पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि-६. सू-१७. ] दीपिका सहितम्. ४९७ नित्यत्वे परमाणूनां तद्गतसर्वंनित्यत्वं स्यात् । विशेष प्रमाणाभावात् । अनित्यत्वे कारणाभावात्तदुत्पत्त्य भावः ॥ १६ ॥ ( ११ ) सू—ॐ ॥ अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ ॐ ॥ १७ ॥ षेति । परमाणूनामनित्यत्वाभावसाधकस्यावयवित्वकृतकत्वाभावरू पस्य विशेषप्रमाणत्वेन पराभिमतस्य पक्षीभूतेषु परमाणुष्वभावादि त्यर्थः । रूपादिमत्त्वादेव तत्सिद्धेरिति भावः। अनित्यत्वपक्षमनूद्य तत्र दोषादित्युक्तदोषे योजयति—अनित्यत्व इति । परमाणूनामिति वर्तते। तथा च परमाणूनामनित्यत्वे तेषां कारणाभावात्समवायिकारणाभा वादुत्पत्त्यभावः स्यात् । यतएवमतो द्व्यणुकादेः समवायिकारणाभा वादुत्पत्तेरप्यभावः स्यात् परपक्षे, अतः सदुष्टः अतः न तद्विरोधः प्रकृ तार्थस्येत्यावृत्त्या योजना । अत्र सूत्रे चशब्दोऽप्यर्थे । न केवलमेकप क्षे दोषः, किन्तु पक्षद्वयेऽपीति समुच्चयार्थः । अथ वा—न केवलं 'उभयथापि न कर्म' इत्यत्र पक्षद्वयोक्तदोषात्, किन्त्वपसिद्धान्तदोषा च्चेति समुच्चये चशब्दः । अन्यथा परमाणु नित्यत्वे नित्यमेव कार्यं स्यादिति दोषस्योक्तत्वात्, अनित्यत्वेऽपीश्वरेच्छान्यायेन मूलकारणा भावापसिद्धान्तयोरर्थसिद्धत्वात्, उक्तार्थाभ्यामुभयत्र दोषावगमा दिदं सूत्रं व्यर्थमेव स्यात् । अतएव तत्त्वप्रदीपे—प्रथमं श्रुत्यर्थाभ्या मवगतदोषद्वयपरतयेदं सूत्रं व्याख्यायानन्तरं अथवोभयत्रापसिद्धा न्ताख्यं दूषणान्तरमुच्यत इति पक्षान्तरपरतया व्याख्यातम् । न च व्य वधानाद्योगः। यतोऽत्र निमित्तं 'एवं परमाणूनाम्' इत्यवतारिकाटीका यां सङ्गतिविशेषाख्यं पूर्वसूत्रस्याभिहितं, तथास्य सूत्रस्य ननु रूपा दिमत्त्वेपीत्यनेन विशेषाशङ्कारूपा सङ्गतिरपि तत्त्वप्रदीपटीकयोः प्र दर्शितेति ध्येयम् ॥ ( ११ ) एवं प्रपञ्चेन दूषिते परमाण्वारम्भवादमप्रामाणिकत्वेनापि दूषयत्सूत्रं पठित्वा व्याचष्टे—अपरिग्रहाच्चेति ॥ श्रुतीति । श्रुतिस्मृत्य नुकूलत्वाभावात् तद्विरुद्धत्वाच्चेत्यर्थः। परमाण्वारम्भवादस्येति प्रकर णालभ्यते। न केवलं पूर्वोक्तहेतुभ्य इति चार्थः। अनेन पूर्वोक्तहेतूनाम नपेक्षेति साध्येनान्वयः इति सूचितम्। अत्र आद्यव्याख्याने सूत्रे अप रिग्रहादित्यस्य असूर्यं पश्या राजदारा इति वदसामर्थ्येऽपि समासं निर्मक्षिकमित्यादाविव अव्ययत्वं वा आश्रित्य श्रुत्यादिपरिग्रहाभावा ६३
४९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] श्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेन अनपेक्षता । ( १२ ) आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकाम् । इति च मोक्षधर्मे ॥ १७ ॥ ――:✻:―― ७. अधिकरणम् ॥ ( १ ) परमाणुपुञ्जवादिमतमपाकरोति । त तद्वानुकूल्याभावादित्यर्थः । द्वितीयव्याख्याने तु परिगृह्यत १.ते प- रिग्रहः न परिग्रहः अपरिग्रहः इति विग्रहः। नञश्च विरुद्धार्थता । भां- वप्रधाननिर्देशश्च अयमिति ज्ञातव्यं, प्रधानकारणत्ववादापेक्षया अति- शयेनेत्यनेन अत्यन्तशब्दस्य अनपेक्षता अनादरणीयतेति। अनेन अनपे- क्षेत्यस्यच अर्थ उक्तः। सूत्रे न अपेक्षा अनपेक्षेति विग्रहः। शिष्टैः कार्ये- तिशेषः। परमाण्वारंभाद् इति च प्रकरणाल्लभ्यते ॥ ( १२ ) यद्वादि श्रुतिस्मृतिविरुद्धत्वादिति तत्स्मृतिसिद्धमित्या- ह-आन्वीक्षिकीमिति ॥ इदं च-‘ इन्द्रः सृगालरूपेण बभाषे कश्यमा- नसं ’ इति पूर्ववाक्ये प्रकृतस्य सृगालरूपस्य इन्द्रस्य कंचित्प्रति वा- क्यम् । एतच्च ‘अहमासं पण्डितको हेतुको वेद निन्दकः’ इति पूर्वेण ‘तस्येयं फलनिष्पत्तिस्सृगालत्वं यतो मम’ इत्युत्तरेण वा- क्येन च व्याख्येयम् । तथा हि-यतः अहं ‘पण्डितकः’ कुत्सितो विद्वान् ‘हेतुकः’ शुष्कानुमानप्रामाण्यवादी अतएव स्वतर्कविरुद्धवेदपदोक्त- सदागमार्थनिन्दकश्च ‘आसम्’ अभूवम्, न केवलमेतावत्,किन्तु‘आन्वीक्ष- कीं’दृष्टवद्युत्प्रेक्षारूपां ‘निरर्थकां’ परमात्मोत्कर्षाबोधकत्वान्निर्विषयां मो- क्षासाधकत्वान्निष्प्रयोजनां तर्कविद्यामनुरक्तः तत्रातीवासक्तोऽभवम्। अतस्तस्यानुरागस्येदं सृगालत्वं फलरूपमिति । अत्रेन्द्रेण तर्कविद्या- नुरागस्य जम्बुकजन्महेतुत्वोक्त्या वेदनिन्दक इत्युक्त्या च तर्कवि- द Dyारूपपरमाण्वारम्भवादस्य ‘ आत्मन आकाशः’( तै. १ - २. )‘ उ- त्पत्तिस्थितिसंहाराः’ इत्यादिश्रुतिस्मृतिविरुद्धत्वं ज्ञायत इति न हेत्व- सिद्धिः । मोक्षधर्म इत्यस्य श्रुत्यादिविरुद्धत्वं उक्तमिति अध्याहृते- नान्वयः ॥ ६ ॥ ॥ इति वैशेषिकाधिकरणम् ॥ ―――― ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति―परमाणुपुञ्जेति ॥ अत्राधि-
