पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 540, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १३. ] दीपिकासहितम्. ४९३ ( ६) सू- ॐ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३॥ कार्यकारणादीनां समवायसम्बन्धाङ्गीकारात्तस्य च ति-स्वत एवेति । योजना तु-नायं दोषोऽस्मत्पक्षे । कुतः? स्वतएव स्वसृ ष्ट्याद्युपाधिमन्तरेणैव अनित्ये काले सृष्टिकालादिविशेषोत्पत्त्यङ्गी कारात्तस्यैव निमित्तत्वात् । न चैवं परेण वक्तुं शक्यम् । अस्माभिः काले विशेषाणां सृष्टिकालादीनां स्वतएव स्वाभाविकत्वस्यैव अ भ्युपगमात् परेण तु सृष्ट्याद्युपाधिनिबन्धनत्वाभ्युपगतेरिति । न च का लस्य कार्यमात्रनिमित्तकारणत्वात्सृष्टिकालाद्युत्पत्त्यसम्भवः । अधिक रणतयैव कालस्य सर्वकार्यकारणत्वेन सृष्टिकालादिकार्ये चात्माश्रय प्रसङ्गेन तत्र तस्याधिकरणतया कारणत्वायोगादिति वाच्यम् । का लातिरिक्तकार्येष्वेव कालस्याधिकरणतया कारणत्वाभ्युपगमात् । का ले तु तथा कारणत्वानभ्युपगमात् । परन्तु - ईश्वरोद्देश्यत्वेनाधारः कालोऽपेक्षितः । स च सृज्य एव । ईश्वरोद्देशश्च स कालस्तदैव स्यां दित्येवंरूपः । इच्छाविषयत्वरूपोद्देश्यत्वं च न प्राक्सत्त्वापेक्षम् । न हि सृज्यस्य प्राक् सत्त्वमस्ति । एकस्यैवाधिकरणताधिकर्त्तव्यताच 'ईशोद्देशश्च कालश्च स्वगत एव' इति श्रुत्यादिसिद्धविशेषबलाच्चोपप द्यत इति न कश्चिद्दोषः । अथ वा-उभयथेत्यस्यादृष्टनित्यत्वेऽनित्यत्वे चेति व्याख्यानसम्भवाददृष्टस्य निमित्तत्वं ईश्वरेच्छाकालनिमित्तत्व निरासन्यायेन निरस्तमित्यभिप्रेत्य तद्दोषं स्वपक्षे परिहरति-स्वत एवे ति । काल इत्यावर्तते । अदृष्ट इति शेषः । तथा च नायमस्मत्पक्षे दो षः। कुतः? अस्माभिः काले प्रलयकाले सत्येवादृष्टे काले सृष्ट्यादिकाले एव समुद्बोधविशेषाभ्युपगमात् । न चैतदन्यमते सम्भवति । अस्मा भिः काले स्वत एव स्वाभाविकानामेव विशेषाणामङ्गीकारात् । परे ण च तदनङ्गीकारादिति योजना ॥ ( ६ ) एवं वैशेषिकादिपक्षे निमित्तकारणासम्भवं दर्शयित्वा सम वायिकारणमपि निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे-समवायेति ॥ अत्र कार्यकारणपदे अवयव्यवयवपरे । आदिपदेनानित्यगुणक्रियातद्वतां सङ्ग्रहः । अथ वा कार्यकारणपदेनैषां सङ्ग्रहः । आदिपदेन नित्यगुणगु णिजातिव्यक्तिविशेषविशेषिणां प्रसङ्गाद्ग्रहणम् । भिन्नत्वाङ्गीकारादि त्यपि सम्बध्यते । ल्यब्लोपनिमित्ता पञ्चमी । तथा च द्व्यणुकादिका