भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 502, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 502

[ अधि - ८. सू - २८. ] दीपिकासहितम्. ४५५ (१४) न चान्यत्कल्प्यम् । 'यद्धि युक्त्या विरुद्ध्येत तदीश कृतमेव हि' इति गत्यन्तरोक्तेः ॥ २७ ॥ -::-- ८. अधिकरणम् ॥ (१) सू-ॐ ॥ श्रुतेस्तु शब्दमूलत्वात् ॥ ॐ ॥ २८ ॥ प्रसक्त्यादिदोषोऽप्यादिशब्देन ग्रहीतुं शक्यत इति नेदं सूत्रं पृथक्कर्त व्यम् । तथाऽपि हिताक्रियादिदोषापेक्षया बहूपपत्त्या निराकार्यत्वात् पृथक्करणं युक्तम् । अत एव भाष्ये न चेत्यादिग्रन्थः प्रवृत्तः ॥ (१४) तर्हि एतज्जीवस्य कर्तृत्वं युक्तिविरुद्धत्वादविचारितरमणी याविद्यानिमित्तमस्तु इत्यत आह— न चेति ॥ 'अन्यत्' अनिर्वाच्या विद्यानिमित्तं जीवकर्तृत्वं न कल्प्यमेवेत्यर्थः अप्रामाणिकत्वात्तेन नि र्वाहाभावाच्चेति भावः । तर्हि युक्तिविरोधपरिहारोपायाभावान्न जीव- कर्तृत्वमित्यत आह— यद्धीति । आद्यो हिशब्दो वस्तुनः प्रतीतत्वमा ह । द्वितीयोऽस्यार्थस्य न्यायसिद्धतां वक्ति । तथा च यत्प्रतीतमपि गु णादिकं वस्तु युक्त्या 'विरुद्ध्येत' विरुद्ध्यते । 'तदीशकृतं' ईशाधी नमेव कल्प्यम्, न त्वप्रामाणिकाविद्यानिमित्तमित्यर्थः । इतीति । इति न्यायसूचकवचनेनेत्यर्थः । गत्यन्तरोक्तेरिति । अन्या गतिर्गत्यन्तरम् । तथा च जीवकर्तृत्वे प्रमिते तत्र युक्तिविरोधपरिहारस्य ईश्वराधीन त्वाख्योपायान्तरोक्तेरित्यर्थः । उक्तेरित्यस्य न चेत्यनेनान्वयः । न चे श्वराधीनत्वमात्रेण कथं जीवकर्तृत्वस्य युक्तिविरुद्धतापरिहार इ ति वाच्यम् । तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकः चै तन्यमवच्छेदकं विधाय विशेषान्निमित्तीकृत्य विरुद्धेऽप्यभेदबहुत्वे एक त्र समावेश्याभेदेन निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रस क्तिं न्यक्कृत्य जीवस्य कार्यानुरूपसामर्थ्यविशेषं योजयन् जीवेन का र्यं करोतीति सुधारीत्येति गृहाण ॥ ७ ॥ इति इतरव्यपदेशाधिकरणम् ॥ -::-- ८. अधिकरणम् ॥ (१) अत्राधिकरणे विष्णोः सर्वकर्तृत्वे प्रबलयुक्तिविरोधः परि ह्रियते । जीवकर्तृत्वपक्षे ये कृत्स्नप्रसक्त्यादयो दोषाः उक्ताः ते ई श्वरपक्षेऽपि समाः तत्र विशेषादर्शनादतो न तस्य जगत्कर्तृत्वं युक्तमि