[ अधि - ७. सू - १८. ] दीपिकासाहितम्. ४९९ ( २ ) सू—ॐ ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ ॐ ॥ १८ ॥ समुदायस्यैकहेतुकत्वं न युज्यते । उभयहेतुकेऽप्यन्यो- न्याश्रयत्वात्तदप्राप्तिः । अन्यथा सर्वदा समुदायस- त्त्वं स्यात् ॥ १८ ॥ करणे पाषण्डप्रभेदेषु वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचारभेदेन चतुर्विधेषु सौगतेषु मध्ये परमाणुसमुदाय एव गोघटादिबोधबोध्यो न त्ववयवी नाम तदतिरिक्तोऽस्तीति वादिनां वैभाषिकानां सौत्रान्ति- कानां च मतं निराकरोति सूत्रकृदित्यर्थः ॥ ( २ ) अत्र सूत्रव्याख्यानेनैव पूर्वपक्षः स्फुटीभविष्यतीत्यभिप्रेत्य सि- द्धान्तयत्सूत्रं पठित्वा तत्र समुदाय इति सप्तम्यन्तपदस्योभयपदार्थ- प्रतियोगिना एकहेतुके इत्यध्याहृतपदेनान्वयमभिप्रेत्य प्रथममपिश- ब्दलब्धपक्षान्तरं प्रतिषेधति—समुदायस्येति ॥ 'समुदायस्य' पर- माणुसमुदायस्य एकदेशसंयोगविशेषरूपस्य 'एकहेतुकत्वं' एकपर- माणुजन्यत्वमयुक्तमित्यर्थः । अस्मिन् साध्ये हेतुस्तु सूत्रे विरोध इत्य- ध्याहृतपदेन सूचितः एकस्मात्समुदाय इत्यस्य व्याहतेरित्येवंरूपो द्रष्टव्यः । इदानीं समुदाय उभय इति वाक्येन साक्षादुक्तं पक्षमनूद्य तत्र सूत्रकृदुक्तं दोषं योजयति—उभयेति । समुदाय इत्यस्ति । तथा च समुदाये उक्तरूपे 'उभयहेतुके' मिलितोभयहेतुके एकदेशस्थाने- कपरमाणुहेतुकेऽङ्गीकृतेऽपि 'तदप्राप्तिः' तस्य समुदायस्याप्राप्तिरनुपप- त्तिरेवेत्यर्थः । न केवलमेकहेतुक इत्यपिशब्दार्थः । कुतोऽप्राप्तिरित्यत- स्तत्र तस्मादिति व्यस्ततत्पदेनोक्तं हेतुं दर्शयति—अन्योन्येति । उभ- योरिति बुद्ध्या विवेकेन सम्बध्यते । तथा च मिलितानेकतः समुदाय- सिद्धिः समुदाये सति मिलितानेकत्वसिद्धिः इत्युभयोर्मिलितानेकत्व- समुदाययोः कार्यकारणयोः परस्पराश्रयभावापातादित्यर्थः । तदप्रा- प्तिः समुदायानुपपत्तिरित्यर्थः । इदानीमुभयहेतुक इत्यस्य विरलाने- कहेतुकेत्यर्थमुपेत्य तेनोक्तं पक्षान्तरमनूद्य दूषयति—अन्यथेति । समु- दायस्योक्तविधत्वमनङ्गीकृत्य नानादेशस्थानेकपरमाणुहेतुकत्वेऽङ्गीकृते इत्यर्थः । अत्र पक्षे समुदाय इत्यनेन अनेकत्वसङ्ख्या विवक्षिता । स- मुदायत्वं तेषामिति शेषः । तथा च सर्वदा सतां तेषां विरलानेकप- रमाणूनां सर्वदा समुदायत्वं तदुत्पादकत्वं स्यात् । ततश्च समुदाय- स्यापि सर्वदा सत्त्वं स्यात् । तथा च प्रलयाभ्युपगमविरोध इति योज-
५०० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - २. पा - २. ] ( ३ ) सू—ॐ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनि मित्तत्वात् ॥ ॐ ॥ १९ ॥ सर्वदा विद्यमानोऽपि समुदायः परस्परापेक्षया व्यव ना । समुदायस्येति पाठान्तरम् । यस्मादेवं समुदायस्याप्राप्ति- तस्मात्स एव गोघटादिबुद्धिवेद्यो न त्ववयवी कश्चिदस्तीति पक्षो न युक्त इति भावः ॥ ( ३ ) उक्तमाक्षिप्य समाधत्सूत्रं पठति—इतरेतरेति ॥ अत्र षष्ठ्य- न्ततया विपरिणतस्य समुदायस्येति पदस्य व्यवहार इत्यस्य वा अनु- वृत्तिः, इतरसहितं इतरत् इतरेतरत् तस्य प्रत्ययः द्वित्वाद्यपेक्षाबु- द्धिः इतरेतरप्रत्ययः। स निमित्तभूतो ययोर्वित्तिव्यवहारयोस्तावितरे- तरप्रत्ययाविति व्यधिकरणो बहुव्रीहिः। अतः 'अर्श आदिभ्यो ऽच्' विषयतासम्बन्धेन तद्वान्। यद्वा—इतरत् इतरत्र प्रत्ययः इदं चेदं चे- त्यपेक्षाबुद्धिः यस्य व्यवहारादेर्निमित्तभूतः स तथोक्तः । तस्य भाव- स्तत्त्वं, तस्मादिति विग्रहं चाभिप्रेत्य समुदायस्य विरलानेकहेतुक- त्वपक्षोक्तदोषोद्धाराय तत्र हेतुकथनार्थं प्रवृत्तमाक्षेपांशं तावद्व्याच- ष्टे—सर्वदेति। अपिर्यद्यपि तथापीत्यर्थे। नञावर्तते। योजना तु-यद्य- पि विरलानेकहेतुकः समुदायः सर्वदा विद्यमानो नित्य एव भवति, तथाऽपि न प्रलयानुपपत्तिदोषः।
हियत इति चेन्न । एकं कार्यमुत्पाद्य तस्यं विनष्टत्वा त्परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । ( ४ ) कारणे सति कार्य भवत्येवेति हि तस्य नियमः ॥ १९ ॥ न प्रवृत्तमुत्पत्तीति सौत्रहेतुं तात्पर्यतो व्याख्याति—एकमिति । 'तस्य' विरलानेकपरमाणुजन्यसमुदायस्य ' एकं ' एव ' कार्यमुत्पाद्य नष्टत्वा त् ' इत्यर्थः । तथा च प्रथमं विरलपरमाणूनां मिलितपरमाणूत्पादक त्वं मिलितानां च दर्शनं ततः इदं चेदं चेतिपरस्परापेक्षाप्रत्ययः, ततो व्यवहारादिः, तत्र द्रष्टा पुरुषः परमाणवश्च क्षणिकाः ते चैकमेव का र्यमुत्पाद्य नश्यन्तीत्यङ्गीकुर्वतां सौगतानां मते प्रथममेकस्य परमाणोर्द्र र्शनम् , अथ तत्रैव तस्यैवापेक्षा बुद्धिः अथ तत्रैव तस्यैव व्यवहारा दीति क्रमो न युज्यते । तन्मते सर्वेषां क्षणिकत्वेन दर्शनबुद्धिव्यवहा रादीनां एकविषयत्वस्यैकाधिकरणत्वस्य चायोगादिति भावः । अने नोत्पत्तिनिमित्तमात्रत्वादिति सूत्रशेषस्य परमाणूनामेककार्योत्पत्तावे व निमित्तत्वात् द्वितीयादिक्षणवृत्तिदर्शनापेक्षाबुद्ध्यादिरूपकार्यान्तरो त्पत्तावनििमित्तत्वात् तेषामेकं समुदायाख्यं कार्यमुत्पाद्य नष्टत्वात् पु नस्तेभ्यः कार्यान्तरोत्पत्त्ययोगादित्यर्थ उक्तो भवति ॥ (४) ननु विरलपरमाणुजन्यानां मिलितपरमाणूनां स्थायित्वम ङ्गीक्रियते । ततस्तद्विषये दर्शनापेक्षाबुद्धिव्यवहारा भवेयुरतो नोक्त दोष इत्यत आह-कारणे सतीति॥ हियतस्तस्य सौगतस्य नियमः। अ स्तीति शेषः । अस्यातस्तेषां स्थायित्वाभ्युपगमे प्रतिक्षणं कार्योत्पाद कत्वप्रसङ्गः। तथाचाल्पतरकालेऽप्येकैकस्मात्परमाणुपुञ्जात्मकाद्धटादने ककार्योत्पत्त्या कुलालशालापरिपूर्तिप्रसङ्ग इत्युपस्कृतवाक्येनान्वयः। यद्यपि क्षणिकत्वहानिरेव वक्तव्या, न तूक्तबाधकम् । तथापि क्षणिक त्वहानिरेव क्षणिकत्वाभ्युपगमे नियमाख्यकारणप्रदर्शनेनोक्ता वेदित व्या। अस्माभियमात्स्थायित्वाभ्युपगमे कुलालशालापरिपूर्तिप्रसङ्गा द्धि तैः क्षणिकत्वमभ्युपगतम् । अत्र तत्त्वप्रदीपे—इतिचेत्कार्यसम्भूति मात्रव्यावृत्तिकारणमित्यनुभाष्यदिशा द्वितीयसूत्रांशस्य कारणस्य स दृशकार्योत्पत्तावेव निमित्तत्वादित्यर्थमभिप्रेत्य तदनुसारेणैकं सदृशं कार्यमुत्पाद्य तस्य विनष्टत्वान्नापेक्षाप्रत्ययादिरूपविसदृशकार्योत्पत्ति र्युज्यते । कुत एतत् ? कारणे सति कार्यं भवत्येवेति तस्य नियमो, न पुनर्विशेषकार्यमपीति भाष्यस्याप्यर्थ उक्तः । न चैवं टीकायास्तद्वि
(५) सू—ॐ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ ॐ ॥ २० ॥ (६) कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्यो- त्पत्तिः ॥ २० ॥ (७) सू—ॐ ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ ॐ ॥ २१ ॥ रोधः , सुधाविरोधश्चेति वाच्यम् । द्वितीयतृतीयसूत्रयोरर्थान्तरा- भिप्रायेण तत्प्रवृत्त्या विरोधाभावात् ॥ (५) एवं विरलपरमाणुभ्यो मिलितपरमाणूत्पत्तिमभ्युपेत्य व्यव- हाराद्यसम्भवो दर्शितः । अथ विसदृशकार्योत्पत्तिमपि निराकुर्वत्सूत्र- मुपन्यस्य व्याचष्टे—उत्तरेति ॥ कार्यशब्दः सदृशकार्यपरः । विषयस- प्तमीयम् । सामर्थ्यादिति शेषः । तथा च कारणस्य सदृशकार्यजनन एव सामर्थ्यादित्यर्थः । न तु विसदृशकार्योत्पत्तौ । अन्यथा घटात्पटो- त्पत्तिप्रसङ्गात् इत्येवशब्दार्थः । कार्यकारणपदाभ्यां उत्तरपूर्वशब्दौ व्याख्यातौ । कार्योत्पत्तावेव कारणस्य सामर्थ्यादिति हेत्वन्वययोग्यं सूत्रे नञनुवृत्त्या लब्धं साध्यं दर्शयति—नेति । विशेषेभ्यो विरलेभ्यः परमाणुभ्यो विशेषकार्योत्पत्तिः मिलितपरमाणुरूपविसदृशकार्योत्प- त्तिर्न युक्तेत्यर्थः । चशब्दो भिन्नक्रमेणात्राप्यन्वेति । न केवलं वित्ति- व्यवहारयोरसम्भव इति तदर्थः । एवेत्यनेन विशेषकार्योत्पत्तिश्चेत्यने- न च सौत्रचशब्दोऽवधारणार्थः समुच्चयार्थश्चेत्युक्तं भवति ॥ (६) ननु सदृशकार्यजनने समर्थमपि कारणं कार्यमुत्पाद्य पश्चा- त्तत्र वैसादृश्यमुत्पादयति, न चातिप्रसङ्गः । विशेषकार्योत्पत्तेरदृष्टा- धीनत्वादित्यतस्तत्रोत्तरत्वेनापि उत्तरोत्पाद इति समग्रसूत्रं योजय- ति—कार्येति ॥ अत्र पक्षे उत्तरोत्पाद इति सतिसप्तमी । निरोधाच्चे- त्यपिशब्दान्वयः। तथा च 'उत्तरोत्पादे' कार्योत्पत्तौ सत्यामेव 'पूर्वनि- रोधात्' पूर्वस्य कारणस्य विनाशाच्च नोक्तविशेषकार्योत्पत्तिर्युक्तेत्य- र्थः । अन्यथा पूर्वनिरोधात् पूर्वाचार्याङ्गीकृतक्षणिकत्वविरोधादिति चशब्दसूचितार्थः । तत्त्वप्रदीपे तु इतश्च न विशेषकार्योत्पत्तिरित्यव- तारितत्वात् चशब्दस्य पूर्वहेतुसमुच्चायकत्वमुक्तम् । अतएवैकं कार्य- मिति पूर्वहेतुव्याख्यानरूपं भाष्यमपि विशेषकार्योत्पत्तिनिरासकतया व्याख्यातम् ॥ (७) एवं विसदृशकार्योत्पत्तिनिरासेन व्यवहारादिकं पराकृत्ये- दानीं प्रतिक्षणकार्योत्पत्तिमेव निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—अस
