पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 549, कुल 1267 में से
संदर्भ में पढ़ें(५) सू—ॐ॥ उत्तरोत्पादे च पूर्वनिरोधात् ॥ ॐ ॥ २० ॥ (६) कार्योत्पत्तावेव कारणस्य विनाशाच्च न विशेषकार्यो- त्पत्तिः ॥ २० ॥ (७) सू—ॐ ॥ असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ ॐ ॥ २१ ॥ रोधः , सुधाविरोधश्चेति वाच्यम् । द्वितीयतृतीयसूत्रयोरर्थान्तरा- भिप्रायेण तत्प्रवृत्त्या विरोधाभावात् ॥ (५) एवं विरलपरमाणुभ्यो मिलितपरमाणूत्पत्तिमभ्युपेत्य व्यव- हाराद्यसम्भवो दर्शितः । अथ विसदृशकार्योत्पत्तिमपि निराकुर्वत्सूत्र- मुपन्यस्य व्याचष्टे—उत्तरेति ॥ कार्यशब्दः सदृशकार्यपरः । विषयस- प्तमीयम् । सामर्थ्यादिति शेषः । तथा च कारणस्य सदृशकार्यजनन एव सामर्थ्यादित्यर्थः । न तु विसदृशकार्योत्पत्तौ । अन्यथा घटात्पटो- त्पत्तिप्रसङ्गात् इत्येवशब्दार्थः । कार्यकारणपदाभ्यां उत्तरपूर्वशब्दौ व्याख्यातौ । कार्योत्पत्तावेव कारणस्य सामर्थ्यादिति हेत्वन्वययोग्यं सूत्रे नञनुवृत्त्या लब्धं साध्यं दर्शयति—नेति । विशेषेभ्यो विरलेभ्यः परमाणुभ्यो विशेषकार्योत्पत्तिः मिलितपरमाणुरूपविसदृशकार्योत्प- त्तिर्न युक्तेत्यर्थः । चशब्दो भिन्नक्रमेणात्राप्यन्वेति । न केवलं वित्ति- व्यवहारयोरसम्भव इति तदर्थः । एवेत्यनेन विशेषकार्योत्पत्तिश्चेत्यने- न च सौत्रचशब्दोऽवधारणार्थः समुच्चयार्थश्चेत्युक्तं भवति ॥ (६) ननु सदृशकार्यजनने समर्थमपि कारणं कार्यमुत्पाद्य पश्चा- त्तत्र वैसादृश्यमुत्पादयति, न चातिप्रसङ्गः । विशेषकार्योत्पत्तेरदृष्टा- धीनत्वादित्यतस्तत्रोत्तरत्वेनापि उत्तरोत्पाद इति समग्रसूत्रं योजय- ति—कार्येति ॥ अत्र पक्षे उत्तरोत्पाद इति सतिसप्तमी । निरोधाच्चे- त्यपिशब्दान्वयः। तथा च 'उत्तरोत्पादे' कार्योत्पत्तौ सत्यामेव 'पूर्वनि- रोधात्' पूर्वस्य कारणस्य विनाशाच्च नोक्तविशेषकार्योत्पत्तिर्युक्तेत्य- र्थः । अन्यथा पूर्वनिरोधात् पूर्वाचार्याङ्गीकृतक्षणिकत्वविरोधादिति चशब्दसूचितार्थः । तत्त्वप्रदीपे तु इतश्च न विशेषकार्योत्पत्तिरित्यव- तारितत्वात् चशब्दस्य पूर्वहेतुसमुच्चायकत्वमुक्तम् । अतएवैकं कार्य- मिति पूर्वहेतुव्याख्यानरूपं भाष्यमपि विशेषकार्योत्पत्तिनिरासकतया व्याख्यातम् ॥ (७) एवं विसदृशकार्योत्पत्तिनिरासेन व्यवहारादिकं पराकृत्ये- दानीं प्रतिक्षणकार्योत्पत्तिमेव निराकुर्वत्सूत्रमुपन्यस्य व्याचष्टे—अस