पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 532, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - ७. ] दीपिकासहितम्. ४८५ र्थातः स्वव्याहतेरेवोपैक्ष्यः ॥ ६ ॥ ४. अधिकरणम् ॥ ( १ ) पुरुषोपसर्जनप्रकृतिकर्तृवादमपाकरोति— ( २ ) सू-ॐ ॥ पुरुषाश्मवदिति चेत्तथाऽपि ॥ ॐ ॥ ७ ॥ यथा चेतनसम्बन्धादचेतनमेव शरीरमश्मादिकमा ब्दार्थः । ततः किमित्यतः सूत्रेऽपेक्ष्य इति बुद्ध्या विविच्यानुवृत्तपदेन मञ्जनुवृत्त्या वा लब्धसाध्यं दर्शयति—उपेक्ष्य इति । स इति विपरि णामेनानुवर्तते । एवकारोऽत्रापि सम्बध्यते । तथा च स चार्वाकः त त्सिद्धान्तो वा उपेक्ष्य एव न त्वादरणीयः परिहारायाक्षिप्तो वा । अ तो न तद्विरोधो विष्णुजगतकारणत्वस्येत्यर्थः ॥ ३ ॥ इति अभ्युपगमाधिकरणम् ॥ :-*-: ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति—पुरुषेति ॥ पुरुषश्चेतनः प्रकृतिरचेतना । कर्तृरिति भावप्रधानम् । उच्यते अर्थोऽत्रेति वादो मत म् । तथा चात्राधिकरणे निरीश्वरसाङ्ख्यैकदेशिनां चेतनोपसर्जनका- चेतनप्रकृतिकर्तृत्ववादिनां मतं निराकरोति सूत्रकारदित्यर्थः ॥ ( २ ) पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं ताव द्व्याचष्टे—पुरुषेति ॥ चेतनसम्बन्धाज्जीवसन्निधानादित्यनेन सूत्रे पु रुषपदं जीवसम्बद्धशरीरपरमित्युक्तं भवति । एवकारः शरीरमेवेत्य न्वेति । न तु चेतनमपीत्येवार्थः । अश्मा पाषाणः । आदिशब्दादार्वादि ग्रहः । ‘आदाय’ तदर्थे प्रवर्तते तत् प्रगृह्य च ‘गच्छति’ गन्तुं प्रवृ र्तत इति । अनेन अश्मपदं लक्षणया तदादानादिविषयप्रवृत्तिपरमित्युक्तं भवति । दृष्टान्तवाक्येन सूचितं दार्ष्टान्तिकं दर्शयति-- एवमिति । अ पिशब्दो यद्यपीत्याद्यर्थे प्रकृतिरपीति समुच्चये च प्रकृतिरेव न ट्वीश्व र इत्यवधारणे वा । अचेतनमचेतनेतिहेतुगर्भविशेषणाभ्यां सिद्धा न्त्युक्ताचेतनत्वहेतोः पक्षविपक्षवृत्तित्वोक्त्या तस्य व्यभिचारः, प्रधा नं चेतनसन्निधानात्स्वतः प्रवृत्तिमत् अचेतनत्वात् शरीरवदिति अ नुमानरूपप्रतिपक्षश्चोक्तो भवति । तथा च प्रधानादेव जगदुत्पत्तावी श्वरवैयर्थ्यान्नासावस्ति । तदभावे च तस्य जगत्कारणत्वं नास्त्येव ।