[ अधि - ७. सू - २२. ] दीपिकासहितम्. ५०३ कारणे विनष्टे कार्यमुत्पद्यते चेत्तत्कार्यमिति प्रतिज्ञाहानिः। (८) तत्काले कारणमस्ति चेद्विनाशाकारणाभावाद्यौगपद्यं सर्वकार्याणाम् ॥ २१ ॥ (९) सू— ॐ ॥ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छे- दात् ॥ ॐ ॥ २२ ॥ तीति ॥ कारणे विनष्ट इत्यनेनासतीत्यस्यार्थ उक्तः। कार्यमुत्पद्यते चे- दित्यनेन सूत्रे उत्तरोत्पाद इत्यस्यानुवृत्तिः सूचिता। अस्य पक्षान्तरत्व- द्योतनाय-चेदिति। यदीत्यर्थेऽयम्। अतस्तर्हीति लभ्यते। तदिति त- न्त्रं। तस्य तत्कार्यमिति प्रतिज्ञायाः सैद्धान्तिकप्रतिज्ञापदानां हानि- र्विरोधः स्यादित्यर्थः। कार्यकाले कारणस्य सत्त्वावश्यंभावेन तदन- भ्युपगमे तस्य तत्कार्यत्वमिति व्यपदेशो विरुद्ध इति भावः ॥ (८) पक्षान्तरोद्घाटनपरमन्यथेत्येतद्व्याचष्टे—तत्काल इति ॥ का- र्योत्पत्तिक्षण इत्यर्थः। कारणे सत्येवकार्यमुत्पद्यते चेदिति पर्यवसिता- र्थः। यौगपद्यं स्यादिति शेषः। कुत इत्यतः सूत्रकृदभिप्रेतहेतुमाह- विनाशकारणाभावादिति। कार्योत्पत्तिक्षणरूपद्वितीयक्षणे कारणस्य सत्त्वेन तस्यास्तद्विनाशकत्वायोगात्, विनाशकान्तरस्य चाभावात्। तृतीयादिक्षणेऽपि सतस्तस्मात्पुनः कार्योत्पत्तयः स्युः। कारणे सति कार्यं भवत्येवेति नियमात्। तेभ्यस्तथेति सर्वकार्याणां यौगपद्यमवि- च्छेदेनोत्पत्तिः स्यादित्यर्थः। एवं तत्काल इति वाक्यं यस्मिन् काले कारणमस्ति तत्काले कारणसत्त्वकाले कार्यमस्ति चेत् तस्यापि कि- ञ्चित्कार्यकारणत्वेन तत्सत्त्वकाले कार्यान्तरस्यापि सत्त्वापत्त्या तस्या- प्येवं सत्त्वापत्त्या सर्वकार्याणां विनाशकारणाभावाद्यौगपद्यं युगपदव- स्थानं स्यात्। ततश्चैकस्यां घटिकायां कुलालशालापरिपूर्तिप्रसङ्ग इ- त्यपि व्याख्येयम्। अतएव कारणे विनष्टे कार्यमुत्पद्यते चेदिति प्रथम- पक्षवैपरीत्येनान्यथाशब्दार्थमनभिधायोभयविधयौगपद्यापादनाय त- त्काले कारणमस्ति चेदिति वाक्यविन्यासः कृतः ॥ (९) एवं क्षणिकवादे कार्योत्पत्तिं निराकृत्य विनाशं च निराकुर्वन्सू- त्रं पठित्वा व्याचष्टे—प्रतिसङ्ख्येति ॥ नियमादित्यनेन विच्छेदोऽनिय- मस्तदभावोऽविच्छेद इति हेतोरर्थान्तरमभिप्रैति। अभ्युपगमोपलक्ष- कमेतत्। कार्योत्पत्त्यविच्छेदादित्यर्थान्तरं तु न युज्यत इत्युत्तरवा- क्यस्य न हि कार्योत्पत्तिविच्छेदो युज्यत इति योजनयाऽभिहितं बो
५०४ ब्रह्मसूत्रभाष्यम्. [ अध्यां - २. पां - २. ] कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः स सन्तानश्च विनाशो न युज्यते ॥ २२ ॥ ख्यम् । सन्तानः कार्यपरम्परा निर्गतः सन्तानो यस्मान्नाशात्स तथो- क्तः । सन्तानमन्तरेणेति यावत् । ससन्तान इत्यस्य प्रतियोगितया सन्तानेन सहित इत्यर्थः । विनाश इत्युभयान्वयी । कारणस्येति शे- षः । चः समुच्चये । निस्सन्तानः ससन्तानश्चेत्यनेन प्रतिसङ्ख्याऽप्रति- सङ्ख्याशब्दौ व्युत्क्रमेण व्याख्यातौ । तत्राद्यनाशे सन्तानस्य नाशा- न्वयाभावः । द्वितीये तु तस्याप्येवं अविच्छेदोऽपि। प्रथमपक्षे कार्यवि- च्छेदाभावः , द्वितीये तु सन्तानोच्छेदाभावरूप इति विवेकः । विना- शश्चेति चशब्दो न केवलं विनाशद्वयसमुच्चये , किन्तु न केवलं प- रपक्षे कार्योत्पादो न युज्यते , किन्तु विनाशश्चेति समुच्चयेऽपि । ते- न सूत्रे चशब्दोऽनुवर्त्य इति सूचितम् । न युज्यत इत्यनेनाप्राप्तिशब्दो ऽनुपपत्त्यर्थकतया व्याख्यातः । यद्यपि प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरो- धशब्दौ प्रतिसङ्ख्यापदोक्तबुद्धिपूर्वकविनाशार्थकतया बौद्धैः परिभा- षितौ । तथापि घटादेः प्रतिक्षणविनाशस्याबुद्धिपूर्वकत्वात् सन्तानेन सहात्यन्तिकविनाशस्य मुसलप्रहारादिजन्यस्य प्रायेण बुद्धिपूर्वकत्वा- त्प्रतिक्षणविनाशसन्तानविनाशौ तदुभयशब्दार्थत्वेनोक्तावित्यदोषः । प्रतिक्षणे जायमानस्य घटादेः निस्सन्ताननाशस्य प्राथमिकत्वादात्य- न्तिकनाशस्य ससन्तानस्य चानन्तरभावित्वात् तदभिप्रायेण भाष्ये व्युत्क्रमेण व्याख्यानम् । अनेन न केवलं क्षणिकमते कार्योत्पत्तिर्युक्ता , किन्तु प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधावपि , कुतोऽविच्छेदात् । न हि कार्योत्पत्तिविच्छेदो युज्यते । क्षणिकत्ववादिना हि प्रतिक्षणं कारणं कार्यमुत्पाद्य नश्यतीति वक्तव्यम् । अन्यथा सन्तानसाहित्येन नाशा- पत्तेः । क्षणिकत्वविरोधाच्च। क्षणिकस्य चोत्पत्तिकाल एव वियोगका- लः । एवं चेत् कार्योत्पत्तिकाले सतः कारणस्य तद्वियोगकालेऽपि स- त्त्वं प्राप्तम् । अन्यथा कार्येण वियोगानुपपत्तेः । एवं वियोगकालेऽपि कारणं कार्यमुत्पादयेत् । सतोऽपि कारणस्य कुतः कार्योत्पादकत्वम्,अ- विच्छेदात्,कारणे सति कार्यं भवत्येवेति नियमाभ्युपगमात्। एवं तदु- त्पत्यनन्तरमपि कार्यान्तरमुत्पादयेदिति सिद्धः कार्योत्पत्त्यविच्छेदः । एवं सति हि घटस्यात्यन्तिको नाशः न त्वसतः, अतोऽसौ सत्त्वात्कार्यं उत्पादयेदेव । कुतोऽविच्छेदात् । कारणे सति कार्यं भवत्येवेति निय-
