पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 548, कुल 1267 में से
संदर्भ में पढ़ेंहियत इति चेन्न । एकं कार्यमुत्पाद्य तस्यं विनष्टत्वा त्परस्परप्रत्ययस्तदपेक्षया व्यवहार इति न युज्यते । ( ४ ) कारणे सति कार्य भवत्येवेति हि तस्य नियमः ॥ १९ ॥ न प्रवृत्तमुत्पत्तीति सौत्रहेतुं तात्पर्यतो व्याख्याति—एकमिति । 'तस्य' विरलानेकपरमाणुजन्यसमुदायस्य ' एकं ' एव ' कार्यमुत्पाद्य नष्टत्वा त् ' इत्यर्थः । तथा च प्रथमं विरलपरमाणूनां मिलितपरमाणूत्पादक त्वं मिलितानां च दर्शनं ततः इदं चेदं चेतिपरस्परापेक्षाप्रत्ययः, ततो व्यवहारादिः, तत्र द्रष्टा पुरुषः परमाणवश्च क्षणिकाः ते चैकमेव का र्यमुत्पाद्य नश्यन्तीत्यङ्गीकुर्वतां सौगतानां मते प्रथममेकस्य परमाणोर्द्र र्शनम् , अथ तत्रैव तस्यैवापेक्षा बुद्धिः अथ तत्रैव तस्यैव व्यवहारा दीति क्रमो न युज्यते । तन्मते सर्वेषां क्षणिकत्वेन दर्शनबुद्धिव्यवहा रादीनां एकविषयत्वस्यैकाधिकरणत्वस्य चायोगादिति भावः । अने नोत्पत्तिनिमित्तमात्रत्वादिति सूत्रशेषस्य परमाणूनामेककार्योत्पत्तावे व निमित्तत्वात् द्वितीयादिक्षणवृत्तिदर्शनापेक्षाबुद्ध्यादिरूपकार्यान्तरो त्पत्तावनििमित्तत्वात् तेषामेकं समुदायाख्यं कार्यमुत्पाद्य नष्टत्वात् पु नस्तेभ्यः कार्यान्तरोत्पत्त्ययोगादित्यर्थ उक्तो भवति ॥ (४) ननु विरलपरमाणुजन्यानां मिलितपरमाणूनां स्थायित्वम ङ्गीक्रियते । ततस्तद्विषये दर्शनापेक्षाबुद्धिव्यवहारा भवेयुरतो नोक्त दोष इत्यत आह-कारणे सतीति॥ हियतस्तस्य सौगतस्य नियमः। अ स्तीति शेषः । अस्यातस्तेषां स्थायित्वाभ्युपगमे प्रतिक्षणं कार्योत्पाद कत्वप्रसङ्गः। तथाचाल्पतरकालेऽप्येकैकस्मात्परमाणुपुञ्जात्मकाद्धटादने ककार्योत्पत्त्या कुलालशालापरिपूर्तिप्रसङ्ग इत्युपस्कृतवाक्येनान्वयः। यद्यपि क्षणिकत्वहानिरेव वक्तव्या, न तूक्तबाधकम् । तथापि क्षणिक त्वहानिरेव क्षणिकत्वाभ्युपगमे नियमाख्यकारणप्रदर्शनेनोक्ता वेदित व्या। अस्माभियमात्स्थायित्वाभ्युपगमे कुलालशालापरिपूर्तिप्रसङ्गा द्धि तैः क्षणिकत्वमभ्युपगतम् । अत्र तत्त्वप्रदीपे—इतिचेत्कार्यसम्भूति मात्रव्यावृत्तिकारणमित्यनुभाष्यदिशा द्वितीयसूत्रांशस्य कारणस्य स दृशकार्योत्पत्तावेव निमित्तत्वादित्यर्थमभिप्रेत्य तदनुसारेणैकं सदृशं कार्यमुत्पाद्य तस्य विनष्टत्वान्नापेक्षाप्रत्ययादिरूपविसदृशकार्योत्पत्ति र्युज्यते । कुत एतत् ? कारणे सति कार्यं भवत्येवेति तस्य नियमो, न पुनर्विशेषकार्यमपीति भाष्यस्याप्यर्थ उक्तः । न चैवं टीकायास्तद्वि