पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 550, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २२. ] दीपिकासहितम्. ५०३ कारणे विनष्टे कार्यमुत्पद्यते चेत्तत्कार्यमिति प्रतिज्ञाहानिः। (८) तत्काले कारणमस्ति चेद्विनाशाकारणाभावाद्यौगपद्यं सर्वकार्याणाम् ॥ २१ ॥ (९) सू— ॐ ॥ प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छे- दात् ॥ ॐ ॥ २२ ॥ तीति ॥ कारणे विनष्ट इत्यनेनासतीत्यस्यार्थ उक्तः। कार्यमुत्पद्यते चे- दित्यनेन सूत्रे उत्तरोत्पाद इत्यस्यानुवृत्तिः सूचिता। अस्य पक्षान्तरत्व- द्योतनाय-चेदिति। यदीत्यर्थेऽयम्। अतस्तर्हीति लभ्यते। तदिति त- न्त्रं। तस्य तत्कार्यमिति प्रतिज्ञायाः सैद्धान्तिकप्रतिज्ञापदानां हानि- र्विरोधः स्यादित्यर्थः। कार्यकाले कारणस्य सत्त्वावश्यंभावेन तदन- भ्युपगमे तस्य तत्कार्यत्वमिति व्यपदेशो विरुद्ध इति भावः ॥ (८) पक्षान्तरोद्घाटनपरमन्यथेत्येतद्व्याचष्टे—तत्काल इति ॥ का- र्योत्पत्तिक्षण इत्यर्थः। कारणे सत्येवकार्यमुत्पद्यते चेदिति पर्यवसिता- र्थः। यौगपद्यं स्यादिति शेषः। कुत इत्यतः सूत्रकृदभिप्रेतहेतुमाह- विनाशकारणाभावादिति। कार्योत्पत्तिक्षणरूपद्वितीयक्षणे कारणस्य सत्त्वेन तस्यास्तद्विनाशकत्वायोगात्, विनाशकान्तरस्य चाभावात्। तृतीयादिक्षणेऽपि सतस्तस्मात्पुनः कार्योत्पत्तयः स्युः। कारणे सति कार्यं भवत्येवेति नियमात्। तेभ्यस्तथेति सर्वकार्याणां यौगपद्यमवि- च्छेदेनोत्पत्तिः स्यादित्यर्थः। एवं तत्काल इति वाक्यं यस्मिन् काले कारणमस्ति तत्काले कारणसत्त्वकाले कार्यमस्ति चेत् तस्यापि कि- ञ्चित्कार्यकारणत्वेन तत्सत्त्वकाले कार्यान्तरस्यापि सत्त्वापत्त्या तस्या- प्येवं सत्त्वापत्त्या सर्वकार्याणां विनाशकारणाभावाद्यौगपद्यं युगपदव- स्थानं स्यात्। ततश्चैकस्यां घटिकायां कुलालशालापरिपूर्तिप्रसङ्ग इ- त्यपि व्याख्येयम्। अतएव कारणे विनष्टे कार्यमुत्पद्यते चेदिति प्रथम- पक्षवैपरीत्येनान्यथाशब्दार्थमनभिधायोभयविधयौगपद्यापादनाय त- त्काले कारणमस्ति चेदिति वाक्यविन्यासः कृतः ॥ (९) एवं क्षणिकवादे कार्योत्पत्तिं निराकृत्य विनाशं च निराकुर्वन्सू- त्रं पठित्वा व्याचष्टे—प्रतिसङ्ख्येति ॥ नियमादित्यनेन विच्छेदोऽनिय- मस्तदभावोऽविच्छेद इति हेतोरर्थान्तरमभिप्रैति। अभ्युपगमोपलक्ष- कमेतत्। कार्योत्पत्त्यविच्छेदादित्यर्थान्तरं तु न युज्यत इत्युत्तरवा- क्यस्य न हि कार्योत्पत्तिविच्छेदो युज्यत इति योजनयाऽभिहितं बो