[ अधि - ७. सू - २३. ] दीपिकासहितम्. ५०५ (१०) सू—ॐ ॥ उभयथा च दोषात् ॥ ॐ ॥ २३ ॥ कारणे सति कार्यं भवत्येवेति नियमे सर्वदा कार्यभा वान्त्र कार्यकारणविशेषः । अनियमे कार्यानुत्पत्तिः ॥२३॥ मात्, तत्कार्यं चैवमिति कार्यपरम्परायाः अविच्छेदात् कथं सन्तानो च्छेदावसर इत्यतोऽपि न क्षणिकपक्षो युक्त इति सूत्रार्थ उक्तो भ वति । केचित्तु—अविच्छेदादित्यस्य विच्छेदाभावादित्यर्थः । कारणे सति कार्यं भवत्येवेति नियमादिति भाष्योक्तहेतुस्तूपस्कृतः, न सौत्र पदोक्त इति कारणस्य कार्योत्पत्त्युत्तरक्षणेऽपि सत्त्वमिति चाहुः ॥ (१०) ननु तथाऽपि सतां भावपदार्थानां न क्षणिकता निषेद्धुं शक्या, घटादेर्घटान्तररूपार्थक्रियाकारित्वं खलु सत्त्वं नाम । न च तत् क्षणि कतामन्तरेणोपपद्यते । यद्याद्यक्षणे घटो घटान्तरमुत्पाद्य न स्वयं न श्यति, तर्दा घटान्तरमपि तथेत्यनन्तकार्यापातः। ततश्चैकस्यां घटिका यां कुलालशालापरिपूर्तिस्स्यात् । अतोऽर्थक्रियाकारित्वरूपसत्त्वसिद्धयै क्षणिकत्वमेष्टव्यं भावानामित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-उ भयथेति॥ नियमे अनियमे इत्यनेन उभयथेत्येतद्व्याख्यातम्। सर्वदा.का र्याभावात् । क्षणिकमते कार्यस्य यावत्कारणभावित्वादित्यनेन दोषादि ति सौत्रहेतोरुपपादकश्चशब्दसूचितो हेतुर्दर्शितः । 'न कार्यकारण विशेषः' सव्येतरगोविषाणवत् कार्यकारणयोर्विशेषः कार्यकारणभा वो न स्यादित्यनेन 'कार्यानुत्पत्तिः' यतः कार्योत्पत्तिर्न स्यात् इत्यनेन च पक्षद्वयेऽपि दोषादित्युक्तो हेतुर्विवृतः । तत्रानियमपक्षे कारणे सत्य पि कदाचित्कार्याभावाङ्गीकारे तत्काले कारणस्यार्थक्रियाकारित्वाभा वेनासत्त्वापत्तिः । ततश्चासतः कारणात् कदाऽपि कार्योत्पत्तिर्न स्या दित्यनिष्टप्रसङ्गान्तरोपस्कारेण सौत्रहेतुर्योज्यः । एवमनियमपक्षे कार णस्य घटादेः अर्थक्रियाकारित्वरूपसत्त्वाभावेन ततः कल्प्यमाना क्ष णिकताऽपि व्याहन्येतेति चशब्दसूचितानिष्टप्रसङ्गान्तरं च द्रष्टव्यम् । कार्योत्पत्तिरित्यनन्तरं नान्यतरपक्षावलम्बेन घटादीनां घटान्तररू पार्थक्रियाकारित्वेन सत्त्वं वाच्यम्, किन्तु जलाद्याहरणादियोग्य त्वेनेति परोक्तापादकासिद्धेर्न तदनुपपत्त्या क्षणिकता कल्प्येत्यसम ञ्जसमिदं दर्शनमिति वाक्यशेषः । अनेन च सौत्रचशब्दस्य परपक्ष ए वोभयथा दोषसत्त्वादस्मत्पक्षे च दोषाभावादिति हेतुसमुच्चायकत्वं ६४
५०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( ११ ) सू—ॐ ॥ आकाशे चाविशेषात् ॥ ॐ ॥ २४ ॥ दीपादिषु विशेषदर्शनात् क्षणिकत्वेनान्यत्रापि क्ष णिकत्वमनुमीयते चेदाकाशादिष्वविशेषदर्शनादन्य त्रापि तदनुमीयेत ॥ २४ ॥ प्रतिज्ञासमुच्चायकत्वं च अभिप्रेति ॥ ( ११ ) ननु माभूदर्थापत्त्या क्षणिकत्वसिद्धिः । तथाऽपि विमतं क्षणि कं, सत्त्वात्, यत्सन्न तत् क्षणिकम्, यथा दीपादि, सन्तश्चामी भावाः पदार्था इत्यनुमानेन सेत्स्यति । न च दृष्टान्ते साध्यवैकल्यम् । यद्वि रुद्धधर्माधिकरणं तन्नानेति व्याप्तेः । पूर्वोत्तरक्षणयोः प्रदीपे परिमाण विशेषदर्शनेन वस्तुभेदस्याप्यावश्यकत्वात्तत एव क्षणिकतासिद्धेरि त्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—आकाशे चेति ॥ दीपादि ष्विति वायुक्तानुमानदृ
[ अधि - ७. सू - २५. ] दीपिकासहितम्. ५०७ ( १२ ) सू-ॐ ॥ अनुस्मृतेश्च ॥ ॐ ॥ २५ ॥ ज्ञयाऽन्वयः। अत्र वाद्युक्तानुमाने प्रतिपक्षानुमाने च पक्षसाध्यहेतुदृष्टा न्तानां समुच्चये अर्थापत्त्यनुमानसमुच्चये च सौत्रश्चशब्दः। तथा चा यं सूत्रार्थः-यदि दीपादौ विशेषात् क्षणिकत्वस्य सिद्धत्वादन्यत्रा पि तद्दृष्टान्तेन तदनुमीयते । तर्ह्याकाशेऽविशेषात् स्थायित्वस्य सिद्ध त्वेन तद्दृष्टान्तेन सत्त्वहेतुनैवाक्षणिकत्वमप्यनुमीयेत। सत्त्वहेतोराका शे दीपादौ नीलिमादौ चाविशेषात् । अतः सत्त्वहेतोः स्वेनैव प्रतिप क्षितत्वान्नानेनापि क्षणिकत्वसिद्धिः, न केवलमर्थापत्त्येति॥ ( १२ ) एवं प्रतिपक्षेण सत्त्वानुमानं निरस्य प्रमाणबाधेनापि निरा कुर्वत्सूत्रं पठित्वा व्याचष्टे--अनुस्मृतेरिति ॥ तदेवेदमिति प्रत्यभिज्ञा नादिति । यद्दृष्टपूर्वं तदेवेदं घटादीति पूर्वोत्तरदेशकालसम्बन्धिनोरे क्यविषयकप्रत्यभिज्ञानादित्यर्थः । स एवाहमित्यनुक्त्वा तदेवेदमिति जडविषयकप्रत्यभिज्ञाप्रदर्शनं न परमत इवात्ममात्रस्थायित्वपरमिदं सूत्रमिति प्रदर्शनाय । चशब्दः पूर्वहेतुसमुच्चये । अस्यापि पूर्वसाध्ये नान्वयः। उक्तं हि चन्द्रिकायां-सप्तमाष्टमयोः क्षणभङ्गविरोधिस्था यित्वरूपैकसाध्यान्वयस्य सम्भव इति। ननु परिलूनपुनर्जातकुन्तल कलापे सोऽयं कुन्तलकलाप इति प्रत्यभिज्ञायाः इवास्याः प्रत्यभिज्ञायाः भ्रान्तित्वाङ्गीकारान्न तद्बाधः सत्त्वानुमानस्येत्यतः तत्र प्रत्यभिज्ञाया थार्थ्यसूचकानुपदसूचितं दोषमविशेषादिति हेतुमापाद्यापादकोपस्का रपूर्वकमाह-प्रत्यभिज्ञाया इति । 'भ्रान्तित्वे' बाधकं विनाऽपि भ्रा न्तित्वकल्पने 'विशेषदर्शनस्यापि' दीपादौ क्षणिकत्वसाधकतयोक्त परिमाणभेदादिदर्शनस्यापि । अपिः समुच्चये । 'भ्रान्तित्वं' स्याद् विशेषादिति शेषः । ननु तत्त्वद्योतटीकायामनुस्मृतेश्च
