पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 544, कुल 1267 में से
संदर्भ में पढ़ें[ अधि-६. सू-१७. ] दीपिका सहितम्. ४९७ नित्यत्वे परमाणूनां तद्गतसर्वंनित्यत्वं स्यात् । विशेष प्रमाणाभावात् । अनित्यत्वे कारणाभावात्तदुत्पत्त्य भावः ॥ १६ ॥ ( ११ ) सू—ॐ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ ॐ ॥ १७ ॥ षेति । परमाणूनामनित्यत्वाभावसाधकस्यावयवित्वकृतकत्वाभावरू पस्य विशेषप्रमाणत्वेन पराभिमतस्य पक्षीभूतेषु परमाणुष्वभावादि त्यर्थः । रूपादिमत्त्वादेव तत्सिद्धेरिति भावः। अनित्यत्वपक्षमनूद्य तत्र दोषादित्युक्तदोषे योजयति—अनित्यत्व इति । परमाणूनामिति वर्तते। तथा च परमाणूनामनित्यत्वे तेषां कारणाभावात्समवायिकारणाभा वादुत्पत्त्यभावः स्यात् । यतएवमतो द्व्यणुकादेः समवायिकारणाभा वादुत्पत्तेरप्यभावः स्यात् परपक्षे, अतः सदुष्टः अतः न तद्विरोधः प्रकृ तार्थस्येत्यावृत्त्या योजना । अत्र सूत्रे चशब्दोऽप्यर्थे । न केवलमेकप क्षे दोषः, किन्तु पक्षद्वयेऽपीति समुच्चयार्थः । अथ वा—न केवलं 'उभयथापि न कर्म' इत्यत्र पक्षद्वयोक्तदोषात्, किन्त्वपसिद्धान्तदोषा च्चेति समुच्चये चशब्दः । अन्यथा परमाणु नित्यत्वे नित्यमेव कार्यं स्यादिति दोषस्योक्तत्वात्, अनित्यत्वेऽपीश्वरेच्छान्यायेन मूलकारणा भावापसिद्धान्तयोरर्थसिद्धत्वात्, उक्तार्थाभ्यामुभयत्र दोषावगमा दिदं सूत्रं व्यर्थमेव स्यात् । अतएव तत्त्वप्रदीपे—प्रथमं श्रुत्यर्थाभ्या मवगतदोषद्वयपरतयेदं सूत्रं व्याख्यायानन्तरं अथवोभयत्रापसिद्धा न्ताख्यं दूषणान्तरमुच्यत इति पक्षान्तरपरतया व्याख्यातम् । न च व्य वधानाद्योगः। यतोऽत्र निमित्तं 'एवं परमाणूनाम्' इत्यवतारिकाटीका यां सङ्गतिविशेषाख्यं पूर्वसूत्रस्याभिहितं, तथास्य सूत्रस्य ननु रूपा दिमत्त्वेपीत्यनेन विशेषाशङ्कारूपा सङ्गतिरपि तत्त्वप्रदीपटीकयोः प्र दर्शितेति ध्येयम् ॥ ( ११ ) एवं प्रपञ्चेन दूषिते परमाण्वारम्भवादमप्रामाणिकत्वेनापि दूषयत्सूत्रं पठित्वा व्याचष्टे—अपरिग्रहाच्चेति ॥ श्रुतीति । श्रुतिस्मृत्य नुकूलत्वाभावात् तद्विरुद्धत्वाच्चेत्यर्थः। परमाण्वारम्भवादस्येति प्रकर णालभ्यते। न केवलं पूर्वोक्तहेतुभ्य इति चार्थः। अनेन पूर्वोक्तहेतूनाम नपेक्षेति साध्येनान्वयः इति सूचितम्। अत्र आद्यव्याख्याने सूत्रे अप रिग्रहादित्यस्य असूर्यं पश्या राजदारा इति वदसामर्थ्येऽपि समासं निर्मक्षिकमित्यादाविव अव्ययत्वं वा आश्रित्य श्रुत्यादिपरिग्रहाभावा ६३