पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 516, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - ३६. ] दीपिकासहितम्. ४६९ 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' ( प्र. ३-७. ) इति हि श्रुतिः ॥ ३५ ॥ ( ३ ) सू— ॐ ॥ न कर्माविभागादिति चेन्नानादित्वात् ॥ ॐ ॥ ३६ ॥ यदपेक्ष्याऽसौ फलं ददाति न तत्कर्म 'एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमधो निनीषते' ( कौ. ३-८. ) इतिश्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेत्— व्याख्यातः। हेत्वसिद्धिपरिहारकतया तथाहीति सूत्रांशं व्याचष्टे—पुण्ये- नेति। इति हि श्रुतिरिति। हिशब्दो यत इत्यर्थे। अतः न हेत्वसिद्धिरिति वा- क्यशेषः। अस्य हेतुवाक्येनान्वयः। षट्प्रश्नश्रुतिरियम्। अत्र जीवमीश्वर इति शेषः। तथा चेश्वरः 'पुण्येन' जीवपुण्यं निमित्तीकृत्य 'पुण्यं लो- कं' पुण्यसाध्यं स्वर्गादिलोकं 'नयति' प्रापयति जीवमित्यर्थः। एवं ज्ञानेन मोक्षमिति च द्रष्टव्यम्। पापेन 'पापं' नरकादिकं दुःखबहुल- लोकं नयति। 'उभाभ्यां' समप्रधानाभ्यां पुण्यपापाभ्यां समदुःखसु- खे मनुष्यलोकं नयति इति शिष्टश्रुत्यर्थः। यद्यपि षट्प्रश्नभाष्यटीकयो- रियं श्रुतिरुदानाख्यमुख्यवायुपरतया व्याख्याता। तथाऽपि परममु- ख्यवृत्त्या विष्णुपरत्वात् अत्रोदाहरणं युक्तम्। सूत्रं स्पष्टार्थम् ॥ ( ३ ) कर्मापेक्षया फलदातृत्वमाक्षिप्य समादधत्सूत्रमुपन्यस्यति— न कर्मेति॥ अत्र कर्मेति व्यस्तपदस्य नञाऽन्वयमभिप्रेत्याक्षेपांशं व्याच- ष्टे—यदपेक्ष्येति। 'असौ' ईश्वरो यदपेक्ष्या फलं ददातीत्युच्यते, त- दपेक्षणीयं कर्मैव नास्तीति प्रतिज्ञा विशिष्टप्रतिषेधपरा। नन्वस्ति पू- र्वकर्मैवेत्यतः—अविभागादित्युक्तं सूत्रे। तत् लोके विभक्ते अस्वतन्त्र इति प्रयोगदर्शनात्तदनुसारेण अस्वतन्त्रत्वादित्यर्थकतया व्याचष्टे— कर्मणोऽपि तन्निमित्तत्वादिति। पूर्वकर्मणोऽपि भगवदधीनत्वादित्यर्थः। दोषपरिहारायापेक्ष्यस्यापीत्यपेरर्थः। न केवलं फलस्येति वाऽर्थः। त- था च कर्मणोऽपि स्वाधीनत्वान्निमित्तं विषमाणां कर्मणां कारयि- तुः पुनर्वैषम्याद्यापातेन तत्परिहाराय तदपेक्षा सम्भवतीत्यपेक्ष्यं क- र्म नास्तीति भावः। अनेन कर्माविभागादिति समस्तपदं चेति सूचितं म्। न च हेत्वसिद्धिरित्याह—एष ह्येवेति। श्रुतेरिति। अस्य तन्नि- मित्तत्वावगमादित्यनेनान्वयः। तेनाविभागादित्यस्य अविभक्ततया प-