पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 541, कुल 1267 में से
संदर्भ में पढ़ें४९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] भिन्नत्वसाम्यात्समवायान्तरौपेक्षायामनवस्थितिः॥ १३ ॥ ( ७ ) न च तत्रप्रमाणम् । प्रथमसम्बन्धासिद्ध्यैव च तदसि- द्धिः । स्वनिर्वाहकत्वे समवाय एव न स्यात् ॥ १३ ॥ र्याणां परमाण्वादिकारणानां च परस्परभिन्नत्वमुपेत्य समवायसम्ब- न्धाङ्गीकारादित्यर्थः । अस्य हेतोः सूत्रे पूर्वस्मादनुषक्तेन नञान्वयः । न समवायाङ्गीकारो युक्तः । अत एव न समवायिकारणत्वं युक्तमित्य- र्थः । सम्बन्धेत्युक्त्या समवायशब्दस्य समावेशार्थत्वभ्रमो वारितः । अस्य तन्मतमसमञ्जसमित्यध्याहृतेनान्वयः । ननु भिन्नयोरवयवावय- विभावविशेषणविशेष्यभावोपपत्तये समवायसम्बन्धोऽङ्गीकार्य एव । अतस्तदभ्युपगमे को दोष इत्यतः प्रवृत्तं साम्यादनवस्थितेरित्यंशं सा- मर्थ्यप्रकारप्रदर्शनपूर्वकं व्याचष्टे—तस्य चेति । समवायस्यापीत्य- र्थः । न केवलं कार्यकारणादीनामित्यपेरर्थः । चशब्दस्साम्याच्चेति च सम्बध्यते । सूत्रे तु चकारो यथाश्रुतो भिन्नक्रमोपि हेतुसमुच्चयार्थः । अस्तु साम्यं, ततः को दोष इत्यत आह—समवायेति । तस्येत्येतदावृ- त्तं विपरिणतमत्रापि सम्बध्यते । तस्य समवायस्य ताभ्यां समवा- यिभ्यां भिन्नत्वसाम्यात् भिन्नस्य च तस्य विशेषणविशेष्यभावानुप- पत्तये ताभ्यां समवायसम्बन्धाङ्गीकारात् तस्यापि समवायान्तरस्य तेन समवायान्तरेण भिन्नत्वसाम्यात् भिन्नस्य तस्य समवायान्तरस्य तेन विशेषणविशेष्यभावानुपपत्तये तेन समवायान्तरेण समवायान्त- रापेक्षया निमित्तभूतयाऽनवस्थितिः स्यादिति योजना । अनवस्थिति- रित्यनन्तरं यत इति शेषः । अन्यथा सूत्रविसंवादः स्यात् । अस्या- प्युत्तरत्रान्वयः । अत एव सूत्रे हेतुसमुच्चयार्थश्चशब्दः ॥ ( ७ ) प्रामाणिकत्वान्नानवस्थादोषस्स्यादित्यत आह—न चेति ॥ तत्रतत्र समवायानन्त्य इत्यर्थः । बीजाङ्कुरादिवत् मूलक्षयाभावान्नान- वस्था दूषणमित्यत आह—प्रथमेति । एवकारो भिन्नक्रमः कैमुत्यद्यो- तकः । तथा च मूलभूतावयवावयव्यादिसम्बन्धस्यैवासिद्ध्या तदसि- द्धिः । तेषां प्रथमसम्बन्धसिद्ध्यर्थे अभ्युपगन्तव्यानां सम्बन्धान्तराणां सुतरामसिद्धिरित्यर्थः । तथा चेत्थंयोजना । यतस्तत्र प्रमाणं नास्ति अतः प्रथमसंबन्धस्यैवासिद्ध्या तदसिद्धिः । यतएवमतोस्त्येव मूलक्षति- रिति भवत्येवानवस्था दूषणमितिमाऽस्तु तर्हि समवायपरंपरा, प्रथम- समवाय एव स्वनिर्वाहकोऽस्त्वित्यत आह—स्वनिर्वाहकत्वे इति । त