थः । प्रसङ्गत्वद्योतनाय स्यादिति । न च स्यादेवमित्याह — न चेति । त- त्र पूर्णशक्त्याऽप्रवर्तनं कुत इत्यत आह—सामर्थ्येति । जीवस्य कार्ये- षु स्वरूपसामर्थ्यांशेन प्रवृत्त्यनुभवादित्यर्थः । तथा चापाद्याभ्युपगमे ऽनुभवविरोधः स्यादिति भावः ॥ ( १२ ) अथ द्वितीयपक्षमनूद्य दूषयति—न चेति ॥ नापि जीवः स्वसामर्थ्यैकदेशेन तत्तत्कार्येषु प्रवर्तेत इत्यर्थः । कुतो नेत्यतस्तत्र नि- रवयवत्वादिति हेतुमध्याहृत्य योजयति—निरवयवत्वादिति । निरंश- त्वादित्यर्थः । जीवस्येति शेषः। निरवयवत्वानङ्गीकारे बाधकोपन्यासा- य प्राप्तं निरवयवत्वशब्दकोप इत्यंशं तच्छ्रुत्युदाहरणेन विवृणोति— अथेति । अथेत्यतः प्राक् तदनङ्गीकार इति ग्राह्यम् । श्रुतिरित्त्यनन्तरं व्याकुप्यत इति शेषः । श्रुतावथेत्यर्थान्तरे । य एवंभूतः स जीव इत्यु- च्यते । 'सः' जीवो नित्यो निरवयव इत्यादिका योजना, तच्छब्दद्वय