पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 511, कुल 1267 में से
संदर्भ में पढ़ेंरोधः परिह्रियते । सयुक्तिकं पूर्वपक्षयति—यदिति ॥ अत्र यच्छब्दो यद्यर्थे । यः पर इतिवत् किंशब्दार्थे च । तदूनत्वादिति तच्छब्दोऽपि बुद्ध्या विविक्तः तर्हीत्यर्थे भवति । विष्णोः स्यादिति शेषः । तथा च यदि ‘प्रयोजनार्थे’ तदुद्देशेन विष्णोः ‘सृष्ट्यादिः’ जगत्सर्जनाविषय- क प्रवृत्तिरङ्गीकृता स्यात्, तर्हि ‘तदूनत्वात्’ सृष्ट्यादेः पूर्वं तेन भा- विना प्रयोजनेन ‘ऊनत्वात्’ तद्रहितत्वात् ‘अपूर्णता’ अनाप्तकाम- त्वं स्यात्, ततश्च अपूर्णता अपालकत्वं च स्यात् । पालकत्वोपलक्षितं सर्वकर्तृत्वं न स्याद्यज्ञदत्तवदित्येका योजना । एवं सृष्ट्यादीरीश्वरस्य यत्प्रयोजनार्थं किं प्रयोजनार्थं, न किञ्चित्प्रयोजनायेति यदि, तर्हि ‘तदू- नत्वात्’ प्रवृत्तिमात्रेणैवोनत्वात् ‘अपूर्णता’ न सर्वकर्तृत्वं स्यात् इत्य- परा योजना । तथा चोभयथाऽपि प्रवृत्त्ययोगात् प्रकारान्तरस्य चा- भावान्न विष्णोर्जगत्कर्तृत्वं युक्तमिति भावः ॥ ( २ ) एवं प्राप्ते फलानुद्देशेनैव प्रवृत्तिरिति द्वितीयपक्षावलम्बनेन सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इत्यादिना वाक्येन कृ- तकृत्यत्वावगमान् न प्रयोजनाय सृष्टिः परमेश्वरस्येति योजना । इत्या- दिनेत्यनेनासिद्धिः परिहृता । कृतकृत्यत्वादित्यनेन प्रयोजनवत्त्वादित्य- स्य नेत्यादिना च न प्रयोजनवत्त्वादित्यस्य विभक्तिविपरिणामेन व्या- ख्यानं कृतं भवति । परमेश्वरस्येत्यनुकर्षसिद्धत्वात् अनुक्तिः । आ- दिशब्देन ‘निरनिष्टः सत्यकामः’ इत्यादिकं गृह्यते । न च श्रुतेरेव सा- क्षात्प्राप्तव्यत्वापरपर्यायकृतकृत्यत्वसाधकत्वे टीकायां पूर्णानन्दत्वेन तत्साधनानुपपत्तिरिति वाच्यम् । पूर्णानन्दत्वेनेति टीकायाः पूर्णान- न्दत्वप्रतिपादकवाक्येनेत्यर्थाश्रयणात् । अतएव सुधायां—न कर्तृत्वे न प्रयोजनवत्त्वं साध्यं, कृतकृत्यत्वेन प्रयोजनाभावस्य निश्चितत्वात् । न चासिद्धो हेतुः । ‘अथैष एव परम आनन्दः’ ( बृ. ६-३-३३. ) ‘निरनिष्टो निरवद्यः’ ( ) इति श्रुतेरिति । श्रुतेरेव साक्षा- त्कृतकृत्यत्वबोधकतोच्यते । यद्वा—टीकानुसारात् इत्यादिना सिद्धेन पूर्णानन्दत्वेन कृतकृत्यत्वावगमादिति भाष्यान्वयः । अस्मिन् पक्षे सुधा