पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 515, कुल 1267 में से
संदर्भ में पढ़ें४६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ] (मां. २-९.) इति च श्रुतिः ॥ ३४ ॥ —: * :— १०. अधिकरणम् ॥ ( १ ) सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येति । ( २ ) अतो वक्ति— सू—ॐ ॥ वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ ॐ ॥ ३५ ॥ कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये । सा च क्रीडा स्वभावोऽस्य कुतोऽतृप्तस्य स्पृहा विभोः ॥ [ इति ॥ ९ ॥ इति नप्रयोजनाधिकरणम् ॥ —::*— १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पूर्वोक्तपरप्रयोजनरूपफलविषययुक्तिविरोधः परिह्रियते । सयुक्तिकं पूर्वपक्षयति—सर्वैति ॥ परप्रयोजनाय कर्मान पेक्ष्येति शेषः । तथा च ' तस्य ' ईश्वरस्य परप्रयोजनाय कर्मानपेक्ष या सर्वजगतकर्तृत्वेऽङ्गीकृते वैषम्यनैर्घृण्ये स्यातामित्यर्थः । अयं भा वः—परप्रयोजनाय पारमेश्वरी सृष्टिरिति पूर्वोक्तमयुक्तं, स किं कर्मा नपेक्षया परप्रयोजनाय सृष्टिं करोति ? उत तदपेक्षया । नाद्यः, तथा सति सर्वेऽपि सर्वदा सुखिनः स्युः, न तु कदाचित्केचित् सुखिनः के चित् दुःखिनः । अन्यथा निर्निमित्तमीश्वरः कांश्चित्सुखयन् कांश्चिद्दुः खयन्निरये पतितानतिविह्वलानाक्रन्दतोऽनन्यनाथानुदिधीर्षुर्विषमो निर्दयश्च स्यात् । कर्मबोधकवेदाप्रामाण्यं च स्यात् । न द्वितीयः, अ स्वातन्त्र्यापत्तेः । तथाच उभयथाऽपि दोषित्वान्नेश्वरस्य सर्वकर्तृ त्वं युक्तमिति ॥ ( २ ) एवं प्राप्ते सिद्धान्तयत्सूत्रमवतार्यव्याचष्टे—अत इति ॥ फ लेति । सुखदुःखरूपेष्टानिष्टाख्यफलदातृत्वादित्यर्थः । अनेन सापेक्ष त्वादिति सौत्रहेतोस्तात्पर्यमुक्तं भवति । फलदाने कर्मापेक्षासहितत्वा दित्यक्षरार्थः । तस्येश्वरस्येति हेतुसाध्ययोरन्वेति । वैषम्यनैर्घृण्ये इति। कर्मादिकमनपेक्ष्य निर्निमित्तं विभागेन ईश्वरस्य सुखदुःखप्रदत्वे कर्मा देः सुखदुःखसाधनत्वप्रतिपादकज्योतिष्टोमेनेत्यादि वेदाप्रामाण्यापाद कतया दोषभूते ये वैषम्यनैर्घृण्ये प्रसक्ते ते न स्त इत्यर्थः । अनेन साध्यांशो