पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 531, कुल 1267 में से
संदर्भ में पढ़ें४८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( २ ) सू- ॐ ॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ॐ ॥ ६ ॥ ( ३ ) यस्य धर्माधर्मौ न स्तस्तत्सिद्धान्ते किं प्रयोजनम् । चार्वाकाचार्यस्य अयं लोकायतिकः स चासौ पक्षः सिद्धान्तश्च त मित्यर्थः । लोकायतेनाङ्गीकृत इति वा ॥ ( २ ) धर्माद्यतीन्द्रियपदार्थानां तत्साधकश्श्रुत्यादिप्रामाण्यस्य चा नभ्युपगमात्प्रमाणाभावेनेश्वरस्यैवाभावादान्तरेणापीश्वरं पूर्वपूर्वस्मा दुत्तरोत्तरवस्तूत्पत्तिसम्भवाच्च तस्य जगत्कारणत्वं युक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे-अभ्युपगम इति । न केवलं परोपपा दनेन किन्तु 'अभ्युपगमेऽपि' स्वसिद्धान्तेऽपि तद्रीत्यापि विषयप्रयोजन योरभावादनारम्भणीयमेव चार्वाकशास्त्रमिति सूत्रार्थः सुधायामुक्तः। चन्द्रिकायां तु पूर्वसूत्रान्नञोऽनुवृत्तिः। तथा च स्वकीयशास्त्रस्य सि द्धान्तत्वानभ्युपगमे सिद्धमस्मदिष्टम् । अभ्युपगमेऽपि तत्र तद्व्यापक योर्विषयप्रयोजनयोरभावाभ्युपगमात् व्याहतिः स्यादिति उभयथा पि न चार्वाकसिद्धान्तो युक्त इति सूत्रार्थ उक्तः । अत्र सुधापक्षे अ नपेक्षभवेदित्यस्यावृत्तिः । योजनाद्वयेऽप्यपिशब्दः समुच्चयार्थः विरोधसू चकश्चेति ध्येयम् ॥ ( ३ ) यस्येति॥ सिद्धान्त इत्याकृष्यते। धर्मो यागादिजन्यादृष्टम्। अध र्मस्तदन्यः स्वर्गादिः । यद्वा--अधर्मः पापं तत्साध्यो नरकश्च । अध र्मनिवृत्तिप्रयोजनकत्वस्यापि निराकरणार्थमधर्मग्रहणम् । धर्माधर्म पदाभ्यामतीन्द्रियमात्रमुपलक्ष्यते । सप्तमी षष्ठ्यर्थे । किमाक्षेपे । प्रयु ज्यते प्रवर्त्यते शास्त्रे अधिकार्यनेनेति व्युत्पत्त्या प्रयोजनशब्देन फल विषयौ गृह्येते । तथा च-'यस्य धर्माधर्मौ न स्तः' येन धर्माधर्मौ नाङ्गीकृतौ तस्य वादिनः सिद्धान्ते तेन सिद्धान्तत्वेनाभ्युपगतस्य शा स्त्रस्य किं प्रयोजनं ? न किमपि विषयादिकमङ्गीकृतमिति योजना । सिद्धान्तप्रयोजनपदाभ्यां सौत्राभ्युपगमार्थशब्दौ विवृतौ । ततः कि मित्यत आह-अत इति । स्वशास्त्रस्य सिद्धान्तत्वाभ्युपगमेऽपि तत्र तद्व्यापकयोर्विषयप्रयोजनयोरभावाङ्गीकारादित्यर्थः । ततोपि किमि त्यतो विरोधस्फोरकेण सौत्रापिशब्देन सूचितं हेतुं दर्शयति-स्वेति। यः सिद्धान्तः असौ प्रयोजनादिमानिति नियमात्सिद्धान्तत्वेन अङ्गी कृतशास्त्रस्य प्रयोजनाद्यभावमभ्युपगतवतो माता वन्ध्येतिवत्स्ववच नंविरुद्धवादित्वापातादित्यर्थः । न तत्र युक्त्यन्तरं वक्तव्यमित्येवश