पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 543, कुल 1267 में से
संदर्भ में पढ़ें४९६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( ९ ) सू—ॐ ॥ रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ ॐ ॥ १५ ॥ रूपादिमत्त्वाच्च परमाणूनामनित्यत्वं तथा दृष्टत्वाल्लोके॥१५॥ ( १० ) सू—ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥ १६ ॥ कार्योत्पादोपरम इत्यर्थः । न कदाचिदिति । कदाऽपि तस्मात्कार्योत्प त्तिर्न स्यादित्यर्थः । सति पुष्कलकारणे कार्यानुत्पादे तस्य तत्कारण त्वायोगादिति भावः ॥ ( ९ ) एवं परमाणूनां नित्यत्वमभ्युपेत्य तदारम्भकवादो दूषितः। इदानीं नित्यत्वं पराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—रूपादीति ॥ भौति करूपरसगन्धस्पर्शवत्त्वादिति हेत्वर्थः । तेन नेश्वरादौ व्यभिचारः । नित्यमिति पूर्वसूत्रे प्रकृताः परमाणवोऽत्र पक्षीभूता इत्याह—परमाणू नामिति । पार्थिवाप्यतैजसपरमाणूनामित्यर्थः । साध्यप्रदर्शकस्य विपर्ययशब्दस्यार्थमाह—अनित्यत्वमिति । तस्यैव स्वाभिमतप्रकृतनि त्यत्वाभावरूपत्वादित्यर्थः । स्याद्यत इति शेषः । अस्योत्तरत्रान्वयः । सूत्रे विपर्ययश्चेति सम्बन्धः।तदनुसारेण भाष्येऽप्यनित्यत्वं चेति।उभय त्र चशब्दो भिन्नक्रमः । तदर्थस्तु सावयवत्वं, चकारात्सावयवत्त्वं गृ ह्यत इति तत्त्वप्रदीपोक्तेः । अतएव टीकायां अवयवित्वस्य द्रव्यत्वरू पपक्षधर्मावच्छिन्नसाध्यव्यापकस्योपाधित्वमाशङ्क्य रूपादिमत्त्वादेव तत्सिद्धेरित्यनेन पक्ष एव साधनव्यापकतोक्ता । ननु रूपादिमत्त्वेऽपि अनित्यत्वं कुत इत्यतः प्रवृत्तं दर्शनादिति सूत्रखण्डं व्याचष्टे—तथे ति । लोके रूपादिमति घटादावनित्यत्वस्य च दृष्टत्वादित्यर्थः । तथा चात्र व्याप्तिसद्भावान्नाप्रयोजकताऽऽशङ्केति भावः ॥ ( १०) ननु रूपादिमत्त्वेऽपि परमाणूनां नित्यत्वं किं न स्यात्,अस्तु वा नित्यत्वं किं बाधकमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—उभ यथा चेति ॥ परमाणूनां 'नित्यत्वे' अनित्यत्वाभावे अनित्यत्व इत्यनेन सूत्रे उभयथेत्येतन्नित्यमेव विपर्यय इतिप्रकृतनित्यत्वानित्यत्वरूपप क्षद्वयपरामर्शकमिति व्याख्यातम् । परमाणूनामित्यतः प्राग्रूपादिमता मपीत्युपस्कार्यम् । दोषादित्युक्तदोषमाद्यपक्षे संयोजयति—तद्धी ति । परमाणुवत्सर्वेषां घटादीनामपि नित्यत्वं स्यात् । अनित्यत्वं न स्यादित्यर्थः । ननु घटादेरवयवित्वात् कृतकत्वाच्च भवत्यनित्यत्वं, न परमाणूनां, तदभावात् । अतो रूपादिमत्त्वाविशेषेऽपि विशेषप्रमाणब लादस्तु घटादेरनित्यत्वं न परमाणूनामिति वैषम्यमाशङ्क्याह—विशे