५०८ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.] तदेवेदमिति प्रत्यभिज्ञानाच्च । प्रत्यभिज्ञाया भ्रान्तित्वे विशेषदर्शनस्यापि भ्रान्तित्वम् ॥ २५ ॥ ८. अधिकरणम् ॥ (१) शून्यवाद्मपाकरोति— सू—ॐ ॥ नासतो दृष्टत्वात् ॥ ॐ ॥ २६ ॥ अदृष्टत्वान्नासतः कारणत्वं युज्यते ॥ २६ ॥ भिज्ञया चात्यन्ताभेदावगाहनादिति चेत् । उच्यते—यदा हि पूर्वोत्त रकालभाविनोः अभेदः प्रत्यभिज्ञाविषयोऽङ्गीक्रियते तदा सावधारण स्य प्रत्यभिज्ञानस्य भ्रमत्वेऽपि तदिदमिति न भ्रमः, तेनैव च स्थायित्व सिद्धिर्भवति । यदा तु कालद्वयसम्बन्धो विषयः, तदा सावधारणम पि न भ्रम इति । तथा च तदेवेदमिति प्रत्यभिज्ञायाः तद्देशतत्कालस म्बन्ध्येवैतद्देशैतत्कालसम्बन्धीति विशेष्यमात्रैक्यविषयकत्वेनेदं भा ष्यं प्रवृत्तम्, न तु.विशिष्टैक्यविषयकत्वेन, तादृश्याश्च भ्रान्तित्वमनि ष्टमेवेति नापाद्यत्यानुपपत्तिः । विशिष्टविषयकत्वेऽपि निरवधारणप्र त्यभिज्ञानस्याभ्रमत्वमेवेति तस्य भ्रान्तित्वापादने नानुषपत्तिः, न वा ग्र न्थान्तरविरोध इति ध्येयम् ॥ ७ ॥ ॥ इति समुदायाधिकरणम् ॥ ८. अधिकरणम् ॥ (१) अत्राधिकरणार्थं दर्शयति—शून्येति ॥ शून्यमेव जगत्कारण मिति वदतां माध्यमिकार्ना वादं समयं निराकरोति सूत्रकृदित्यर्थः । श्रुतिप्रामाण्यानभ्युपगमेन तद्विरोधाभावादसङ्गत्यापि संवृतिसम्ब न्धेन जगत्कारणत्वोपपत्तेः शून्यतत्वादेव जगदुदयसम्भवादीश्वरेणो पयोगाभावात्तस्य जगत्कारणत्वमयुक्तम् । तस्यैव तल्लक्षणमित्येतत् सुतरामयुक्तमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—नेति । अदृष्टत्वादित्यतः । प्राक् प्रमाणाभावादित्युपस्कार्यम् । तथा चासतः सर्वधर्मविकलत्वरूपासत्त्वोपेतस्य शून्यस्य जगत्कारणत्वं न युज्यते । कुतः? तत्र प्रमाणाभावात् । न चासिद्धिः । शून्यकारणत्वस्य ‘दृष्टत्वा त् ’ अप्रत्यक्षत्वात् । तत एव तदुपजीव्यनुमानाविषयत्वात् । एवमेव शून्यकारणतावगमकागमस्याप्यदर्शनादिति योजना । एतेन सौ
[ अधि - ८. सू - २७. ] दीपिकासहितम्. ५०९ ( २ ) सू—ॐ ॥ उदासीनानामपि चैवं सिद्धिः ॥ ॐ ॥ २७ ॥ असतः कारणत्वे उदासीनानां हेयोपादेयबुद्धिवर्जिता- नां खपुष्पादीनामपि सकाशात्कार्यसिद्धिः । अहेतोरीश्वरादौ व्यभिचारो निरस्तः । अस्य हेतुसाधकहेतुत्वाभ्युप- गमेन साक्षाद्धेतुत्वानभ्युपगमात् । अत एव तत्त्वप्रदीपे—प्रमाणेनादृ- ष्टत्वादित्येवोक्तम् ॥ ( २ ) नन्वदृष्टमपि जगत्कारणत्वं शून्यस्याभ्युपगतं चेत्को दोषः । ननूक्तमदृष्टत्वादेव अप्रामाणिकत्वान्नाङ्गीकारार्हतेति, न अदृष्टत्वेन दृ- ष्टानुमानानुपपत्तावपि सामान्यतो दृष्टवोपपत्तेः । कारणस्य हि का- र्यवत् वस्तुत्वेन सत्त्वे निषिद्धे कार्यत्वेन हेतुनाऽसत एव जन्म सेत्स्य- तीत्याशङ्कापरिहाराय
५१० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] ( ३ ) चशब्दान्न चेदन्यत्रापि न स्यात् अविशेषात् ॥ २७ ॥ ( ४ ) सू—ॐ ॥ नाभाव उपलब्धेः ॥ ॐ ॥ २८ ॥ न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात् ॥ २८ ॥ ( ५ ) सू—ॐ॥वैधर्म्याच्च न स्वप्नादिवत् ॥ ॐ ॥ २९ ॥ ( ३ ) खपुष्पादीनामकारणत्वेऽपि को दोष इत्यतस्तत्र स्वाभिमता सिद्धिरूप दोषोक्तिपरतया सौत्रचशब्दं व्याचष्टे—चशब्दादिति ॥ अस्याविशेषादित्यनन्तरं अध्याहारेण इतिसूचितमित्यनेनान्वयः । किं सूचितमित्यतस्तदाह—न चेदिति । खपुष्पादीनामपि सकाशात्कार्य सिद्धिर्नास्ति चेदित्यर्थः । 'अन्यत्र' अन्यतः खपुष्पाद्यन्यबौद्धाभिमतशू- न्यात् 'अपि' जगदाख्यकार्योत्पत्तिः 'न स्यात्' इत्यर्थः । ननु शू- न्यस्य कारणत्वे खपुष्पादिकारणत्वापादनमसङ्गतं हेत्वभावादित्यत आह—अविशेषादिति । शून्यस्य खपुष्पादेश्चासत्त्वाविशेषादित्यर्थः । तथा च सर्वधर्मविकलत्वरूपासत्त्वं हेतुः । अत्र दृष्टान्तस्तु शून्यमेवे- ति भावः । अनेन तर्कस्य विपर्ययपर्यवसानेन प्रकृतोपयोग उक्तो भ- वति ॥ ( ४ ) भवेदेतद्दूषणं यदि शून्यतत्त्वात्परमार्थतो मृत्पिण्डाद्घट इव जगदुत्पद्येत । नैतदस्ति । शून्यस्य जगदाकारेण परिणामानभ्युपगमा- त् । किन्तु संवृतिशब्दिताज्ञानविशेषादसतो रजताकारेणेव शून्यस्या- पि जगदाकारेण अवभासाख्यविवर्तत्वाभ्युपगादित्याशङ्कां परिहर- त्सूत्रमुपन्यस्य व्याचष्टे-नेति ॥ एवकारो भिन्नक्रमः । तथा च 'शून्य- मेव' शून्यरूपमसदेव 'जगत्' जगदाकारेणावभाति न परमार्थतो जगद- स्तीति न वाच्यमित्यर्थः । न केवलमेतावत् , किन्त्वदृष्टिदोषपरिहारा- य यदसदेव रजताकारेणावभातीति वचनं तदपि न युक्तमिति चश- ब्दार्थः । अनेन सौत्राभावशब्दो भवतीति भावः सन्, न भावोऽभाव इति व्युत्पत्त्या असत्पर इत्युक्तं भवति। 'दृष्टत्वात्' सदिति प्रतीयमान- त्वादित्यनेन उपलब्धेरिति सौत्रहेतुर्व्याख्यातः । एवं दृष्टत्वादित्येतत् नेदं रजतं , किन्तु शुक्तिकैवेति बाधदर्शनादिति परोक्तसाधकनिरास- कत्वेनापि व्याख्येयम् ॥ ( ५ ) ननु सदिति दृश्यमानस्य स्वप्नस्य रज्जुभुजङ्गादेश्चासत्त्वं दृष्टम्। अतो जगतस्सत्त्वेन दृष्टत्वेऽपि तद्वदसत्त्वं किं न स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—वैधर्म्याच्चेति ॥ 'दृष्टस्य' सत्त्वेनोपल-
: स+ौ=सौ. Look at line 6: अ+ाwith two strokes? Wait, look atअपि- in Sanskrit: "अपिः"? No, in Sanskrit grammar, when referring to the word 'अपि', it is called 'अपिशब्दः' or simply 'अपिः'. But why would there be strokes above? Wait, look at:औ? Wait, could the whole word be: [दृष्टस्येत्यनेन] बाध्यस्य ।? Wait, what if the word is: ध्यस्य । अपिः? Wait, look at the dot above? Wait, look at the first two words again: Word 1: ध्यस्य ।(orध्वस्य ।orष्टस्य ।) Word 2: अपिःorओपःorअपि? Wait! Is that a smudge, or is it: अपिःwith a blur? Look at the letter:अthenपि- the loop ofिgoes fromपback overअ? In many Indian fonts, the िmatra onपcurves to the left! Whenिis onप, the curve goes leftwards over the preceding space or letter. Here पि` has the curve
५१२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - २.] ९. अधिकरणम् ॥ ( १ ) विज्ञानवादमपाकरोति— सू—ॐ ॥ न भावोऽनुपलब्धेः ॥ ॐ ॥ ३० ॥ कण्ठतोऽनुक्तत्वादनुक्तत्वम् । न च द्वयमपि वैधर्म्यशब्देनैव वक्तुं यु क्तमिति चशब्दो व्यर्थ इति वाच्यम्। आवृत्तिं विनैव तत्सूचनार्थत्वात्। न च चशब्दस्योक्तशङ्कापरिहारकतया व्याख्याने तत्त्वोद्योतटीकायां इह चशब्देन सूचितं जगद्धर्मिकवैधर्म्यं वैधर्म्यशब्दार्थत्वेनाङ्गीकृत्य दू षणान्तरसमुच्चयार्थश्चकार इत्युक्तत्वात् तद्विरोध इति वाच्यम् । 'चे ति दृष्टे विरुद्धताम्। निष्प्रमाणत्वमप्यस्य दर्शयामास विश्वकृत्' इत्यनु व्याख्यानोक्तरीत्या मानाभावप्रत्यक्षविरोधरूपदूषणान्तरसमुच्चायक स्यापि चशब्दस्य बाधकप्रमाणाभावरूपार्थत्वस्यापि सम्भवेन विरो धाभावात् । परं तु वैधर्म्यधर्मिव्यत्यासमात्रं । तच्च न प्रमेयविरुद्धम् । अस्तीत्यनन्तरं यत इति शेषः । अस्यातोऽपि न स्वप्नादिवदिति पूर्वे णान्वयः ॥ ८ ॥ ॥ इति असदधिकरणम् ॥ — * — ९. अधिकरणम् ॥ ( १ ) एतदधिकरणप्रतिपाद्यं दर्शयति—विज्ञानवादमिति ॥ चतु र्विधेषु सौगतेषु मध्ये वैभाषिकसौत्रान्तिकमाध्यमिकेषु त्रिषु निरस्ते षु अधुना क्रमप्राप्तं तुरीयं विज्ञानपरिणतं तन्मात्रमेवेदं जगत् न तु त तोऽतिरिक्तमिति वदतां योगाचाराणां वादं मतं निराकरोत्यस्मिन्नधि करणे सूत्रकृदित्यर्थः । नित्यं निरञ्जनं विज्ञानतत्त्वमेव खलु विद्यमानं तन्मात्रमेवेदं जगत्, न तु ततोऽतिरिक्तमस्ति। तथा च ततएव जगदु दये नेश्वरेण कृत्यमित्ययुक्तं तस्य जगत्कारणत्वलक्षणमिति प्राप्ते सि द्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—नेति । विज्ञानमात्रं तद्रूपमेव जगत् न ततोऽतिरिक्तमस्तीति न युक्तमित्यनेन न भाव इति साध्यांशः साव धारणं कृत्वा जगत्पदाध्याहारेण च व्याख्यातः। भावशब्दस्य विज्ञाना र्थकत्वं च भवतेरनुभवार्थत्वात् उपसर्गा हि धातुलीनस्यार्थस्य व्य ञ्जका एवेति सुधोक्त्या सिद्धं । प्रसिद्धज्ञानपदं विहाय भाव इत्युक्ति स्तु परमते भवतीति भाव इति व्युत्पत्त्या भावशब्देन सद्विवक्षि
स्य व्याचष्टे—क्षणिकत्वञ्चेति । ज्ञानमित्युक्त्या सूत्रे भावस्येत्यनुष-
Wait, क्षणिकत्वञ्चेति or क्षणिकत्वंचेति?
It has क्षणिकत्वञ्चेति (with ञ्च).
And after व्याचष्टे: dash —.
At end of L12: भावस्येत्यनुष- or भावस्येत्यनुष? ङ्गो starts L13.
`ङ्गो दर्शितः । क्षणिकं यत इति शेषः । ज्ञानस्य क्षणिकत्वादाशुतरवि-`
Check:
`ङ्गो दर्शितः ।`
`क्षणिकं यत इति शेषः ।`
`ज्ञानस्य`
`क्षणिकत्वादाशुतरवि-`
`नाशत्वादित्येतदर्थानां स्थायित्वादित्यस्याप्युपलक्षकम् । चशब्दो वा`
Check:
`नाशत्वादित्येतदर्थानां स्थायित्वादित्यस्याप्युपलक्षकम् । चशब्दो वा`
Matches 100%.
`तत्समुच्चायक इत्याशयेनार्थानां घटादीनां चेत्याद्युक्तमुक्तं साधितं 'उ-`
Wait, quote before `उ`?
