पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 509, कुल 1267 में से
संदर्भ में पढ़ें(१०) अपाणिपादो जवनो गृहीता पश्यत्यचक्षुस्स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरु [ षं महान्तम् ॥ (श्वे. ३-१९.) न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिक [ श्च दृश्यते । (१०) कुतो न युक्तमित्यतस्तत्र हेतुत्वेन प्रवृत्तस्य यतस्तदुक्तमि त्यस्य परोक्तहेतोरप्रयोजकत्वमसिद्धिं च प्रदर्शयतो यतस्तस्यां श्रु तौ पाण्यादिविरहिणोऽपि हरेर्ग्रहणादिकमुक्त्वा ‘तस्य’ करणराहि त्यवचनस्य ‘तत्’ अप्राकृतविषयत्वं ‘उक्तं’ उपपादितं चेत्यर्थमभि प्रेत्य ननु साक्षादिममर्थं न काऽपि श्रुतिर्वक्ति, नाप्युपपादयति तत्क थमुच्यते तदुक्तमितीत्यसिद्धिशङ्कापरिहाराय सूत्रकृदभिप्रेताः श्रुती रुदाहरति-अपाणिपाद इति ॥ अपाणिपाद् इत्यारभ्य महान्तमित्यन्तमे कं वाक्यम् । ‘न तस्य’ इत्यन्यत् । ‘न तत्समः’ इत्यपरम् । ‘पराऽ स्ये’ इति इतरत् । वाक्यचतुष्टयं श्वेताश्वतरश्रुतिगतं ‘पराऽस्य’ इत्या थर्वणेऽपि श्रुतम् । आदिशब्देन एतज्जातीयकं शाखान्तरवाक्यं गृह्य ते । श्रुतिभ्य इति पञ्चमी तृतीयार्थे । तदुक्तमिति सौत्रपदमत्र सम्ब ध्यते । यत इति शेषः । अस्यातो न च युक्तमिति पूर्वेणान्वयः । तथा च ‘अपाणिपादः’ इति श्रुतौ पाण्यादिविरहिणोऽपि हरेर्ग्रहणाद्युक्त्या ऽर्थादप्राकृतपाणिपादादेरुक्तत्वात् ‘न तस्य कार्यम्’ इति श्रुत्या च पाण्यादिराहित्यस्य प्राकृतविषयत्वेनोपपादितत्वात् ‘न तत्समः’ इति वाक्येऽपि सर्वोत्तमत्वोक्त्या प्राकृतपाण्यादिरहितत्वस्योपपादितत्वा त् ‘पराऽस्य’ इत्यत्रापि परमशक्तित्वोक्त्याऽस्योपपादितत्वान्न तदु क्त्यभावो, नापि तदुपपादनाभाव इति भावः । सूत्रार्थस्तु स्पष्टः । श्रु तौ—स भगवान् ‘अपाणिपादः’ न विद्यते प्राकृतं पाणिपादं यस्य स तथोक्त इति प्राकृतभिन्नाप्राकृतपाण्यादिमानिति च त्रेधा व्याख्ये यः । एवमचक्षुरित्याद्यपि व्याख्येयम् । अत एव तत्तदिन्द्रियोचितक्रि याकर्तृत्वमाह—जवन इत्यादिना । अत्रापाणिर्गृहीता अपादो ‘जव नो’ वेगेनागन्ता अचक्षुः पश्यति अकर्णः शृणोति इति योजना । स इति द्विर्ग्रहणात्स इत्यस्य सर्वत्र सम्बन्धः सूचितः । ‘वेद्यं’ ज्ञातव्यं सर्वं भूतं भवत् भविष्यच्च ‘वेत्ति’ जानाति । ‘तस्य’ हरेः कश्चन को ऽपि ‘वेत्ता’ ज्ञाता नास्तीत्यर्थः । नन्वन्यत्रादृष्टमपाण्यादेः गृहीतृत्वा