भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 542, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 542

[ अधि - ६. - सू - १४. ] दीपिकासहितम्. ४९५ (८) सू—ॐ ॥ नित्यमेव च भावात् ॥ ॐ ॥ १४ ॥ नित्यत्वाच्च परमाणूनां समवायस्य च तस्यैव जनि त्वाङ्गीकारान्नित्यमेव कार्यं स्यात् । अन्यथा न कदा चित् ॥ १४ ॥ स्येत्यनुवर्तते । तथा च तस्य समवायस्य स्वनिर्वाहकत्वे स्वस्मिन् स्वयमेव विशेषणविशेष्यभावबुद्धिजनकत्वेऽङ्गीकृते समवाय एव 'न स्यात्' न सिद्धयेदित्यर्थः। गुणगुण्यादिभेदं तत्समवायं चाङ्गीकृत्य तस्य स्वनिर्वाहकत्वकल्पनापेक्षया लाघवेन गुणगुण्यादेरभेदमङ्गीकृत्य ए कस्य द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तौ समवायवैयर्थ्यादिति भावः॥ (८) एवं परपक्षे कारणत्रयनिरासेन सृष्टिं निरस्य प्रलयनिरासा र्थं प्रवृत्तं सूत्रं पठित्वा व्याचष्टे—नित्यमिति ॥ नित्यत्वादिति । सदा तनत्वादित्यर्थः । 'सदातनं सत्यमिति नित्यमित्युच्यते बुधैः' इति व चनात् । अनेन नित्यमित्यस्य भावादिति हेतावप्यन्वयो दर्शितः । च शब्दः परमाणूनां चेत्यन्वितो न केवलं समवायिकारणपरमाणूनां, कि न्तु निमित्तकारणेश्वरेच्छादेश्चेति समुच्चयार्थः । 'नित्यमेव' नित्यदैव कार्यं स्यादित्यनेन नित्यमित्यस्य साध्येऽप्यन्वयः । कार्यमित्यस्याध्या हारश्च दर्शितः । न तु परपक्षे कदाचित्प्रलये इत्येवकारार्थः । समवाय सूत्रात्समवायस्येतिपदं बुद्ध्या विवेकेनानुवर्त्य समवायस्य नित्यं भावा न्नित्यं नित्यदोत्पत्तिः स्यादिति सूत्रस्यार्थान्तरमभिप्रेत्याह—समवा यस्येति । नित्यत्वादित्यनुवर्तते । सर्वं कार्यं नित्यमेव नित्यं जनिमदेव स्यादित्येवमत्रापाद्यस्यार्थः । न तु कादाचित्कजनिमदित्येवकारार्थः । न केवलं परमाण्वादीनामिति चशब्दार्थः । ततः किमित्यतो भावादि त्यनेनोक्तं हेतुमाह—तस्यैवेति । समवायस्यैवेत्यर्थः । प्रागसतस्सत्तास मवाय एव जनिरिति परैरङ्गीकारादिति भावः । न तु विकारादेरित्ये वकारार्थः । जनित्वाङ्गीकारादित्यनेन भावस्सद्भावः प्रजननं तद्रूपत्वा ङ्गीकारादिति हेतोरर्थान्तरमुक्तं भवति । अनेन सौत्रश्चशब्दः कारण समुच्चयार्थः । समवायसमुच्चयार्थश्चेति सूचितम् । केचित्तु-परपक्षे सृ ष्टिप्रलयनिराससमुच्चये चशब्दः किञ्चेत्यर्थक इत्याहुः । स्यादित्यनन्त रं तत इति शेषः । अस्याप्युक्तरीत्यान्वयः । समवायिकारणादिसत्त्वे ऽपि कार्योत्पत्त्युपरमे बाधकमाह—अन्यथेति । सकलकारणसत्त्वेऽपि