५१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] प्रमाणाभावात्सर्वश्रुतिस्मृतियुक्तिविरुद्धत्वाच्च नैते प- क्षा ग्राह्याः ॥ ३२ ॥ ❖ ❖ ❖ १०. अधिकरणम् ॥ ( १ ) स्याद्वादिमतं दूषयति— सू—ॐ ॥ नैकस्मिन्नसम्भवात् ॥ ॐ ॥ ३३ ॥ णाश्च । स्मृतयस्तु ‘स एव भूयः’ इत्याद्याः उक्ताः वक्ष्यमाणाश्च । युक्त- यस्तु सूत्रोक्ता एव द्रष्टव्याः । एते वेदविद्वेषिणां वैभाषिकसौत्रान्ति- कशून्यवादिविज्ञानवादिनां पक्षाः प्रेक्षावद्भिर्न ग्राह्याः नोपादेयाः इति। अनेन नैते ग्राह्या इत्यस्याध्याहारः सूचितः। अत्र श्रुत्यादिविरोधवचन- मधिकारिणं प्रत्येव न तु परं प्रति तन्मते तेषां अप्रामाणिकत्वादिति ध्येयम् । तथा चायं तत्त्वप्रदीपदिशा सूत्रार्थः । सर्वथा सर्वप्रकारेषु प्रत्यक्षक्षणिकत्वकल्पने परोक्षप्रत्यक्षबिम्बप्रतिबिम्बजगद्युगलकल्पने शू- न्याद्वैतकल्पने विज्ञानाद्वैतकल्पने प्रकटने प्रच्छादने वा सर्वेषां वेदद्वे- षिणां पक्षाः नोपपद्यन्ते । कुतोऽनुपपत्तेः । उपपत्तिपदोपलक्षितप्रमाण- सामान्याभावात्प्रमाणविरुद्धत्वाच्च । स्थायिनोः जीवेशयोरनङ्गीकारा- च्च । अतो न ग्राह्या इति ॥ ९ ॥ ॥ इति अनुपलब्ध्यधिकरणम् ॥ —-::*-— १०. अधिकरणम् ॥ ( १ ) अधिकरणार्थं दर्शयति—स्यादिति ॥ सप्तप्रकारिणो जग- तः कायपरिमाणाजीवात्मनो दृष्टादृष्टसाधनैश्चोत्पत्तिसम्भवात्किमी- श्वरेण कृत्यमित्युक्तं लक्षणसूत्रमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्य- स्य व्याचष्टे—नेति । सत्स्यादित्याद्यनुवादेन जैनोक्तस्य सूत्रकृद्बुद्धि- स्थस्य नञर्थप्रतियोगिनः सप्तभङ्गित्वस्य सूत्रे अध्याहृततच्छब्देन प- रामर्शः कार्य इति सूचितम् । अत्र जगत्सत्स्यादित्यनेन सत्त्वाख्यैकप्र- कारोऽभिहितः। असत्स्यादित्यनेनान्यप्रकारः । सदसत्स्यादित्यनेन स- दसत्त्वरूपोऽपरः प्रकारोऽभिहितः। ततः उक्तपक्षत्रयादन्यश्चकारादन्य- स्तुनस्ततोऽन्यस्ततोऽन्यदपि स्यादित्यनेन प्रकारचतुष्टयमनूदितम् । त- था हि—ततः सदसद्भ्यां अन्यदिति सदसद्विलक्षणत्वप्रकारोक्तिः । पुनः सत्स्यात्ततोऽन्यत्स्यादिति अन्वयेन सत्त्वे सति सदसद्विलक्षण-
[ अधि - १०. सू - ३४. ] दीपिकासहितम्. ५१५ सत्स्यादसत्स्यात्सदसत्स्यात्ततोऽन्यच्च स्यादित्येतदे कस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ ३३ ॥ ( २ ) सू—ॐ ॥ एवं चात्माकात्स्न्र्यम् ॥ ॐ ॥ ३४ ॥ जीवस्य । शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थ त্বরূপोऽन्यः प्रकारोऽनूदितः । एवमसत्स्यात्ततोऽन्यच्च स्यादित्यन्वये न असत्त्वे सत्यसद्विलक्षणत्वरूपप्रकारोऽभिहितः । तथा सदसत्स्या त्ततोऽन्यत्स्यादित्यन्वयेन सदसत्त्वे सति सदसद्विलक्षणत्वरूपोऽपरः इ ति पूर्वोक्तप्रकारत्रयेण सहास्य सप्तत्वमित्येवं रूपमेतत् । तद्दोषपरि जिहीर्षुणा जिनेनोक्तं जगतः सप्तभङ्गित्त्वमेकस्मिन् वस्तुनि न युज्यते इत्यर्थः । कुतो नेत्यत उक्तस्यासम्भवादेतस्यासम्भावितत्वादिति हे तोर्हेत्वन्तरसाध्यत्वात्तद्धेतुत्वेनासत इति सूत्राददृष्टत्वादिति पदमनु वर्त्य योजयति—अदृष्टत्वेनेति । सदसद्भ्यामन्यभङ्गिन एवाप्रामाणि कत्वेन एकस्मिन् सप्तभङ्गित्त्वस्य सुतरामप्रामाणिकत्वेनेत्यर्थः ॥ ( २ ) यदपि जीवस्याणुत्वे सर्वाङ्गवेदनानुसन्धानायोगाद्व्यापृतत्वे च देहान्तरगतस्याप्यनुसन्धानप्रसङ्गाच्छरीरपरिमितत्वमुक्तं जिनेन तत्र प्रष्टव्यं, किं तत् स्वीयसर्वशरीरावयवगतचेष्टोपपत्त्यर्थमुपेयते । उत शरीरावच्छिन्नत्वमन्तरेणात्मनः स्वतः परिमाणाभावाद्वा । तत्राद्यपक्षं प्रतिक्षेप्तुं प्रवृत्तं सूत्रमुपन्यस्य व्याचष्टे—एवं चेति ॥ जीवस्येत्यादि ना जैनमतप्रसङ्गसन्निधापितमात्मनः शरीरपरिमाणत्वमेवमित्यनेन प रामृश्यते । चकारोऽङ्गीकारद्योतक आत्मशब्दश्च जीवपर इत्युक्तं भव ति। एवमेवमित्येतदापादकपरतया व्याख्यायात्माकार्त्स्न्यमित्येतदेकं प दं कृत्वा स्यादित्यध्याहारेणापाद्यपरतया व्याख्याति-अण्वादीति । पि पीलिकादिशरीरस्थस्यैवेत्यर्थः । जीवस्येत्यनुषज्यते । तत्तत्परिमाण स्येत्यपि द्रष्टव्यम् । हस्त्यादीति । गजगर्दभादिशरीर इत्यर्थः । कर्मव शात्प्राप्ते सतीति शेषः । 'अकार्त्स्न्यं' तस्य तत्रापूर्णता स्यादित्यर्थः । त तश्चात्मनः कायपरिमाणाभ्युपगमेऽपि न सर्वशरीरावयवगतचेष्टोपप त्तिरिति भावः। एवं शरीरपदं सावधारणं कृत्वाऽऽवृत्त्याण्वादिशरीरस्था दिपदद्वयोः विनियमेनाण्वादीत्यादिवाक्यं हस्त्यादिशरीरस्य तत्परिमा णस्यात्मनोऽण्वादिशरीरेपि पिपीलिकादिशरीरे कर्मवशात्प्राप्ते सति त च्शरीर एवाकार्त्स्न्यं स्यात् पूर्णता न स्यादतिरेकस्स्यादिति यावत्। तथा च शरीरपरिमाणत्वभङ्ग इत्यपि व्याख्येयम् । अत एवोभयत्रा
५१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] स्य हस्त्यादिशरीरेऽकात्स्न्यं स्यात् ॥ ३४ ॥ ( ३ ) ॐ ॥ न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ॐ ॥ ३५ ॥ तत्तच्छरीरस्थस्य तत्तत्परिमाणत्वमिति न मन्तव्यम् । विकारित्वादनित्यत्वप्रसक्तेः ॥ ३५ ॥ दिशब्दः । उक्तं हि तत्त्वप्रदीपे—हस्त्यादिशरीरस्थस्याण्वादिशरीर प्राप्तौ तच्छरीर एवात्मनः कात्स्न्यं न स्यादिति । अनेन सूत्रे एवमात्मा कात्स्न्यं च स्यादिति चशब्दस्यान्वयः, स चातिरेकसमुच्चयार्थ इ त्युक्तं भवति । केचित्तु-एतदर्थे भाष्येऽपि अकात्स्न्यमित्येतदनन्तरं चे ति शेष इत्याहुः । यद्वा-सूत्रे आत्मेति प्रथमान्तं भिन्नं पदं कात्स्न्यं अका- त्स्न्यमिति द्वेधा विच्छेदः । चः समुच्चये