पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 561, कुल 1267 में से
संदर्भ में पढ़ें५१४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] प्रमाणाभावात्सर्वश्रुतिस्मृतियुक्तिविरुद्धत्वाच्च नैते प- क्षा ग्राह्याः ॥ ३२ ॥ ❖ ❖ ❖ १०. अधिकरणम् ॥ ( १ ) स्याद्वादिमतं दूषयति— सू—ॐ ॥ नैकस्मिन्नसम्भवात् ॥ ॐ ॥ ३३ ॥ णाश्च । स्मृतयस्तु ‘स एव भूयः’ इत्याद्याः उक्ताः वक्ष्यमाणाश्च । युक्त- यस्तु सूत्रोक्ता एव द्रष्टव्याः । एते वेदविद्वेषिणां वैभाषिकसौत्रान्ति- कशून्यवादिविज्ञानवादिनां पक्षाः प्रेक्षावद्भिर्न ग्राह्याः नोपादेयाः इति। अनेन नैते ग्राह्या इत्यस्याध्याहारः सूचितः। अत्र श्रुत्यादिविरोधवचन- मधिकारिणं प्रत्येव न तु परं प्रति तन्मते तेषां अप्रामाणिकत्वादिति ध्येयम् । तथा चायं तत्त्वप्रदीपदिशा सूत्रार्थः । सर्वथा सर्वप्रकारेषु प्रत्यक्षक्षणिकत्वकल्पने परोक्षप्रत्यक्षबिम्बप्रतिबिम्बजगद्युगलकल्पने शू- न्याद्वैतकल्पने विज्ञानाद्वैतकल्पने प्रकटने प्रच्छादने वा सर्वेषां वेदद्वे- षिणां पक्षाः नोपपद्यन्ते । कुतोऽनुपपत्तेः । उपपत्तिपदोपलक्षितप्रमाण- सामान्याभावात्प्रमाणविरुद्धत्वाच्च । स्थायिनोः जीवेशयोरनङ्गीकारा- च्च । अतो न ग्राह्या इति ॥ ९ ॥ ॥ इति अनुपलब्ध्यधिकरणम् ॥ —-::*-— १०. अधिकरणम् ॥ ( १ ) अधिकरणार्थं दर्शयति—स्यादिति ॥ सप्तप्रकारिणो जग- तः कायपरिमाणाजीवात्मनो दृष्टादृष्टसाधनैश्चोत्पत्तिसम्भवात्किमी- श्वरेण कृत्यमित्युक्तं लक्षणसूत्रमिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्य- स्य व्याचष्टे—नेति । सत्स्यादित्याद्यनुवादेन जैनोक्तस्य सूत्रकृद्बुद्धि- स्थस्य नञर्थप्रतियोगिनः सप्तभङ्गित्वस्य सूत्रे अध्याहृततच्छब्देन प- रामर्शः कार्य इति सूचितम् । अत्र जगत्सत्स्यादित्यनेन सत्त्वाख्यैकप्र- कारोऽभिहितः। असत्स्यादित्यनेनान्यप्रकारः । सदसत्स्यादित्यनेन स- दसत्त्वरूपोऽपरः प्रकारोऽभिहितः। ततः उक्तपक्षत्रयादन्यश्चकारादन्य- स्तुनस्ततोऽन्यस्ततोऽन्यदपि स्यादित्यनेन प्रकारचतुष्टयमनूदितम् । त- था हि—ततः सदसद्भ्यां अन्यदिति सदसद्विलक्षणत्वप्रकारोक्तिः । पुनः सत्स्यात्ततोऽन्यत्स्यादिति अन्वयेन सत्त्वे सति सदसद्विलक्षण-