पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 547, कुल 1267 में से
संदर्भ में पढ़ें५०० | ब्रह्मसूत्रभाष्यम्. | [ अध्या - २. पा - २. ] ( ३ ) सू—ॐ ॥ इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनि मित्तत्वात् ॥ ॐ ॥ १९ ॥ सर्वदा विद्यमानोऽपि समुदायः परस्परापेक्षया व्यव ना । समुदायस्येति पाठान्तरम् । यस्मादेवं समुदायस्याप्राप्ति- तस्मात्स एव गोघटादिबुद्धिवेद्यो न त्ववयवी कश्चिदस्तीति पक्षो न युक्त इति भावः ॥ ( ३ ) उक्तमाक्षिप्य समाधत्सूत्रं पठति—इतरेतरेति ॥ अत्र षष्ठ्य- न्ततया विपरिणतस्य समुदायस्येति पदस्य व्यवहार इत्यस्य वा अनु- वृत्तिः, इतरसहितं इतरत् इतरेतरत् तस्य प्रत्ययः द्वित्वाद्यपेक्षाबु- द्धिः इतरेतरप्रत्ययः। स निमित्तभूतो ययोर्वित्तिव्यवहारयोस्तावितरे- तरप्रत्ययाविति व्यधिकरणो बहुव्रीहिः। अतः 'अर्श आदिभ्यो ऽच्' विषयतासम्बन्धेन तद्वान्। यद्वा—इतरत् इतरत्र प्रत्ययः इदं चेदं चे- त्यपेक्षाबुद्धिः यस्य व्यवहारादेर्निमित्तभूतः स तथोक्तः । तस्य भाव- स्तत्त्वं, तस्मादिति विग्रहं चाभिप्रेत्य समुदायस्य विरलानेकहेतुक- त्वपक्षोक्तदोषोद्धाराय तत्र हेतुकथनार्थं प्रवृत्तमाक्षेपांशं तावद्व्याच- ष्टे—सर्वदेति। अपिर्यद्यपि तथापीत्यर्थे। नञावर्तते। योजना तु-यद्य- पि विरलानेकहेतुकः समुदायः सर्वदा विद्यमानो नित्य एव भवति, तथाऽपि न प्रलयानुपपत्तिदोषः।