भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 501, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 501

४५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] ( १३ ) न चोपाधिकृतांशः स एवांश उपहित इति, द्वित्वापे क्षत्वात् ॥ श्रवणात् । यो जीवः स नित्यः सः निरवयव इति सर्वत्र तच्छब्दान्व येन वा योजना । 'शरीरेन्द्रियस्थः' तदधिष्ठाता ॥ ( १३ ) ननु एकदेशेनेति द्वितीयपक्ष एवाश्रीयते । न च निरवयव त्वोक्तिविरोधः । अंशानामौपाधिकत्वाभ्युपगमात्, श्रुतेश्च स्वाभावि कांशनिषेधविषयत्वादित्याशङ्कयासम्बद्धोपाधेरंशकारकत्वे अतिप्रस ङ्गात् सम्बद्धस्यैव तत्त्वे वाच्ये उपाधिसम्बद्धत्वं किं समग्रजीवस्यो त तदंशस्येति विकल्प्य नाद्य इत्याह—न चेति ॥ उपाधिकृतांश इति बहुव्रीहिः । उपाधिकृतोऽम्शो यस्येति । उपहित इत्यावर्तते नेति च । तथा च यः श्रुत्युक्तः समग्र एव जीवः 'उपहितः' उपाधिना ग्रस्तः न त्वंश इति न । कुतो ? यतस्तर्हि स उपाधिकृताऽम्शो न भवेदिति योजना । सर्वस्य जीवस्योपाधिना ग्रस्तत्वेन पुनस्तस्य तत्कृतांशत्वा सम्भवादिति भावः । द्वितीयं निराकरोति—अंश इति । न चेत्यनुवर्त ते । 'अंश उपहितः' उपाधिना ग्रस्त इत्यपि पक्षो नेत्यर्थः । कुत इ त्यत आह—द्वित्वेति । उपाधिसम्बन्धार्थं स्वाभाविकांशद्वित्वस्या पेक्षितत्वादिति भावः । सर्वत्रोपहितानुपहितद्विरूपमपेक्ष्यैवोपाधेः प्र वृत्तेस्तदर्थं स्वाभाविकांशद्वयाभ्युपगमे निरंशत्वश्रुतिविरोधः । तस्या प्यौपाधिकत्वेऽनवस्था स्यादिति भावः । अनेन—किं जीवः सर्वकार्ये षु सर्वसामर्थ्येन प्रवर्तते ? उतांशेन ? नाद्यः, यतः 'कृत्स्नप्रसक्तिः' तथा सति जीवस्य सर्वत्रापि पूर्णशक्त्या प्रवृत्तिप्रसङ्गः । न द्वितीयः निरवयवत्वात् । अंशाङ्गीकारे च निरवयवत्वशब्दकोपो वेति निरंश त्वश्रुतिविरोधः स्यात् । तथा च कर्तृत्वस्य कृत्स्नैकदेशाभ्यां व्याप्त या व्यापकयोस्तयोर्निवृत्त्या व्याप्यं कर्तृत्वमपि जीवाद्यावर्तेत इति न जीवः स्वतन्त्रकर्तेति भावः । न च सामर्थ्यस्य विचित्रत्वेऽपि न जीवस्य निरवयवत्वोक्तिर्विरुध्यते । तस्य तद्भिन्नत्वादिति वाच्यम् । तत्सामर्थ्यस्य तदभिन्नत्वात् । उक्तं हि सुधायाम्—न हि सामर्थ्याप रपर्यायं कर्तृत्वं जीवाद्भिन्नमिति । एवं जीवस्योपाधिकृतांशाभ्युपगमे 'कृत्स्नप्रसक्तिः' उपाधेः सर्वजीवसम्बन्धः स्यात् । तथा चोपाधिना ग्रस्तस्योपाधिकृतांशस्य च भेदो न स्यात् । अंशसम्बन्धेऽपि निरव यवत्वश्रुतिविरोध इति द्वेधा सूत्रवृत्तिर्दर्शिता भवति । यद्यपि कृत्स्न