पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 510, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ९. सू - ३३. ] दीपिकासाहितम्. ४६३ पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल- [ क्रिया च ॥ ( श्वे. ६-८. ) इत्यादिश्रुतिभ्यः । ( ११ ) सर्वोपेता चेति सामान्यपरिहारेऽपि विशेषयुक्त्यर्थे पु- नराशङ्का ॥ ३२ ॥ ९. अधिकरणम् ॥ ( १ ) यत्प्रयोजनार्थं सृष्ट्यादिः तदूनत्वादपूर्णता इति । दिकं कथमीश्वरे घटते इत्यत आह—तमिति । ‘तं’ उक्तगुणं ‘अ- ग्र्यं’ सर्वश्रेष्ठं महान्तं पुरुषमाहुः कवयः अत उक्तं युक्तमित्यन्वयः । ‘तस्य’ हरेः ‘कार्यं’ प्रकृतिकार्यं ‘करणं’ पाण्यादीन्द्रियं नास्त्येवे- त्यर्थः । यद्वा—कार्यं प्राकृतं ग्रहणादिकं तथाविधं कारणं च नास्ती- त्यर्थः । ‘न तत्समश्च’ इत्यत्राद्यश्चशब्दोऽवधारणे अन्यस्तुशब्दार्थे । तथा च भगवत्सम एव न दृश्यते अधिकस्तु कुतः स्यादित्यर्थः । ‘अ- स्य’ हरेः शक्तिः ‘परा’ उत्कृष्टा ‘विविधा’ विचित्रा ‘स्वाभावि- की’ यावद्द्रव्यभाविनीति तथैव सुधोक्तेः । ज्ञानं च बलं च क्रिया च एतद्रूपेति च श्रूयत इत्यर्थः । यद्वा—अस्य ‘विविधा’ सर्वविषयी- णी परा च शक्तिः । श्रूयते ज्ञानं बलं क्रिया च श्रूयत इत्यर्थः । अस्येति भेदोक्तिस्तु विशेषबलाद्युज्यते ॥ ( ११ ) ननु ‘सर्वोपेता’ इति सूत्र एव विचित्राशेषशक्तिबलेन नि- खिलविरोधानां परिहृतत्वात्कथं पुनरधिकरणत्वादिति शङ्काऽवकाश इ- त्यत आह—सर्वेति ॥ सूत्रेणेति शेषः । सामान्येति । अप्यर्थेऽपीत्या- द्यर्थे । साधारण्येन सर्वविरोधानां परिहारे कृतेऽपीत्यर्थः । विशेषेति । विशेषतो ऽसाधारण्येन अस्यैव चोद्यस्य परिहारानुकूल युक्तिबोध- नेच्छया पुनः शङ्का दर्शितेत्यर्थः । अतएव सिद्धान्ते प्राकृतशरीराभा- वेऽपि चिदानन्दाद्यात्मकविग्रहवत्त्वादिरूपा, ‘अपाणिपादः’ इत्यादि प्रमाणविशेषरूपा वा शङ्कापरिहारोपायभूता विशेषयुक्तिः सूत्रकृता तदुक्तमित्यनेनोक्तेति भावः ॥ ८ ॥ इति श्रुतेस्तु शब्दमूलत्वादधिकरणम् ॥ :*:- ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ईश्वरस्य जगत्कर्तृत्वे निष्फलत्वादियुक्तिवि-