पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 508, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - ३२. ] दीपिकासहितम्. ४६१ सर्वैर्युक्ता शक्तिभिर्देवता सा परेति यां प्राहुरजस्रश[क्तिम् । नित्यानन्दा नित्यरूपाऽजरा च या शाश्वतात्मेति च [ यां वदन्ति ॥ इति चतुर्वेदशिखायाम् । अतो न केवलं विचित्रशक्तिः, किन्तु सर्वशक्तिरेव ॥ ३१ ॥ ( ९ ) सू- ॐ ॥ विकरणत्वान्नेति चेत्तदुक्तम् ॥ ॐ ॥ ३२ ॥ न च करणाभावादनुपपत्तिरिति युक्तम् । पन्यस्य व्याचष्टे—सर्वैति ॥ चतुर्वेदशिखायामुक्तमिति शेषः । ततः किमित्यत आह—अत इति । उक्तत्वादित्यर्थः । अनेन तद्दर्शनादिति हेत्वंशस्य तस्यां श्रुतौ तथोक्तत्वादित्यर्थ उक्तो भवति । न केवल मित्यनेन सूत्रस्थशब्दः समुच्चयार्थतया व्याख्यातः । सर्वशक्तिरिति । सर्वदा सर्वविषयीणी सर्वकालिका शक्तिर्यस्याः सा तथोक्ता । अनेन सर्वोपेतेति साध्यभागो व्याकृतो भवति । एवेति चशब्दस्यार्थान्तरो क्तिः।सा परमात्माख्यदेवतेति शेषः । न त्वसर्वशक्तिर्नापि कदाचिद्भ्रष्टश क्तिरित्यार्थः । अतः शक्त्या युक्तित्त्वविरोधपरिहारो युक्त इति भा वः । स्पष्टः सूत्रार्थः । स्त्रीलिङ्गप्रयोगस्तु श्रुत्यनुसारेण । कवयो ' या मजस्रशक्तिं ' नित्यशक्तियुतां प्राहुः । यां च 'शाश्वतात्मेति' निर्वि कारस्वरूपिणीति वदन्ति । या च 'नित्यानन्दा' बहुव्रीहिरियम् । 'नि त्यरूपा' नित्याऽऽकृतिरित्यपि तद्वदेव । न विद्यते जरा यस्याः सा त थोक्ता ' सा परा देवता' परमात्माख्या देवता, सा ' सर्वैः शक्तिभिः' लिङ्गव्यत्ययः । सर्वविषयीणिभिः सार्वकालिकाभिः शक्तिभिर्युक्तेति श्रुत्यर्थः विषयबाहुल्याच्छक्तिभिरिति बहुवचनम् ॥ ( ९ ) विष्णोर्जगत्कारणत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्या चष्टे—विकरणत्वादिति ॥ न चेत्यारभ्य युक्तमित्यन्तेन आक्षेपांशो वि वृतः । चः समुच्चये, एतच्छङ्कापरिहारसमुच्चितस्यैवोक्तन्यायस्य सा ध्यसाधकत्वात् । ईश्वरस्य करणाभावादित्यनेन विकरणत्वादित्यस्य विगतं करणं यस्मादिति विग्रहेण फलितार्थ उक्तो भवति । करणमि न्द्रियं करादि । अनुपपत्तिः । जगत्कर्तृत्वस्येति । अनेन नेत्यस्य सा ध्यसमर्पकस्य पूर्वपक्षांशे न च युक्तमित्यनेन सिद्धान्तांशे च आवृत्त्या ऽन्वयः सूचितः ॥