पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 534, कुल 1267 में से
संदर्भ में पढ़ें‘अङ्गमङ्गी समादाय यथा कार्यं करोत्यसौ’ इत्यङ्गित्वव्यवहारोऽनुपपन्नः ॥ ८ ॥ —-::-— ५. अधिकरणम्॥ (१) प्रकृत्युपसर्जनपुरुषकर्तृत्ववादमपाकरोति— सू—ॐ ॥ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगत् ॥ ॐ ॥ ९ ॥ (२) शरीरसम्बन्धात्पुरुषः प्रवर्तेत इत्यङ्गीकारेऽपि स्वत नित्यनेन तथापीत्यनुषक्तांशो विवृतः । तथा च यस्मात्पुरुषसंवलित शरीरस्यैव स्वतः प्रवृत्तावुच्यमानायां पुरुषस्याङ्गत्वार्दप्रधानत्वावश्यं भावादङ्कमितिस्मृतौ पुरुषस्याङ्गित्वव्यवहारः शरीरं प्रति प्राधान्यव्य पदेशोऽनुपपन्नः स्यात् । एवं दार्ष्टान्तिकेऽपि पुरुषस्य प्रधानाङ्गत्वोप त्याङ्गित्वव्यवहारानुपपत्तिरित्यर्थः । अस्य हेतोस्तस्मादपि न शरीर स्य स्वतः प्रवृत्त्यङ्गीकारो युज्यत इति विपर्ययपर्यवसानलब्धसाध्य द्वाराऽऽदृशब्दाध्याहारेण दृष्टान्ताभावादिति पूर्वहेतुनान्वयः । एवं सौ त्रहेतोर्न शारीरस्य स्वतः प्रवृत्तिर्न वा प्रधानस्य । कुतः ? पुरुषस्या ङ्गित्वव्यवहारानुपपत्तेः । शरीरप्रधानयोरङ्गित्वानुपपत्तेश्च इत्यध्याहृ तसाध्यमुखेन तथा दृष्टान्ताभावो बाधश्चेति पूर्वसाध्येनान्वयो द्रष्ट व्यः । वादिनो हेतुकत्वे नोक्तश्रुतावविश्वासात्स्यैकस्यैव हेतुत्वा त्सूत्रे चशब्दाभावः । स्मृत्यर्थस्तु—अङ्गी प्रधानः पुरुषोऽङ्गं गुणभूतं शरीरं सङ्गृह्य यथाऽश्माचानयनादि कार्यं करोति तथाऽसौ भगवान पि प्रकृतिमादाय महदादिकार्यं करोतीति ॥ ४ ॥ ॥ इति पुरुषाश्माधिकरणम् ॥ —**— ५. अधिकरणम् ॥ (१) अधिकरणार्थं दर्शयति—प्रकृतीति ॥ प्रधानोपसर्जनकचेत नकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां वादं मतमस्मिन्नधिकरणे निराकरोति सूत्रकृदित्यर्थः ॥ (२) सूत्रे पुरुषाश्मवदिति चेदित्युक्तादन्यथानुमितौ चेति योज नामभिप्रेत्य तमंशं पूर्वपक्षपरतया व्याचष्टे—शरीरेति ॥ चेतनपद स्थाने शरीरपदस्य शरीरपदस्थाने पुरुषपदस्यैवमचेतनपदस्थाने पु रुषपदस्य पुरुषपदस्थाने प्रकृतिपदस्य प्रक्षेप्येण यथेत्यादिपूर्वभाष्य