पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 562, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - ३४. ] दीपिकासहितम्. ५१५ सत्स्यादसत्स्यात्सदसत्स्यात्ततोऽन्यच्च स्यादित्येतदे कस्मिन् युज्यते । अदृष्टत्वेनासम्भवात् ॥ ३३ ॥ ( २ ) सू—ॐ ॥ एवं चात्माकात्स्न्र्यम् ॥ ॐ ॥ ३४ ॥ जीवस्य । शरीरपरिमितत्वाङ्गीकारेऽण्वादिशरीरस्थ त্বরূপोऽन्यः प्रकारोऽनूदितः । एवमसत्स्यात्ततोऽन्यच्च स्यादित्यन्वये न असत्त्वे सत्यसद्विलक्षणत्वरूपप्रकारोऽभिहितः । तथा सदसत्स्या त्ततोऽन्यत्स्यादित्यन्वयेन सदसत्त्वे सति सदसद्विलक्षणत्वरूपोऽपरः इ ति पूर्वोक्तप्रकारत्रयेण सहास्य सप्तत्वमित्येवं रूपमेतत् । तद्दोषपरि जिहीर्षुणा जिनेनोक्तं जगतः सप्तभङ्गित्त्वमेकस्मिन् वस्तुनि न युज्यते इत्यर्थः । कुतो नेत्यत उक्तस्यासम्भवादेतस्यासम्भावितत्वादिति हे तोर्हेत्वन्तरसाध्यत्वात्तद्धेतुत्वेनासत इति सूत्राददृष्टत्वादिति पदमनु वर्त्य योजयति—अदृष्टत्वेनेति । सदसद्भ्यामन्यभङ्गिन एवाप्रामाणि कत्वेन एकस्मिन् सप्तभङ्गित्त्वस्य सुतरामप्रामाणिकत्वेनेत्यर्थः ॥ ( २ ) यदपि जीवस्याणुत्वे सर्वाङ्गवेदनानुसन्धानायोगाद्व्यापृतत्वे च देहान्तरगतस्याप्यनुसन्धानप्रसङ्गाच्छरीरपरिमितत्वमुक्तं जिनेन तत्र प्रष्टव्यं, किं तत् स्वीयसर्वशरीरावयवगतचेष्टोपपत्त्यर्थमुपेयते । उत शरीरावच्छिन्नत्वमन्तरेणात्मनः स्वतः परिमाणाभावाद्वा । तत्राद्यपक्षं प्रतिक्षेप्तुं प्रवृत्तं सूत्रमुपन्यस्य व्याचष्टे—एवं चेति ॥ जीवस्येत्यादि ना जैनमतप्रसङ्गसन्निधापितमात्मनः शरीरपरिमाणत्वमेवमित्यनेन प रामृश्यते । चकारोऽङ्गीकारद्योतक आत्मशब्दश्च जीवपर इत्युक्तं भव ति। एवमेवमित्येतदापादकपरतया व्याख्यायात्माकार्त्स्न्यमित्येतदेकं प दं कृत्वा स्यादित्यध्याहारेणापाद्यपरतया व्याख्याति-अण्वादीति । पि पीलिकादिशरीरस्थस्यैवेत्यर्थः । जीवस्येत्यनुषज्यते । तत्तत्परिमाण स्येत्यपि द्रष्टव्यम् । हस्त्यादीति । गजगर्दभादिशरीर इत्यर्थः । कर्मव शात्प्राप्ते सतीति शेषः । 'अकार्त्स्न्यं' तस्य तत्रापूर्णता स्यादित्यर्थः । त तश्चात्मनः कायपरिमाणाभ्युपगमेऽपि न सर्वशरीरावयवगतचेष्टोपप त्तिरिति भावः। एवं शरीरपदं सावधारणं कृत्वाऽऽवृत्त्याण्वादिशरीरस्था दिपदद्वयोः विनियमेनाण्वादीत्यादिवाक्यं हस्त्यादिशरीरस्य तत्परिमा णस्यात्मनोऽण्वादिशरीरेपि पिपीलिकादिशरीरे कर्मवशात्प्राप्ते सति त च्शरीर एवाकार्त्स्न्यं स्यात् पूर्णता न स्यादतिरेकस्स्यादिति यावत्। तथा च शरीरपरिमाणत्वभङ्ग इत्यपि व्याख्येयम् । अत एवोभयत्रा