भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 535, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 535

४८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] स्तस्यासामर्थ्याच्छरीरसम्बन्ध एवायुक्तः ॥ ९ ॥ (३) सू-ॐ॥ विप्रतिषेधाच्चासमञ्जसम् ॥ ॐ ॥ १० ॥ सकलश्रुतिस्मृतियुक्तिविरुद्धत्वानीश्वरमतमस [ मञ्जसम् । (४) श्रुतयः स्मृतयश्चैव युक्तयश्चेश्वरं परम् । मत्रापि संयोज्येदं व्याख्येयम् । 'प्रवर्तते' अश्माद्यादाने । इत्यङ्गीका रेऽपीति। एवमभ्युपगम्य साधनेऽपीत्यर्थः। अनेन विमता प्रवृत्तिरचेत नोपसर्जनपुरुषाधीना प्रवृत्तित्वादश्मानयनादिप्रवृत्तिवदिति पूर्वपक्ष साधकानुमानं सूचितम् । अपिशब्दो न केवलं पूर्ववाद्युक्तपक्ष इति समुच्चये । अनेन सौत्रचशब्दो व्याख्यातः । अपीत्यनन्तरं तथेतिपदं संयोज्यम् । दृष्टान्ते साध्याभाव इति तदर्थः । कुतोऽसावित्यतस्तत्र हेतुत्वेन चशब्दादाकृष्टमङ्गित्वानुपपत्तेरिति पदं व्याचष्टे— शरीरेति। तस्येत्युभयत्रान्वेति । शरीरसम्बन्ध इति सप्तम्यन्तं प्रथमान्तं च । त त्राद्यस्य तस्य जीवस्य शरीरसम्बन्धेऽप्यसामर्थ्यादित्यन्वयः । द्विती यस्य युक्तपदेनान्वयः । सुतरां शरीरसम्बन्धेन जीवस्याश्मानयनादि कार्ये प्रवृत्तिरित्थेवशब्दाथः । शरीरपदं प्रकृतेरप्युपलक्षकम् । कुतः ? शरीरसम्बन्धानुपपत्तिरित्यतस्तत्र हेतुत्वेन ज्ञशक्तिवियोगादित्यंशं अ सिद्धिपरिहाराय स्वतः पदाध्याहारेण व्याचष्टे—स्वत इति । स्वात न्त्र्येणेत्यर्थः। अनेन-अयथा पुरुषाश्मवदित्युकपक्षाद्वैपरीत्येन पुरुषाश्म वदचेतनसम्बन्धाच्चेतनं प्रवर्तत इत्येवं रूपेणानुमितावुनमानेऽपि तथा दृष्टान्ते साध्यवैकल्यम् । कुतः ? अङ्गित्वानुपपत्तेर्जीवस्याङ्‌गपदोक्तश रीरसम्बन्धित्वायोगात् । सोऽपि कुतः ? ज्ञशक्तिवियोगात् अङ्गसम्ब न्धेन ज्ञस्य ज्ञातुर्जीवस्य सामर्थ्यायोगादिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) एवं प्रत्येकं दूषितान्यनीश्वरमतानि सामान्यविशेषेणापि निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—विप्रतिषेधादिति ॥ श्रुतीत्यादिना विप्रतिषेधप्रतियोगिनो दर्शिताः । विरुद्धत्वादित्यनेन विप्रतिषेधशब्दा र्थ उक्तः । न केवलं उक्तयुक्तिविरुद्धत्वादिति चकारार्थः । अनीश्वरे ति । न विद्यते ईश्वरो यस्मिन्निति तत्तथोक्तम् । तच्च तन्मतं चेतिवि ग्रहः । अनीश्वराणां वादिनां मतमिति वा । मतमिति समुदायेकवच नम् । असमञ्जसमयुक्तमित्यर्थः ॥ .(४) कुतोऽनीश्वरमतानां श्रुत्यादिविरुद्धत्वमित्यत आह—श्रुतय

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 535, कुल 1267 में से · BharatKosha